श्रीसूर्यकवचम्
श्रीसूर्यकवचम्
घृणिर्मे शीर्षकं पातु सूर्यः पातु ललाटकम् ।
आदित्यःपातु नेत्रे द्वे श्रोत्रे पातु दिवाकरः ॥ १॥
नासिकां च त्रयीपातु पातु गण्डस्थले रविः ।
पातूत्तरोष्ठमुष्णांशुरधरोष्ठमहर्पतिः ॥ २॥
दन्तान्पातु जगच्चक्षुः जिह्वां पातु विभावसुः ।
वक्त्रं पातु सहस्रांशुः चिबुकं पातु शङ्करः ॥ ३॥
पार्शे पातु पतङ्गश्च पृष्ठं पातु प्रभाकरः ।
कुक्षिं दिनमणिः पातु मध्यं पातु प्रजेश्वरः ॥ ४॥
पात्वंशुमाली नाभिं मे कटिं पात्वमराग्रणीः ।
ऊरू पातु ग्रहपतिः जानुनी पातु सर्वगः ॥ ५॥
जङ्घे धामनिधिः पातु गुल्फौ पातु प्रभाकरः ।
मार्ताण्डः पातु पादौ मे पातु मित्रोऽखिलं वपुः ॥ ६॥
फलश्रुतिः ।
इदमादित्यनामाख्यं कवचं धारयेत्सुधीः ।
सदीर्घायुस्सदा भोगी स्थिरसम्पद्विजायते ॥ ७॥
धर्मसञ्चारिणो लोके त्रयीश्री सूर्यवर्मणा ।
आवृतं पुरुषं द्रष्टुमशक्ता भयविह्वलाः ॥ ८॥
मित्रयन्तोद्भवन्तस्तं तिरस्कर्तुं तदक्षमम् ।
विरोधिनस्तु सर्वत्र तदाचरणतत्पराः ॥ ९॥
दारिद्र्यं चैव दौर्भाग्यं मारकस्त्विह दह्यते ।
सूर्येति सुरराजेति मित्रेति सुमनास्स्मरन् ॥ १०॥
पुमान्न प्राप्नुयाद्दुःखं शाश्वतं सुखमश्नुते ।
सर्वोन्नतगुणाधारं सूर्येणाशु प्रकल्पितम् ॥ ११॥
कवचं धारयेद्यस्तु तस्य स्यादखिलं वशम् ।
सदा गदाधरस्यापि छेत्तुं किं च तदक्षयम् ॥ १२॥
तस्य हस्ते च सर्वापि सिद्धीः प्रत्ययदायिनीः ।
सुखस्वपे यदा सूरः स्वस्य वर्मोपविष्टवान् ॥ १३॥
याज्ञवल्क्यो स्तवान् सप्त समक्षं हृदये मुदा ।
स घृणिस्सूर्य आदित्यस्तपनस्सविता रविः ॥ १४॥
कर्मसाक्षी दिनमणिर्मित्रो भानुर्विभुर्हरिः ।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥ १५॥
तस्य मृत्युभयं नास्ति सपुत्रो विजयी भवेत् ।
द्वाभ्यां त्रिभिस्त्रिभिर्व??सन्मन्त्रपद्धतिम् ॥ १६॥
विज्ञायाष्टाक्षरीमेतां ओङ्कारादि जपेत्कृती ।
मन्त्रात्मकमिदं वर्म मन्त्रवद्गोपयेत्तथा ॥ १७॥
अमन्दविदुषः पुंसो दातुं तद्दुर्लभं खलु ।
दुर्लभं भक्तिहीनानां सुलभं पुण्यजीविनाम् ॥ १८॥
य इदं पठते भक्त्या शृणुयाद्वा समाहितः ।
तस्य पुण्यफलं वक्तुमशक्यं वर्षकोटिभिः ॥ १९॥
इत्यादित्यपुराणे उत्तरखण्डे याज्ञवल्क्य विरचितं
श्रीसूर्यकवचं सम्पूर्णम् ।
स्वर्भुवर्भूरोमित दिग्विमोकः
श्री सूर्यनारायण परब्रह्मार्पणमस्तु ।
इति श्रीसूर्यकवचं सम्पूर्णम् ।