शिव स्तोत्र

शिवमानसपूजा अथवा आत्मपूजास्तोत्रम्

शिवमानसपूजा अथवा आत्मपूजास्तोत्रम्

श्रीगणेशाय नमः ॥

ॐ प्रत्यक्प्रवणधीवृत्त्या हृद्गृहान्तःप्रवेशनम् ।
मण्डपान्तःप्रवेशोऽयं पूजार्थं तव शङ्कर ॥ १॥

गुरुवाक्येषु विश्वासः स्थितिरासनसंस्थितिः ।
सर्वसङ्कल्पसन्त्यागः सङ्कल्पस्तव पूजने ॥ २॥

सर्वाधारस्त्वमेवेति निश्चयः पीठपूजनम् ।
ध्यानध्यातृध्येयबाधो ध्यानमानन्दकारणम् ॥ ३॥

दृश्यप्रमार्जनं चित्तान्निर्माल्यस्य विसर्जनम् ।
अहं ब्रह्मेत्यखण्डा या वृत्तिर्धाराभिषेचनम् ॥ ४॥

पृथिव्यात्मकता दृष्टिस्तव गन्धसमर्पणम् ।
बोधोपशमवैराग्यं त्रिदलं बिल्वमर्पये ॥ ५॥

आकाशात्मकताबोधः कुसुमार्पणमीश्वर ।
जगदाकाशपुष्पाभमिति पद्मं समर्पये ॥ ६॥

वायुतेजोमयत्वं ते धूपदीपावनुत्तमौ ।
दृश्यासम्भवबोधेन निजानन्देन तृप्तता ॥ ७॥

सर्वतः प्रीतिजनकं नैवेद्यं विनिवेदये ।
जलात्मकत्वबुद्धिस्तु पीयूषं तेऽर्पये पिब ॥ ८॥

कर्तव्येष्वप्रसक्तिस्तु हस्तप्रक्षालनं तव ॥ ९॥

दुर्वासनापरित्यागस्ताम्बूलस्य समर्पणम् ।
वाचां विसर्जनं देव दक्षिणा श्रुतिसम्मता ॥ १०॥

फलाभिसन्धिराहित्यं फलार्पणमनुत्तमम् ।
अहमेव परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ११॥

एवं निदिध्यासवाक्यं स्तुतिः प्रियकरी तव ।
नामरूपाणि न त्वत्तो भिन्नानीति मतिस्तु या ॥ १२॥

तव पुष्पाञ्जलिः शम्भो सर्वत्रोत्कीर्णपुष्पकः ।
स्वप्रकाशात्मबुद्धिस्तु महानीराजनं तव ॥ १३॥

प्रादक्षिण्यं सर्वतस्ते व्याप्तिबुद्धिः स्मृतं शिव ।
त्वमेवाहमिति स्थित्या लीनता प्रणतिस्तव ॥ १४॥

शुद्धसत्त्वस्याभिवृद्धिश्छत्रं तापापनोदनम् ।
रजस्तमस्तिरस्कारश्चामरान्दोलने तव ॥ १५॥

निजानन्दपराघूर्णदोलनान्दोलने वस ।
धन्योऽहं कृतकृत्योऽहमिति गानं तव प्रियम् ॥ १६॥

निरङ्कुशं महातृप्त्या नर्तनं ते मुदे शिव ।
नानाविधैः शब्दजालैजृम्भणं वाद्यमुत्तमम् ॥ १७॥

शब्दातिगत्वबुद्धिस्तु कल्याणमिति डिण्डिमः ।
वेगवत्तरगन्ताऽसौ मनोऽश्वस्ते समर्पितः ॥ १८॥

अहम्भावमहामत्तगजेन्द्रो भूरिलक्षणः ।
तत्र देहाद्यनारोपनिष्ठा दृढतरोऽङ्कुशः ॥ १९॥

अद्वैतबोधदुर्गोऽयं यत्र शत्रुर्न कश्चन ।
जनतारामविस्तारो रमस्वात्र यथासुखम् ॥ २०॥

कल्पनासम्परित्यागो महाराज्यं समर्पये ।
भोक्तृत्वाध्यासराहित्यं वरं देहि सहस्रधा ॥ २१॥

अखण्डा तव पूजेयं सदा भवतु सर्वदा ।
आत्मत्वात्तव मे सर्वपूजैवास्ति न चान्यथा ॥ २२॥

इमां पूजां प्रतिदिनं यः पठेद्यत्रकुत्रचित् ।
सद्यः शिवमयो भूत्वा मुक्तश्चरति भूतले ॥ २३॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्कृष्णानन्द-
सरस्वतीविरचिता शिवमानसपूजा समाप्ता ।