शिव स्तोत्र

श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये मृत्युञ्जयसहस्रनामं

मृत्युञ्जयसहस्रनामस्तोत्रम्


श्रीगणेशाय नमः ।
श्रीभैरव उवाच ।
अधुना श‍ृणु देवेशि सहस्राख्यस्तवोत्तमम् ।
महामृत्युञ्जयस्यास्य सारात् सारोत्तमोत्तमम् ॥

अस्य श्रीमहामृत्युञ्जसहस्रनामस्तोत्र मन्त्रस्य,
भैरव ऋषिः, उष्णिक् छन्दः, श्रीमहामृत्युञ्जयो देवता,
ॐ बीजं, जुं शक्तिः, सः कीलकं, पुरुषार्थसिद्धये
सहस्रनाम पाठे विनियोगः ।
ध्यानम्
उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं शिवं
ॐजुंसःभुवनैकसृष्टिप्रलयोद्भूत्येकरक्षाकरम् ।
श्रीमत्तारदशार्णमण्डिततनुं त्र्यक्षं द्विबाहुं परं
श्रीमृत्युञ्जयमीड्यविक्रमगुणैः पूर्णं हृदब्जे भजे ॥

ॐजुंसःहौं महादेवो मन्त्रज्ञो मानदायकः ।
मानी मनोरमाङ्गश्च मनस्वी मानवर्धनः ॥ १॥

मायाकर्ता मल्लरूपो मल्लो मारान्तको मुनिः ।
महेश्वरो महामान्यो मन्त्री मन्त्रिजनप्रियः ॥ २॥

मारुतो मरुतां श्रेष्ठो मासिकः पक्षिकोऽमृतः ।
मातङ्गको मत्तचित्तो मतचिन्मत्तभावनः ॥ ३॥

मानवेष्टप्रदो मेषो मेनकापतिवल्लभः ।
मानकायो मधुस्तेयी मारयुक्तो जितेन्द्रियः ॥ ४॥

जयो विजयदो जेता जयेशो जयवल्लभः ।
डामरेशो विरूपाक्षो विश्वभोक्ता विभावसुः ॥ ५॥

विश्वेशो विश्वनाथश्च विश्वसूर्विश्वनायकः ।
विनेता विनयी वादी वान्तदो वाक्प्रदो वटुः ॥ ६॥

स्थूलः सूक्ष्मोऽचलो लोलो लोलजिह्वः करालकः ।
विराधेयो विरागीनो विलासी लास्यलालसः ॥ ७॥

लोलाक्षो लोलधीर्धर्मी धनदो धनदार्चितः ।
धनी ध्येयोऽप्यध्येयश्च धर्म्यो धर्ममयो दयः ॥ ८॥

दयावान् देवजनको देवसेव्यो दयापतिः ।
डुलिचक्षुर्दरीवासो दम्भी देवमयात्मकः ॥ ९॥

कुरूपः कीर्तिदः कान्तः क्लीवोऽक्लीवात्मकः कुजः ।
बुधो विद्यामयः कामी कामकालान्धकान्तकः ॥ १०॥

जीवो जीवप्रदः शुक्रः शुद्धः शर्मप्रदोऽनघः ।
शनैश्चरो वेगगतिर्वाचालो राहुरव्ययः ॥ ११॥

केतुः कारापतिः कालः सूर्योऽमितपराक्रमः ।
चन्द्रो रुद्रपतिः भास्वान् भाग्यदो भर्गरूपभृत् ॥ १२॥

क्रूरो धूर्तो वियोगी च सङ्गी गङ्गाधरो गजः ।
गजाननप्रियो गीतो गानी स्नानार्चनप्रियः ॥ १३॥

परमः पीवराङ्गश्च पार्वतीवल्लभो महान् ।
परात्मको विराड्धौम्यः वानरोऽमितकर्मकृत् ॥ १४॥

