सरस्वती स्तोत्र

शारदास्तुतिः

शारदास्तुतिः


श्रीशारदाम्बायै नमः ।
कल्याणमूर्तिः करुणालवाला कलाधरोत्तंसकिरीटकोटिः ।
कलावती काङ्क्षितकल्पवल्ली करोतु कल्याणपरम्परां नः ॥ १॥

चक्रीकृतोल्लोचशिरःफणीन्द्रफणामणीभासुरतूलिकाढ्ये ।
श्रीमंटपान्तर्मृगराजपीठे विद्योतते नः कुलभागधेयम् ॥ २॥

ज्ञेयं मुनीन्द्रैश्चिरयोगसिद्धैस्सविन्मयं तत्परदेवतायाः ।
लीलागृहितं यदुपासकानां ध्ययोपलब्ध्यै विवृणोमि रूपं ॥ ३॥

श‍ृणोमि वाचं यदि लोचनेन पश्यामि चेत्पादतलेन रूपम् ।
पास्यामि चेदञ्जलिना महाब्धिं कल्पेय देव्या गुणवर्णनाय ॥ ४॥

तथापि वाचंयमसार्वभौमकृपालवालाप्तवचोभिरम्बाम् ।
स्तोष्यामि किञ्चित्प्रतिभातदृष्टश्रुतानुभूतोरुगुणप्रवाहैः ॥ ५॥

रत्नावजीकर्बुरितेन्दुरेखापरिष्कृतानर्घ्यकिरीटकोटिम् ।
लावण्यवापीपुलिनायमा न ललाटखेलच्चिकुरालिचक्राम् ॥ ६॥

उन्निद्रचाम्पेयपरागगन्धि मधुव्रतश्रीमदरालकेशीम् ।
भोगीन्द्रभोगोपमनीलवेणी विषक्तचूडामणिनागपालीम् ॥ ७॥

लावण्यकुल्यायितशोणकान्ति सीमन्तरेखाग्रचलल्ललन्तीम् ।
भ्रूचापसंयोजितमारबाणनिभाक्षिलक्षीकृतधातृवक्त्राम् ॥ ८॥

प्रवर्ष्षकाम्भोधरकीर्यमाणवर्षोपलस्पर्धिकटाक्षवीक्षाम् ।
हीरप्रभाभासुरचम्पकाभनासाग्रविस्फारिमणिप्रवेकाम् ॥ ९॥

विकस्वराम्भोरुहकेसराभरदांशुसन्मिश्रितमुग्धहासाम् ।
रदच्छदापाटलकुन्दकोशमाला प्रतिस्पर्धिशिताग्रदन्ताम् ॥ १०॥

वर्णावलीवादनशोणरत्न कोणायमानाग्रविलोलजिह्वाम् ।
कपोलपालीमणिदर्पणान्तः स्फुरत्प्रभाविम्बितकर्णपूराम् ॥ ११॥

विसृत्वरस्मेरमुखेन्दुबिम्ब ज्योत्स्नासुधापीनजगच्चकोराम् ।
विपञ्चिकाञ्चत्कलनादभङ्गी विभावनामोदविलोलवक्त्राम् ॥ १२॥

वक्राब्जनालप्रतिमान कण्ठमृणाल काण्डायित हरिहाराम् ।
रेखात्रयीसूचित भर्तृभाग्यमाङ्गल्य सूत्राञ्चित कम्बुकञ्ठीम् ॥ १३॥

ओष्ठप्रभालक्तकरूषित श्रीकौशेयकूर्पासपिनद्धवक्षाम् ।
सुवृत्तमुक्तावलि काङ्क्ष्यमाणस्तन्यामृतापीन कुचाब्जकोशाम् ॥ १४॥

चिरागतानेक सुतावलोक स्रुतस्तन क्षीरकणार्द्रहाराम् ।
अभष्टिदान प्रथितामरद्रु शाखायमानां सलबाहुपाशां ॥ १५॥

शाणोपलोल्लीढ मणिप्रवेक केयूरवल्लीवलयाङ्गुलीयाम् ।
प्रपन्नलोकाभयदान मुद्रापुस्ताक्षमालां कुशपाशहस्ताम् ॥ १६॥

