शिव स्तोत्र

सदाशिवस्तोत्रम् २

सदाशिवस्तोत्रम् २

ॐ नमः परमकल्याण नमस्ते विश्वभावन
नमस्ते पार्वतीनाथ उमाकान्त नमोऽस्तु ते ॥ ४७-२३३॥

विश्वात्मने विचिन्त्याय गुणाय निर्गुणाय च ।
धर्माय ज्ञानमोक्षाय नमस्ते सर्वयोगिने ॥ ४७-२३४॥

नमस्ते कालरूपाय त्रैलोक्यरक्षणाय च ।
गोलोकघातकायैव चण्डेशाय नमोऽस्तु ते ॥ ४७-२३५॥

सद्योजाताय देवाय नमस्ते शूलधारिणे ।
कालान्ताय च कान्ताय चैतन्याय नमो नमः ॥ ४७-२३६॥

कुलात्मकाय कौलाय चन्द्रशेखर ते नमः ।
उमानाथ नमस्तुभ्यं योगीन्द्राय नमो नमः ॥ ४७-२३७॥

सर्वाय सर्वपूज्याय ध्यानस्थाय गुणात्मने ।
पार्वती प्राणनाथाय नमस्ते परमात्मने ॥ ४७-२३८॥

एतत्स्तोत्रं पठित्वा च स्तौति यः परमेश्वरम् ।
याति रुद्रकुलस्थानं मणिपूरं विभिद्यते ॥ ४७-२३९॥

एतत् स्तोत्रप्रपाठेन तुष्टो भवति शङ्करः ।
खेचरत्वं पदं नित्यं ददाति परमेश्वरः ॥ ४७-२४०॥

इति श्रीरुद्रयामले उत्तरतन्त्रे सदाशिवस्तोत्रं सम्पूर्णम् ॥ ४७॥