चिदानन्दी चारुरूपो गारुडो गरुडप्रियः ।
नन्दीश्वरो नयो नागो नागालङ्कारमण्डितः ॥ १५॥

नागहारो महानागो गोधरो गोपतिस्तपः ।
त्रिलोचनस्त्रिलोकेशस्त्रिमूर्तिस्त्रिपुरान्तकः ॥ १६॥

त्रिधामयो लोकमयो लोकैकव्यसनापहः ।
व्यसनी तोषितः शम्भुस्त्रिधारूपस्त्रिवर्णभाक् ॥ १७॥

त्रिज्योतिस्त्रिपुरीनाथस्त्रिधाशान्तस्त्रिधागतिः ।
त्रिधागुणी विश्वकर्ता विश्वभर्ताऽऽधिपूरुषः ॥ १८॥

उमेशो वासुकिर्वीरो वैनतेयो विचारकृत् ।
विवेकाक्षो विशालाक्षोऽविधिर्विधिरनुत्तमः ॥ १९॥

विद्यानिधिः सरोजाक्षो निःस्मरः स्मरनाशनः ।
स्मृतिमान् स्मृतिदः स्मार्तो ब्रह्मा ब्रह्मविदां वरः ॥ २०॥

ब्राह्मव्रती ब्रह्मचारी चतुरश्चतुराननः ।
चलाचलोऽचलगतिर्वेगी वीराधिपो वरः ॥ २१॥

सर्ववामः सर्वगतिः सर्वमान्यः सनातनः ।
सर्वव्यापी सर्वरूपः सागरश्च समेश्वरः ॥ २२॥

समनेत्रः समद्युतिः समकायः सरोवरः ।
सरस्वान् सत्यवाक् सत्यः सत्यरूपः सुधीः सुखी ॥ २३॥

सुराट् सत्यः सत्यमती रुद्रो रौद्रवपुर्वसुः ।
वसुमान् वसुधानाथो वसुरूपो वसुप्रदः ॥ २४॥

ईशानः सर्वदेवानामीशानः सर्वबोधिनाम् ।
ईशोऽवशेषोऽवयवी शेषशायी श्रियः पतिः ॥ २५॥

इन्द्रश्चन्द्रावतंसी च चराचरजगत्स्थितिः ।
स्थिरः स्थाणुरणुः पीनः पीनवक्षाः परात्परः ॥ २६॥

पीनरूपो जटाधारी जटाजूटसमाकुलः ।
पशुरूपः पशुपतिः पशुज्ञानी पयोनिधिः ॥ २७॥

वेद्यो वैद्यो वेदमयो विधिज्ञो विधिमान् मृडः ।
शूली शुभङ्करः शोभ्यः शुभकर्ता शचीपतिः ॥ २८॥

शशाङ्कधवलः स्वामी वज्री शङ्खी गदाधरः ।
चतुर्भुजश्चाष्टभुजः सहस्रभुजमण्डितः ॥ २९॥

स्रुवहस्तो दीर्घकेशो दीर्घो दम्भविवर्जितः ।
देवो महोदधिर्दिव्यो दिव्यकीर्तिर्दिवाकरः ॥ ३०॥

उग्ररूप उग्रपतिरुग्रवक्षास्तपोमयः ।
तपस्वी जटिलस्तापी तापहा तापवर्जितः ॥ ३१॥

हविर्हरो हयपतिर्हयदो हरिमण्डितः ।
हरिवाही महौजस्को नित्यो नित्यात्मकोऽनलः ॥ ३२॥

सम्मानी संसृतिर्हारी सर्गी सन्निधिरन्वयः ।
विद्याधरो विमानी च वैमानिकवरप्रदः ॥ ३३॥

