शिवताण्डवस्तुतिः
शिवताण्डवस्तुतिः
श्रीगणेशाय नमः ॥
देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधराः ।
ब्रह्मनुन्नय दूरमात्मभुवनं नाथस्य नो नृत्यतः
शम्भोः सङ्कटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥ १॥
दोर्दण्डद्वयलीलयाऽचलगिरिभ्राम्यत्तदुच्चैरव-
ध्वानोद्भीतजगद्भ्रमत्पदभरालोलत्फणाग्र्योरगम् ।
भृङ्गापिङ्गजटाटवीपरिसरोद्गङ्गोर्मिमालाचलच्चन्द्रं
चारु महेश्वरस्य भवतां निःश्रेयसे मङ्गलम् ॥ २॥
सन्ध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमि-
व्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः ।
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृता-
मुड्डीनेषु बिडौजसा पुनरसौ दम्भोलिरालोकितः ॥ ३॥
शर्वाणीपाणितालैश्चलवलयझणत्कारिभिः श्लाध्यमानं
स्थाने सम्भाव्यमानं पुलकितवपुषा शम्भुना प्रेक्षकेण ।
खेलत्पिच्छालिकेकाकलकलकलितं कौञ्चभिद्बर्हियूना
हेरम्बाकाण्डबृंहातरलितमनसस्ताण्डवं त्वा धिनोतु ॥ ४॥
देवस्त्रैगुण्यभेदात्सृजति वितनुते संहरत्येष लोकानस्यैव
व्यापिनीभिस्तनुभिरपि जगद्व्याप्तमष्टाभिरेव ।
वन्द्यो नास्येति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिर्वः
शम्भोर्नृत्यावतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः ॥ ५॥
इति शिवताण्डवस्तुतिः समाप्ता ।