श्रीकालभैरवाष्टोत्तरशतनामावलिः
श्रीकालभैरवाष्टोत्तरशतनामावलिः
ॐ श्रीगणेशाय नमः ।
ॐ ह्रीं क्रीं हूं ह्रीं कालभैरवदेवाय नमः । कालकालाय ।
कालदण्डधृते । कालात्मने । काममन्त्रात्मने ।
काशिकापुरनायकाय । करुणावारिधये । कान्तामिलिताय ।
कालिकातनवे । कालजाय । कुक्कुटारूढाय । कपालिने ।
कालनेमिघ्ने । कालकण्ठाय । कटाक्षाऽनुग्रहीताऽखिलसेवकाय ।
कपालकर्परोत्कृष्टभिक्षापात्रधराय । कवये । कल्पान्तदहनाकाराय ।
कलानिधिकलाधराय । कपालमालिकाभूषाय नमः ॥ २०
ॐ ह्रीं क्रीं हूं ह्रीं कालीकुलवरप्रदाय नमः ।
काली-कलावती-दीक्षा-संस्कारोपासनप्रियाय । कालिकादक्षपार्श्वस्थाय ।
कालीविद्यास्वरूपवते । कालीकूर्चसमायुक्तभुवनाकूटभासुराय ।
कालीध्यानजपासक्तहृदाकारनिवासकाय ।
कालिकावरिवस्त्यादिप्रधानकल्पपादपाय । काल्युग्रावासव
ब्राह्मी प्रमुखाचार्यनायकाय । कङ्कालमालिकाधारिणे ।
कमनीयजटाधराय । कोणरेखाष्टभद्रस्थप्रदेशबिन्दुपीठकाय ।
कदलीकरवीरार्ककञ्जहोमार्चनप्रियाय । कूर्मपीठादि शक्तीशाय ।
कलाकाष्ठाऽधिपालकाय । कठभ्रुवे । कामसञ्चारिणे । कामारये ।
कामरूपवते । कण्ठादिसर्वचक्रस्थाय । क्रियादिकोटिदीपकाय नमः ॥ ४०
ॐ ह्रीं क्रीं हूं ह्रीं कर्णहीनोपवीतापाय नमः । कनकाचलदेहवते ।
कन्धराकारदहरागसभासुर मूर्तिमते । कपालमोचनानन्ताय । कालराजाय ।
क्रियाप्रदाय । करणाधिपतये । कर्मकारकाय । कर्तृनायकाय ।
कण्ठाद्यखिलदेशाहिभूषणाढ्याय । कलात्मकाय । कर्मखण्डाधिपाय ।
किल्बिषमोचिने । कामकोष्टकाय । कलकण्ठारवानन्दिने ।
कर्मश्रद्धावरप्रदाय । गुणभाकीर्णगान्धारसञ्चारिणे । गौमतीस्मिताय ।
किङ्किणीमञ्जुनिर्वाण-कटीसूत्रविराजिताय ।
कल्याणकृत्कलिध्वंसिने नमः ॥ ६०
ॐ ह्रीं क्रीं हूं ह्रीं कर्मसाक्षिणे नमः । कृतज्ञपाय ।
कराळदंष्ट्राय । कन्दर्पदर्पघ्नाय । कामभेदनाय ।
कालागुरुविलिप्ताङ्गाय । कादरार्थाऽभयप्रदाय । कलन्तिकाभरदाय ।
कालीभक्तलोकवरप्रदाय । कमिनीकाञ्चनाभक्तमोचकाय ।
कमलेक्षणाय । कादम्बरीरसास्वादलोलुपाय । काङ्क्षितार्थदाय ।
कबन्धनावाय । कामाख्याकाञ्च्यादिक्षेत्रपालकाय । कैवल्यप्रदमन्दाराय ।
कोटिसूर्यसमप्रभाय । क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनाय ।
काम्यादिकर्मसर्वस्वफलदाय । कर्मपोषकाय नमः ॥ ८०
ॐ ह्रीं क्रीं हूं ह्रीं कार्यकारणनिर्मात्रे नमः ।
कारागृहविमोचकाय । कालपर्यायमूलस्थाय । कार्यसिद्धिप्रदायकाय ।
कालानुरूपकर्माङ्गमोक्षणभ्रान्तिनाशनाय । कालचक्रप्रभेदिने ।
कालिम्मन्ययोगिनीप्रियाय । काहलादिमहावाद्यातालताण्डवलालसाय ।
कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकाय । कालरात्री
महारात्री शिवरात्र्यादि कारकाय । कोलाहलध्वनये । कोपिने ।
कौलमार्गप्रवर्तकाय । कर्मकौशल्यसन्तोषिणे । केलीभाषणलालसाय ।
कृत्स्नप्रवृत्तविश्वाण्डपञ्चकृत्यविदायकाय । कालनाथपराय ।
कालाय । कालधर्मप्रवर्तकाय । कुलाचार्याय नमः ॥ १००
ॐ ह्रीं क्रीं हूं ह्रीं कुलाचाररताय नमः । गुह्वष्टमीप्रियाय ।
कर्मबन्धाखिलच्छेदिने । गोष्टस्थभैरवाग्रण्ये ।
कटोरौजस्यभीष्माज्ञापालकिङ्करसेविताय । कालरुद्राय ।
कालवेलाहोरांशमूर्तिमते । कराय नमः ॥ १०८
इति श्रीकालभैरवाष्टोत्तरशतनामावली सम्पूर्णम् ॥