वाचस्पतिर्वसासारो वामाचारी बलन्धरः ।
वाग्भवो वासवो वायुर्वासनाबीजमण्डितः ॥ ३४॥

वासी कोलश‍ृतिर्दक्षो दक्षयज्ञविनाशनः ।
दाक्षो दौर्भाग्यहा दैत्यमर्दनो भोगवर्धनः ॥ ३५॥

भोगी रोगहरो हेयो हारी हरिविभूषणः ।
बहुरूपो बहुमतिर्बहुवित्तो विचक्षणः ॥ ३६॥

नृत्तकृच्चित्तसन्तोषो नृत्तगीतविशारदः ।
शरद्वर्णविभूषाढ्यो गलदग्धोऽघनाशनः ॥ ३७॥

नागी नागमयोऽनन्तोऽनन्तरूपः पिनाकभृतः ।
नटनो हाटकेशानो वरीयांश्च विवर्णभृत् ॥ ३८॥

झाङ्कारी टङ्कहस्तश्च पाशी शार्ङ्गी शशिप्रभः ।
सहस्ररूपो समगुः साधूनामभयप्रदः ॥ ३९॥

साधुसेव्यः साधुगतिः सेवाफलप्रदो विभुः ।
सुमहा मद्यपो मत्तो मत्तमूर्तिः सुमन्तकः ॥ ४०॥

कीली लीलाकरो लान्तः भवबन्धैकमोचनः ।
रोचिष्णुर्विष्णुरच्युतश्चूतनो नूतनो नवः ॥ ४१॥

न्यग्रोधरूपो भयदो भयहाऽभीतिधारणः ।
धरणीधरसेव्यश्च धराधरसुतापतिः ॥ ४२॥

धराधरोऽन्धकरिपुर्विज्ञानी मोहवर्जितः ।
स्थाणुकेशो जटी ग्राम्यो ग्रामारामो रमाप्रियः ॥ ४३॥

प्रियकृत् प्रियरूपश्च विप्रयोगी प्रतापनः ।
प्रभाकरः प्रभादीप्तो मन्युमान् अवनीश्वरः ॥ ४४॥

तीक्ष्णबाहुस्तीक्ष्णकरस्तीक्ष्णांशुस्तीक्ष्णलोचनः ।
तीक्ष्णचित्तस्त्रयीरूपस्त्रयीमूर्तिस्त्रयीतनुः ॥ ४५॥

हविर्भुग् हविषां ज्योतिर्हालाहलो हलीपतिः ।
हविष्मल्लोचनो हालामयो हरितरूपभृत् ॥ ४६॥

म्रदिमाऽऽम्रमयो वृक्षो हुताशो हुतभुग् गुणी ।
गुणज्ञो गरुडो गानतत्परो विक्रमी क्रमी ॥ ४७॥

क्रमेश्वरः क्रमकरः क्रमिकृत् क्लान्तमानसः ।
महातेजा महामारो मोहितो मोहवल्लभः ॥ ४८॥

महस्वी त्रिदशो बालो बालापतिरघापहः ।
बाल्यो रिपुहरो हाही गोविर्गविमतोऽगुणः ॥ ४९॥

सगुणो वित्तराड् वीर्यो विरोचनो विभावसुः ।
मालामयो माधवश्च विकर्तनो विकत्थनः ॥ ५०॥

मानकृन्मुक्तिदोऽतुल्यो मुख्यः शत्रुभयङ्करः ।
हिरण्यरेताः सुभगः सतीनाथः सिरापतिः ॥ ५१॥

मेढ्री मैनाकभगिनीपतिरुत्तमरूपभृत् ।
आदित्यो दितिजेशानो दितिपुत्रक्षयङ्करः ॥ ५२॥

वसुदेवो महाभाग्यो विश्वावसुर्वसुप्रियः ।
समुद्रोऽमिततेजाश्च खगेन्द्रो विशिखी शिखी ॥ ५३॥