वैडूर्यशोणोपलहीर नीलप्रत्युप्त हेमाङ्गदकङ्कणाढ्याम् ।
ताटङ्क शोणोपल बीजपूर बीजभ्रमोत्कण्ठकराग्रकीराम् ॥ १७॥

आपीनवक्षोरुहभार भुग्नवलित्रयीपात पिनद्धमध्याम् ।
सुवर्ण काञ्चीमणिसूत्रनद्धस्पर्शानुमेयाम्बरगूढगछ्छाम् ॥ १८॥

रत्न प्रवेकाञ्चितनूपुराग्र मणिप्रभापिञ्जर पादपद्मां ।
शरत्प्रसन्नेन्दु कलाभिराम नखांशुविद्रावितहार्दतापां ॥ १९॥

प्रतप्तजाम्बूनद कायकान्तिच्छटापि शङ्गीकृतसौधमालां ।
श‍ृत्यन्त सीमान्त विभाग रेखाप्रमाणदण्डायितगात्रयष्टिं ॥ २०॥

शीतांशुतारालि तुषारहीर निभोत्तरासङ्गसमृद्धशोभां ।
सर्वज्ञताध्यापन लब्धवर्णप्रसाददाना दृतपक्ष्यलाक्षि ॥ २१॥

जगत्रयापत्यसपीति मोदपर्यासवक्षोरुह पूर्णकुम्भां ।
लोकत्रयी संवननप्रयुक्त यन्त्रोपमासचेनवक्त्रबिम्बां ॥ २२॥

सांसिद्धिकागन्तुक कान्तिपूरतरङ्गरिङ्गत्तरलागशोभां ।
निजाङ्ग संसर्गविशेषरम्यदुकूल रत्नाभरण प्रसूनाम् ॥ २३॥

पूर्णेन्दु कल्लोलितदुग्ध सिन्धुफेनायमानाम्बवर संवृताङ्गी ।
भेदभ्रमोन्मूलनदक्षतत्व विज्ञानमुद्राञ्चितपाणिपद्माम् ॥ २४॥

मृणालसूत्रीविशदोपवीत मुक्ताक्षमालाकनकालुरम्याम् ।
भ्रूवल्लरीकोमलरुन्दकल्प काश्मीरपङ्कार्द्रतमालपत्राम् ॥ २५॥

सिन्दूरपाली सुषुमानुषङ्ग किम्मीरकालागरुचैत्रकाढ्याम् ।
विरञ्चिनेत्राष्टकपीयमान सौन्दर्यपीयूषमुखेन्दुलक्ष्मीम् ॥ २६॥

ध्यानायन यच्चजगद्गुरूणा क्षेमायनं भक्तिपरायणानाम् ।
रसायनं धातृविलोचनानामेकायनं नश्शरणागतानाम् ॥ २७॥

भक्तावलीमानसराजहंसी श्रीचक्रराजाश्रितदिव्यमूर्तिम् ।
श्रीश‍ृङ्गशैलेन्द्रविहारलोलां श्रीशारदाम्बां सततं स्मरामि ॥ २८॥

श्रीहरीमतीमन्दवखण्डचूडः दयारसल्लिन्नविलोचनान्ताम् ।
चकोरसाहित्यनिदानवक्त्रां स्मरामि भक्तेष्टदकल्पवल्लीं ॥ २९॥

तालीपलाशाञ्चितकर्णजाहा काश्मीररेखोज्ज्वलफालमूला ।
निशाह्वयाचूर्णविमृष्टगण्डा धातुःपुरन्ध्री हृदि सन्निधत्ताम् ॥ ३०॥

प्रतिष्ठितां श्रीगुरुशङ्करार्यैः समर्चिता संयमिसार्वभौमैः ।
तपोभिरेषां सुसमिद्धशक्तिं स्थाने श्रुतिस्त्वां गुरुमूर्तिमाह ॥ ३१॥

नारायणोरस्थलगेहिनीति विरिञ्चिवक्राब्जकुटुम्बिनीति ।
श्रीकण्ठवामाङ्गवशंवदेति यथाभिलाषं समुपासते त्वाम् ॥ ३२॥

श्रुत्वा स्वरासि प्रकृतिः पदेषु वाक्येषु हेतुः प्रमितिः प्रमाणे ।
क्रियाफला तत्प्रतिभूस्त्वमेव सर्वात्मना व्याप्य विभासि विश्वं ॥ ३३॥

