शिव स्तोत्र

हाकिनीपरनाथस्तोत्रम् (रुद्रयामलान्तर्गतम्)

हाकिनीपरनाथस्तोत्रम् (रुद्रयामलान्तर्गतम्)

अथ त्र्यशीतितमः पटलः
श्रीआनन्दभैरव उवाच
कथयस्व वरारोहे हाकिनीस्तोत्रमुत्तमम् ।
यस्य प्रपाठनाद् वाग्मी कृपायासे दयामयि ॥ ८३-१॥

श्रीआनन्दभैरवी उवाच
अत्यद्भुतं स्तोत्रवरं श‍ृणु प्रभो सर्वेश्वरैर्भावितमादिगुह्यम् ।
यैः पठ्यते साधकचक्रनाथैस्तैरेव सिद्धैरतिधर्मविद्भिः ॥ ८३-२॥

ब्रह्माख्यां कामविद्यां नरहरिजननीं कामकूटस्वरूपाम् ।
हाकिन्याख्यां शम्भुजायां त्रिवधुमदनशां तारिणीं स्तौमि सिद्धाम् ।
हेरम्बानन्दविद्यां त्रिसमनदमनीं दीर्घकेशीं त्रिनेत्राम् ।
मन्दारारण्यमध्ये विकसितवदनाम्भोजहासप्रकाशाम् ॥ ८३-३॥

हिरण्यालङ्कारां त्रितयनयनां पट्टवसनां
महास्निग्धां शुद्धां कुलजनवरामिन्दुवदनाम् ।
सदा स्तौति श्रीदां भुवनकरुणां भावतरुणां
त्रिवेणीश्वेताभां वसमयतनुं भ्रूयुगदले ॥ ८३-४॥

महापद्मवनोद्रेकरम्यस्थाननिवासिनि ।
हाकिनि त्वां मुदा स्तौमि तद्धर्मकुरुपागताम् ॥ ८३-५॥

संसारार्णवतारिणीं नरहरिप्रेमाभिलाषोन्मनीं
भावारम्भविसर्जनैकनिलया मायां महासुन्दरीम् ।
भास्वत्कोटिसुरत्नसिंहवसतिं श्रीहाकिनीं द्राविणीं
स्तौमि क्षेत्रनिरीक्षणाय नियतां श्रीभारतीभाविताम् ॥ ८३-६॥

संस्कारश्रियमातनोति सहसा श्रीपार्वतीवल्लभे ।
नानारत्नकलापदर्शनमहाज्ञानं निदानं धनम् ।
सा साक्षादखिलेश्वरी परशिवानन्दैकबिन्दूज्ज्वला ।
मामादौ परिरक्षतु प्रियकरी संस्तौमि पीठान्तरे ॥ ८३-७॥

आकाशवेदलिङ्गे स्थितिपथिमिलिते भाति सा रक्तबर्हा
सा मां पात्वम्ब काली कुलपथभविका क्रोधनिःक्रोधकर्त्री ।
तस्याः श्रीपादपद्मत्रिभुवनभक्तकेशालिमाला
युक्तं सर्वेन्द्रपूज्यं निरवधिकमले द्वे दले स्तौमि विद्याम् ॥ ८३-८॥

साङ्गं द्वयं त्वत्प्रियं पदयुगं पत्रद्वयश्रेयसं
मञ्जीराद्भुतहारपादकमलं सम्भाव्य संस्तौम्यहम् ।
यद् ध्यात्वा हरिरीश्वरो गुणधरो जेता महारेःक्षणा-
दाशापाशविसर्जनैकनिलयं त्रैलोक्यसंरक्षकः ॥ ८३-९॥

या यात्रा व्रतवासिनी शशिमुखी छागादिमांसप्रिया ।
मामेकं परिपालय त्वमखिले त्वामेकरूपां शिवाम् ।
स्तौमीन्द्रावनतिप्रियां वाङ्मोक्षसहितानन्दैकहेतुप्रदाम् ॥ ८३-१०॥

शिवस्तुतिः
वरं परं नमाम्यहं गिरीन्द्ररूपगर्वहं
महेश्वरं परेश्वरं श्मशानबीजगह्वरम् ।
हिरण्यरत्नभूषणं शतेन्दुतेजसं तथा
शिवं तनुं पुनः परप्रभाप्रभाकरम् ॥ ८३-११॥

शरेण्यं वरेण्यं महाकामधन्यं
महादेवदेवं त्रिकालादिजन्यम् ।
श्मशानोग्रधूलिप्रियाङ्गानुलेपं
सदा स्तौमि संसारसारं निषेकम् ॥ ८३-१२॥