गरुत्मान् वज्रहस्तश्च पौलोमीनाथ ईश्वरः ।
यज्ञपेयो वाजपेयः शतक्रतुः शताननः ॥ ५४॥

प्रतिष्ठस्तीव्रविस्रम्भी गम्भीरो भाववर्धनः ।
गायिष्ठो मधुरालापो मधुमत्तश्च माधवः ॥ ५५॥

मायात्मा भोगिनां त्राता नाकिनामिष्टदायकः ।
नाकीन्द्रो जनको जन्यः स्तम्भनो रम्भनाशनः ॥ ५६॥

शङ्कर ईश्वर ईशः शर्वरीपतिशेखरः ।
लिङ्गाध्यक्षः सुराध्यक्षो वेदाध्यक्षो विचारकः ॥ ५७॥

भर्गोऽनर्घ्यो नरेशानो नरवाहनसेवितः ।
चतुरो भविता भावी भावदो भवभीतिहा ॥ ५८॥

भूतेशो महितो रामो विरामो रात्रिवल्लभः ।
मङ्गलो धरणीपुत्रो धन्यो बुद्धिविवर्धनः ॥ ५९॥

जयी जीवेश्वरो जारो जाठरो जह्नुतापनः ।
जह्नुकन्याधरः कल्पो वत्सरो मासरूपधृत् ॥ ६०॥

ऋतुरृभूसुताध्यक्षो विहारी विहगाधिपः ।
शुक्लाम्बरो नीलकण्ठः शुक्लो भृगुसुतो भगः ॥ ६१॥

शान्तः शिवप्रदोऽभेद्योऽभेदकृच्छान्तकृत् पतिः ।
नाथो दान्तो भिक्षुरूपी दातृश्रेष्ठो विशाम्पतिः ॥ ६२॥

कुमारः क्रोधनः क्रोधी विरोधी विग्रही रसः ।
नीरसः सरसः सिद्धो वृषणी वृषघातनः ॥ ६३॥

पञ्चास्यः षण्मुखश्चैव विमुखः सुमुखीप्रियः ।
दुर्मुखो दुर्जयो दुःखी सुखी सुखविलासदः ॥ ६४॥

पात्री पौत्री पवित्रश्च भूतात्मा पूतनान्तकः ।
अक्षरं परमं तत्वं बलवान् बलघातनः ॥ ६५॥

भल्ली भौलिर्भवाभावो भावाभावविमोचनः ।
नारायणो मुक्तकेशो दिग्देवो धर्मनायकः ॥ ६६॥

कारामोक्षप्रदोऽजेयो महाङ्गः सामगायनः ।
तत्सङ्गमो नामकारी चारी स्मरनिसूदनः ॥ ६७॥

कृष्णः कृष्णाम्बरः स्तुत्यस्तारावर्णस्त्रपाकुलः ।
त्रपावान् दुर्गतित्राता दुर्गमो दुर्गघातनः ॥ ६८॥

महापादो विपादश्च विपदं नाशको नरः ।
महाबाहुर्महोरस्को महानन्दप्रदायकः ॥ ६९॥

महानेत्रो महादाता नानाशास्त्रविचक्षणः ।
महामूर्धा महादन्तो महाकर्णो महोरगः ॥ ७०॥

महाचक्षुर्महानासो महाग्रीवो दिगालयः ।
दिग्वासा दितिजेशानो मुण्डी मुण्डाक्षसूत्र भृत् ॥ ७१॥

श्मशाननिलयोऽरागी महाकटिरनूतनः ।
पुराणपुरुषोऽपारः परमात्मा महाकरः ॥ ७२॥

महालस्यो महाकेशो महोष्ठो मोहनो विराट् ।
महामुखो महाजङ्घो मण्डली कुण्डली नटः ॥ ७३॥