कल्या प्रदुग्धे चतुरः पुमर्थान् हिंसा च घोरा मुषती विधत्ते ।
शक्तिद्वयी तेऽम्ब निसर्गसिद्धा नवास्बुदस्येव सुवृष्टिवज्रे ॥ ३४॥

या ते प्रतिष्ठेति कला प्रसिद्धा भूमौ यया व्याप्तमिदं समग्रम् ।
तयैकया विश्वमिदं बिभर्षि विश्वम्भरां त्वां हृदि भावयामि ॥ ३५॥

मातश्चतुष्षष्टिकलाभिरेतच्चराचरं विश्वमनुप्रविश्य ।
त्वमेव तच्चेतयसीह सर्वचैतन्यरूपां शरणं प्रपद्ये ॥ ३६॥

विद्येत्यविद्येति च यत्स्वरूपे मोक्षाय बन्धाय च हेतुभूते ।
लीला तवैवाम्ब नचेत्कुतावो तमःप्रकाशौ सहयोगिनौ स्तः ॥ ३७॥

याश्शक्तयस्सर्गविधौ विधातुरुच्चावचाः कारणतां प्रसन्नाः ।
तासां परासां च समष्टिरूपामम्बामहं भावनयाऽवलम्बे ॥ ३८॥

अव्याकृतं पूर्वमिदं समग्रं तत्तद्विशेषग्रहणाय नाम्ना ।
तद्व्याकरोस्त्वं वचसां सवित्रि तत्त्वां विना चेतयते न किञ्चित् ॥ ३९॥

ऋचा नुवाकेन च सामशस्त्रैर्विधिप्रयोगान् विविधान्विधाय ।
ददासि लोकद्वयसौख्यमेषां तां वाङ्गमयीं शान्तिकलामुपासे ॥ ४०॥

सुधासवर्णां तरुणारुणाभामाराध्य केचिद्वृणुते स्वकामान् ।
जुषन्ति भोगान्विहितान् त्वयैव ते वञ्चितास्त्वन्महिमानभिज्ञाः ॥ ४१॥

संविन्मयीं त्वां समुपासते ये संवित्स्वरूपाः खलु ते भवन्ति ।
श्रद्धामयोयं पुरुषश्रुतश्च कीटोपि पेशस्करतां प्रयाति ॥ ४२॥

सेवालसोहं न च कामकामी सेवार्थिनी त्वं नहि पूर्णकामा ।
नैवावयोस्सेवकसेव्यभावस्तद्भेदहानौ किमुशिष्यते सा ॥ ४३॥

ब्रह्माहमस्मीति निदशर्यन्तु गवेषितं तैरपि तावदेव ।
तस्यापि चैतन्य मुपानयन्ती चिद्रूपिणीं त्वामहमित्यवैमि ॥ ४४॥

दयाम्बुधिं त्वां जननीति मत्वा विधूयगर्वाज्जननीतिमम्ब ।
अत्याचरं धर्मपथं च मूढो मामुद्धरेति प्रलपन्नलज्जे ॥ ४५॥

त्वत्पादपङ्केरुहदासमेनं नैवप्रतीकर्तुमलं सुरा वा ।
इति प्रमत्तः करवाणि पापं यशस्त्वकीयं परिरक्ष मा वा ॥ ४६॥

न प्रार्थितामेव सुरराजलक्ष्मीर्नवाञ्छितं वा भुवनाधिपत्यम् ।
इयन्मया प्रीयितमेव देहि तवाम्ब पादाम्बुरुहस्य दास्यं ॥ ४७॥

बालस्य मूकस्य जडस्य चापि दयाम्बुरारो दयसे त्वमम्ब ।
मामडेमूकं समुपेक्षसे किं विश‍ृङ्खला ते प्रभुता धरित्र्यां ॥ ४८॥

मातुर्दयापात्रमहं भवेयं परुत्परार्यैषम इत्यवेक्ष्य ।
इयन्ति वर्षाण्यतिवाहितानि फले विलम्बः किमभाववादः ॥ ४९॥