परशिवं मनसा सहसा निशि
प्रतिदिनं प्रणमाम्यहमादिमम् ।
शशिमुखीशतचन्द्रिकयान्वितं
भजनसाधक सत्फलदायकम् ॥ ८३-१३॥

परशिवचरणाब्जं हाकिनीशक्तिसेव्यं
त्रिभुवनसुखदानं ध्यानमात्रप्रकाशम् ।
अतिसुललितहस्ताम्भोजशोभां वहन्तं
भुवि निजकुलसारं स्तौमि योगीन्द्रगम्यम् ॥ ८३-१४॥

शोक्कशोकावलीलामति हि कलयति प्राणदेहाभिलाषं
हाकिन्याः प्राणनाथो भवशमनकरो हीरकास्रग्धरो वा ।
सोऽसौ भ्रूपद्मसारे रचयित कलिकां चित्तदीपस्य नित्यां
तस्य श्रीपादपद्मं गुणगणयजितं पूजितं स्तौमि भाले ॥ ८३-१५॥

मेरुश‍ृङ्गनिकेतनैकवसनं गोलोकसंसेवितं
यज्ञानन्दनिषेवितं परिशवं योगीन्द्रचित्तस्थलम् ।
हालापाननिराकुलं पशुसमां सामोदनाचर्वणां
वन्दे नन्दिमहादिभैरववरैर्वन्द्यं जगत्कारणम् ॥ ८३-१६॥

मायापथच्छलकलाकपिलापतिस्त्वं
त्वं भूरविपतिरूपापतिरेकचक्रः ।
आपोऽनलत्वमखिले गगनप्रकाशा-
वायुस्थमावसिमुखं शरणं प्रपद्ये ॥ ८३-१७॥

वाञ्छाकल्पद्रुमतलगतं हेमसिंहासनस्थं
श्रीहाकिन्या रमणनिरतं कामकेलिप्रकाशम् ।
मायामोहं क्षयमतिसुखं विन्ध्यशैलाग्रसंस्थं
वन्दे नाथं हरपरशिवं रूपजालप्रकाशम् ॥ ८३-१८॥

फलश्रुतिकथनं
पठेद् यः स्तोत्रार्थं भवति स सुखी योगनिपुणः
क्षुधातृष्णानाशः श्रवणधृतयशोवासिसरसः ।
स योगीन्द्रो मासादतिशयपरानन्दघटकः
परीतः प्राणाख्ये रचयति सुधासिन्धुसुरसम् ॥ ८३-१९॥

एतत् स्तोत्रं पठेद्विद्वान् ध्यान न्यास समन्वितम् ।
शुक्लं रक्तं तथा पीतं नीलं कृष्णं विभाव्य च ॥ ८३-२०॥

कालचतुष्टये नित्यं पठित्वा सिद्धिमाप्नुयात् ।
आकाशे भूतले नाथ पाताले विघ्नकोटयः ॥ ८३-२१॥

योगिनां पठनादेव नश्यन्ति तत्क्षणादिह ।
सर्वत्र गामी स भवेदतिभाग्यफलोदयम् ॥ ८३-२२॥

महापापहरं स्तोत्रं हाकिनीहृदयोद्भवम् ।
सदाशिवप्रियं योगसिद्धिदं देवसेवितम् ॥ ८३-२३॥

सहस्रवारपाठेन पुरश्चर्याफलं लभेत् ।
पठित्वा स्तोत्रराजं तु श्मशाने निर्जने वने ॥ ८३-२४॥

अन्तरिक्षेऽथवा नाथ योगी स्यादमरो महान् ।
अस्य प्रपठनाद्वाग्मी ज्ञानवान् विजितेन्द्रियः ॥ ८३-२५॥

ध्यानात्मा सम्भवेत् क्षिप्रं परिवारगणैः सह ।
प्रातःकाले निशायां तु मध्याह्ने शेषकालके ॥ ८३-२६॥

प्रपठेत् स्तोत्रसारं तु भावात्मा साधकोत्तमः ।
अनायासेन भ्रूपद्मे स्थिरो भवति निश्चितम् ॥ ८३-२७॥

श्रीगुरोश्चरणाम्भोजं हृदये ध्याननिर्णयम् ।
यो ध्यात्वा पठ्यते स्तोत्रं स भवेत् कल्पपादपः ॥ ८३-२८॥

इदानीं कथये नाथ कवचं पटलान्तरे ॥ ८३-२९॥

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
भैरवीभैरवसंवादे हाकिनीपरनाथस्तोत्रविन्यासो नाम
त्र्यशीतितमः पटलः ॥ ८३॥