असपत्नः पत्रकरः पात्रहस्तश्च पाटवः ।
लालसः सालसः सालः कल्पवृक्षश्च कम्पितः ॥ ७४॥

कम्पहा कल्पनाहारी महाकेतुः कठोरकः ।
अनलः पवनः पाठः पीठस्थः पीठरूपकः ॥ ७५॥

पाटीनः कुलिशी पीनो मेरुधामा महागुणी ।
महातूणीरसंयुक्तो देवदानवदर्पहा ॥ ७६॥

अथर्वशीर्षः सोम्यास्यः ऋक्सहस्रामितेक्षणः ।
यजुःसाममुखो गुह्यो यजुर्वेदविचक्षणः ॥ ७७॥

याज्ञिको यज्ञरूपश्च यज्ञज्ञो धरणीपतिः ।
जङ्गमी भङ्गदो भाषादक्षोऽभिगमदर्शनः ॥ ७८॥

अगम्यः सुगमः खर्वः खेटी खट्वाननः नयः ।
अमोघार्थः सिन्धुपतिः सैन्धवः सानुमध्यगः ॥ ७९॥

प्रतापी प्रजयी प्रातर्मध्याह्नसायमध्वरः ।
त्रिकालज्ञः सुगणकः पुष्करस्थः परोपकृत् ॥ ८०॥

उपकर्तापहर्ता च घृणी रणजयप्रदः ।
धर्मी चर्माम्बरश्चारुरूपश्चारुविशोषणः ॥ ८१॥

नक्तञ्चरःकालवशी वशी वशिवरोऽवशः ।
वश्यो वश्यकरो भस्मशायी भस्मविलेपनः ॥ ८२॥

भस्माङ्गी मलिनाङ्गश्च मालामण्डितमूर्धजः ।
गणकार्यः कुलाचारः सर्वाचारः सखा समः ॥ ८३॥

सुकुरः गोत्रभिद् गोप्ता भीमरूपो भयानकः ।
अरुणश्चैकचिन्त्यश्च त्रिशङ्कुः शङ्कुधारणः ॥ ८४॥

आश्रमी ब्राह्मणो वज्री क्षत्रियः कार्यहेतुकः ।
वैश्यः शूद्रः कपोतस्थः त्वष्टा तुष्टो रुषाकुलः ॥ ८५॥

रोगी रोगापहः शूरः कपिलः कपिनायकः ।
पिनाकी चाष्टमूर्तिश्च क्षितिमान् धृतिमांस्तथा ॥ ८६॥

जलमूर्तिर्वायुमूर्तिर्हुताशः सोममूर्तिमान् ।
सूर्यदेवो यजमान आकाशः परमेश्वरः ॥ ८७॥

भवहा भवमूर्तिश्च भूतात्मा भूतभावनः ।
भवः शर्वस्तथा रुद्रः पशुनाथश्च शङ्करः ॥ ८८॥

गिरिजो गिरिजानाथो गिरीन्द्रश्च महेश्वरः ।
गिरीशः खण्डहस्तश्च महानुग्रो गणेश्वरः ॥ ८९॥

भीमः कपर्दी भीतिज्ञः खण्डपश्चण्डविक्रमः ।
खड्गभृत् खण्डपरशुः कृत्तिवासा विषापहः ॥ ९०॥

कङ्कालः कलनाकारः श्रीकण्ठो नीललोहितः ।
गणेश्वरो गुणी नन्दी धर्मराजो दुरन्तकः ॥ ९१॥

भृङ्गिरीटी रसासारो दयालू रूपमण्डितः ।
अमृतः कालरुद्रश्च कालाग्निः शशिशेखरः ॥ ९२॥

सद्योजातः सुवर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत् प्रसहनो गुणिनादप्रतिष्ठितः ॥ ९३॥

शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ।
यज्ञरूपो यज्ञमुखो यजमानेष्टदः शुचिः ॥ ९४॥

धृतिमान् मतिमान् दक्षो दक्षयज्ञविघातकः ।
नागहारी भस्मधारी भूतिभूषितविग्रहः ॥ ९५॥

कपाली कुण्डली भर्गः भक्तार्तिभञ्जनो विभुः ।
वृषध्वजो वृषारूढो धर्मवृषविवर्धकः ॥ ९६॥