अनुग्रहं वा मयि निग्रहं वा यत्कर्तुकामासि कुरुष्व तूर्णं ।
द्वयेपि तस्मिन्विहिते त्वयैकः सूतेत्रिवर्गन्त्वपरोपवर्गः ॥ ५०॥

त्वय्यर्पिते कर्मणि तत्फले च मांमाविकुर्यादिति निव्वृतेपि ।
सा वासना मां नजहाति किं तत् त्वया गृहीतन्नु समुज्झितं नु ॥ ५१॥

उपासनाभिर्दहरात्मविद्याविशेषावज्ञीननिवर्तिताभिः ।
प्रीणासिचेत्त्वं तदबोधयन्त्या त्वयैव मातर्ननु वञ्चितास्स्मः ॥ ५२॥

गुरूपदेशैर्निगमावबोधैस्सतां चरित्रैर्मनसः प्रसादैः ।
निश्चप्रचन्ते करुणामयी त्वं कथं मृषोद्यं तदिति प्रतीमः ॥ ५३॥

नापेक्षसे त्वं विधिवत्सपर्यां न योगसिद्धिं न दृढां च भक्तिम् ।
सकृत्प्रणामाञ्जलिनैव तुष्टा तनोषि कल्याणपरम्परां नः ॥ ५४॥

स्मृतापि तापत्रयदारिणीति कृतापराधेपि दयामयीति ।
मत्वा शरण्यां शरणागतोहमीदृग्गुणान्या क्व च वा वदान्या ॥ ५५॥

शोणाश्मनीकाशतनुप्रकाशां विकोशितश्यामकुशेशयाक्षीं ।
दिशामहेशाश्रितपाददेशां स्मरामि कामेश्वरकोशनाथां ॥ ५६॥

एणीनिभाक्षीं करुणाम्बुराशिद्रोणीकृतापाङ्गझरीं पुराणीं ।
श्रोणीतटालम्बितचारुवेणीं वाणीं भजे मोहलताकृपाणीं ॥ ५७॥

वीटीरसापाटलदन्तवाटी चेटीकृताशेषसुपर्वकोटी ।
पाटीरगौरा त्रिजगन्नटीयमाटीकतां चेतसि वाग्वधूटी ॥ ५८॥

कराग्रसंलालितराजकीरान् प्रालम्बिमुक्ताफलतारहारान् ।
गिरांविदूरान्निगमान्तसारान् समाश्रयामो विधिधर्मदारान् ॥ ५९॥

श्रीशारदेति चतुरास्यकुटुम्बिनीति वाग्वादिनीति वरदेति च नामपङ्क्तौ ।
एकैकमेव निखिलार्थकरं तदन्यदाम्रेडितं हि चरितार्थपदेषु रूढम् ॥ ६०॥

बालार्कपाटलमरीचलसद्दुकूला लीलास्मितद्विगुणमौक्तिकरम्यमालां ।
वेलातिलन्घितदयोर्मिलनेत्रखेलां बालां नमामि कुटिलालकशोभिफालाम् ॥ ६१॥

धात्री समस्तजगतां दुरिताब्धियानपात्री समग्रनिगमान्तगिरां सवित्री ।
दात्री त्रिवर्गविभवस्य दयासुधायाः पात्रीकरोतु हृदि मां सुकृतस्य गोप्त्री ॥ ६२॥

अभ्यर्चितासि विनुतासिनतासि मातरुष्ट्रासिकांसमवलम्ब्यनिरीक्षितासि ।
जानासि मामशरणं फलदासि नूनं काले दयस्व समयाप्तफलं सखाय ॥ ६३॥

निखिलभुवनरक्षा दक्षिणा नेक्षसे मां
व्यवहितनिकटस्था न प्रलापं श‍ृणोषि ।
मयि ननु कुलदासे यद्युपेक्षां कृषीष्टाः
भवतु मम हि चेतस्त्वस्मृतिं नैव जह्यात् ॥ ६४॥

सरसललितसूक्तैः फुल्लमल्लीमतल्ली
विगलितमकरदस्फारमाधुर्यसिक्तैः ।
कृतनुतिरतिवेलं जातचेतःप्रसक्तिः
श‍ृतिविततिसवित्री शारदां संस्मरामि ॥ ६५॥

इति कुक्के. सुब्रह्मण्यशास्त्रीविरचितम् शारदास्तुतिः सम्पूर्णा ।