श्रीशिवपञ्चकम् शिवपञ्चकम् (शारदी भजगाः)
श्रीशिवपञ्चकम्
शिवपञ्चकम् (शारदी भजगाः)
साम्बपरमेश्वर प्रेमरसमाधुर ।
श्रावणसुरेश्वर स्वामिहृदयेश्वर ॥ १॥
लिङ्गधवलेश्वर प्राणपतिशङ्कर ।
पाहि वरदायक योगसुखसागर ॥ २॥
औषधरसायनं व्याधिभयनाशनम् ।
देहि कुशलं प्रभो सर्वजनताधनम् ॥ ३॥
कालियगलार्चितो भूषणगणावृतः ।
कालविषजालितो हेमशिखरार्चितः ॥ ४॥
मारतनुजालितः सारसकलीकृतः ।
हे विपुलशारदीलालितकलाकृतः ॥ ५॥
इति प्रदीप्तकुमारनन्दशर्मविरचितं शिवपञ्चकम् समाप्तम् ।