महाबलः सर्वतीर्थः सर्वलक्षणलक्षितः ।
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ ९७॥

पवित्रस्त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ।
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ॥ ९८॥

पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ।
देवासुरविनिर्माता देवासुरपरायण ॥ ९९॥

देवासुरगुरुर्देवो देवासुरनमस्कृत् ।
गुहप्रियो गणसेव्यः पवित्रः सर्वपावनः ॥ १००॥

ललाटाक्षो विश्वदेवो दमनः श्वेतपिङ्गलः ।
विमुक्तिर्मुक्तितेजस्को भक्तानां परमा गतिः ॥ १०१॥

देवातिदेवो देवर्षिर्देवासुरवरप्रदः ।
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ॥ १०२॥

नाथपूज्यः सिद्धनृत्यो नवनाथसमर्चितः ।
कपर्दी कल्पकृद् रुद्रः सुमना धर्मवत्सलः ॥ १०३॥

वृषाकपिः कल्पकर्ता नियतात्मा निराकुलः ।
नीलकण्ठो धनाध्यक्षो नाथः प्रमथनायकः ॥ १०४॥

अनादिरन्तरहितो भूतिदो भूतिविग्रहः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १०५॥

युगरूपो महारूपो महागीतो महागुणः ।
विसर्गो लिङ्गरूपश्च पवित्रः पापनाशनः ॥ १०६॥

ईड्यो महेश्वरः शम्भुर्देवसिंहो नरर्षभः ।
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ॥ १०७॥

सुयुक्तः शोभनो वज्री देवानां प्रभवोऽव्ययः ।
गुहः कान्तो निजसर्गः पवित्रः सर्वपावनः ॥ १०८॥

श‍ृङ्गी श‍ृङ्गप्रियो बभ्रू राजराजो निरामयः ।
देवासुरगणाध्यक्षो नियमेन्द्रियवर्धनः ॥ १०९॥

त्रिपुरान्तकः श्रीकण्ठस्त्रिनेत्रः पञ्चवक्त्रकः ।
कालहृत् केवलात्मा च ऋग्यजुःसामवेदवान् ॥ ११०॥

ईशानः सर्वभूतामीश्वरः सर्वरक्षसाम् ।
ब्रह्माधिपतिर्ब्रह्मपतिर्ब्रह्मणोऽधिपतिस्तथा ॥ १११॥

ब्रह्मा शिवः सदानन्दी सदानन्तः सदाशिवः ।
मे-अस्तुरूपश्चार्वङ्गो गायत्रीरूपधारणः ॥ ११२॥

अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्यश्च ।
सर्वतः शर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ ११३॥

वामदेवस्तथा ज्येष्ठः श्रेष्ठः कालः करालकः ।
महाकालो भैरवेशो वेशी कलविकरणः ॥ ११४॥

बलविकरणो बालो बलप्रमथनस्तथा ।
सर्वभूतादिदमनो देवदेवो मनोन्मनः ॥ ११५॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ।
भवे भवे नातिभवे भजस्व मां भवोद्भवः ॥ ११६॥

भावनो भवनो भाव्यो बलकारी परं पदम् ।
परः शिवः परो ध्येयः परं ज्ञानं परात्परः ॥११७॥

पारावारः पलाशी च मांसाशी वैष्णवोत्तमः ।
ॐऐंह्रींश्रींह्सौः देवो ॐश्रींहौं भैरवोत्तमः ॥ ११८॥

ॐह्रां नमः शिवायेति मन्त्रो वटुर्वरायुधः ।
ॐह्रीं सदाशिवः ॐह्रीं आपदुद्धारणो मनुः ॥ ११९॥

ॐह्रीं महाकरालास्यः ॐह्रीं बटुकभैरवः ।
भगवांस्त्र्यम्बक ॐह्रीं ॐह्रीं चन्द्रार्धशेखरः ॥ १२०॥

ॐह्रीं सञ्जटिलो धूम्रो ॐह्रीं त्रिपुरघातनः ।
ह्रांह्रींह्रुं हरिवामाङ्ग ॐह्रींह्रूंह्रीं त्रिलोचनः ॥ १२१॥

ॐ वेदरूपो वेदज्ञ ऋग्यजुःसाममूर्तिमान् ।
रुद्रो घोररवोऽघोरो ॐ क्ष्म्यूं अघोरभैरवः ॥ १२२॥

ॐजुंसः पीयुषसक्तोऽमृताध्यक्षोऽमृतालसः ।
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ १२३॥

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।
ॐहौंजुंसः ॐभूर्भुवः स्वः ॐजुंसः मृत्युञ्जयः ॥ १२४॥

इदं नाम्नां सहस्रं तु रहस्यं परमाद्भुतम् ।
सर्वस्वं नाकिनां देवि जन्तूनां भुवि का कथा ॥ १२५॥

तव भक्त्या मयाख्यातं त्रिषु लोकेषु दुर्लभम् ।
गोप्यं सहस्रनामेदं साक्षादमृतरूपकम् ॥ १२६॥

यः पठेत् पाठयेद्वापि श्रावयेच्छृणुयात् तथा ।
मृत्युञ्जयस्य देवस्य फलं तस्य शिवे श‍ृणु ॥ १२७॥

लक्ष्म्या कृष्णो धिया जीवो प्रतापेन दिवाकरः ।
तेजसा वह्निदेवस्तु कवित्वे चैव भार्गवः ॥ १२८॥

शौर्येण हरिसङ्काशो नीत्या द्रुहिणसन्निभः ।
ईश्वरत्वेन देवेशि मत्समः किमतः परम् ॥ १२९॥

यः पठेदर्धरात्रे च साधको धैर्यसंयुतः ।
पठेत् सहस्रनामेदं सिद्धिमाप्नोति साधकः ॥ १३०॥

चतुष्पथे चैकलिङ्गे मरुदेशे वनेऽजने ।
श्मशाने प्रान्तरे दुर्गे पाठात् सिद्धिर्न संशयः ॥ १३१॥

नौकायां चौरसङ्घे च सङ्कटे प्राणसंक्षये ।
यत्र यत्र भये प्राप्ते विषवह्निभयादिषु ॥ १३२॥

पठेत् सहस्रनामाशु मुच्यते नात्र संशयः ।
भौमावस्यां निशीथे च गत्वा प्रेतालयं सुधीः ॥ १३३॥

पठित्वा स भवेद् देवि साक्षादिन्द्रोऽर्चितः सुरैः ।
शनौ दर्शदिने देवि निशायां सरितस्तटे ॥ १३४॥

पठेन्नामसहस्रं वै जपेदष्टोत्तरं शतम् ।
सुदर्शनो भवेदाशु मृत्युञ्जयप्रसादतः ॥ १३५॥

दिगम्बरो मुक्तकेशः साधको दशधा पठेत् ।
इह लोके भवेद्राजा परे मुक्तिर्भविष्यति ॥ १३६॥

इदं रहस्यं परमं भक्त्या तव मयोदितम् ।
मन्त्रगर्भं मनुमयं न चाख्येयं दुरात्मने ॥ १३७॥

नो दद्यात् परशिष्येभ्यः पुत्रेभ्योऽपि विशेषतः ।
रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ॥ १३८॥

षण्मुखस्यापि नो वाच्यं गोपनीयं तथात्मनः ।
दुर्जनाद् रक्षणीयं च पठनीयमहर्निशम् ॥ १३९॥

श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् ।

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये
मृत्युञ्जयसहस्रनामं सम्पूर्णम् ॥