श्रीशारदाभुजङ्गप्रयातस्तुतिः
श्रीशारदाभुजङ्गप्रयातस्तुतिः
(कालटीक्षेत्रे)
स्मितोद्धूतराकानिशानायकायै
कपोलप्रभानिर्जितादर्शकायै ।
स्वनेत्रावधूताङ्गजातध्वजायै
सरोजोत्थसत्यै नमः शारदायै ॥ १॥
भवाम्भोधिपारं नयन्त्यै स्वभक्ता-
न्विनायासलेशं कृपानौकयैव ।
भवाम्भोजनेत्रादिसंसेवितायै
अजस्रं हि कुर्मो नमः शारदायै ॥ २॥
सुधाकुम्भमुद्राविराजत्करायै
व्यथाशून्यचित्तैः सदा सेवितायै ।
क्रुधाकामलोभादिनिर्वापणायै
विधातृप्रियायै नमः शारदायै ॥ ३॥
नतेष्टप्रदानाय भूमिं गतायै
गतेनाच्छबर्हाभिमानं हरन्त्यै ।
स्मितेनेन्दुदर्पं च तोषं व्रजन्त्यै
सुतेनेव नम्रैर्नमः शारदायै ॥ ४॥
नतालीयदारिद्र्यदुःखापहन्त्र्यै
तथा भीतिभूतादिबाधाहरायै ।
फणीन्द्राभवेण्यै गिरीन्द्रस्तनायै
विधातृप्रियायै नमः शारदायै ॥ ५॥
सुधाकुम्भमुद्राक्षमालाविराज-
त्करायै कराम्भोजसम्मर्दितायै
सुराणां वराणां सदा मानिनीनां
मुदा सर्वदा ते नमः शारदायै ॥ ६॥
समस्तैश्च वेदैः सदा गीतकीर्त्यै
निराशान्तरङ्गाम्बुजातस्थितायै ।
पुरारातिपद्माक्षपद्मोद्भवाद्यै-
र्मुदा पूजितायै नमः शारदायै ॥ ७॥
अविद्याऽऽपदुद्धारबद्धादरायै
तथा बुद्धिसम्पत्प्रदानोत्सुकायै ।
नतेभ्यः कदाचित्स्वपादाम्बुजाते
विधेः पुण्यवत्यै नमः शारदायै ॥ ८॥ var पुण्यतत्यै
पदाम्भोजनम्रान्कृते भीतभीतान्
द्रुतं मृत्युभीतेर्विमुक्तान्विधातुम् ।
सुधापूर्णकुम्भं करे किं विधत्से
द्रुतं पाययित्वा यथातृप्ति वाणि ॥ ९॥
महान्तो हि मह्यं हृदम्भोरुहाणि
प्रमोदात्समर्प्यासते सौख्यभाजः ।
इति ख्यापनायानतानां कृपाब्धे
सरोजान्यसङ्ख्यानि धत्से किमम्ब ॥ १०॥
शरच्चन्द्रनीकाशवस्त्रेण वीता
कनद्भर्मयष्टेरहङ्कारभेत्त्री ।
किरीटं सताटङ्कमत्यन्तरम्यं
वहन्ती हृदब्जे स्फुरत्वम्ब मूर्तिः ॥ ११॥
निगृह्याक्षवर्गं तपो वाणि कर्तुं
न शक्नोमि यस्मादवश्याक्षवर्गः ।
ततो मय्यनाथे दया पारशून्या
विधेया विधातृप्रिये शारदाम्ब ॥ १२॥
कवित्वं पवित्वं द्विषच्छैलभेदे
रवित्वं नतस्वान्तहृद्ध्वान्तभेदे ।
शिवत्वं च तत्त्वप्रबोधे ममाम्ब
त्वदङ्घ्र्यब्जसेवापटुत्वं च देहि ॥ १३॥
विलोक्यापि लोको न तृप्तिं प्रयाति
प्रसन्नं मुखेन्दुं कलङ्कादिशून्यम् ।
यदीयं ध्रुवं प्रत्यहं तां कृपाब्धिं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १४॥
पुरा चन्द्रचूडो धृताचार्यरूपो
गिरौ शृङ्गपूर्वे प्रतिष्ठाप्य चक्रे ।
समाराध्य मोदं ययौ यामपारं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १५॥
भवाम्भोधिपारं नयन्तीं स्वभक्तान्
भवाम्भोजनेत्राजसम्पूज्यमानाम् ।
भवद्भव्यभूताघविध्वंसदक्षां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १६॥
वराक त्वरा का तवेष्टप्रदाने
कथं पुण्यहीनाय तुभ्यं ददानि ।
इति त्वं गिरां देवि मा ब्रूहि यस्मा-
दघारण्यदावानलेति प्रसिद्धा ॥ १७॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीशारदाभुजङ्गप्रयातस्तुतिः सम्पूर्णा ।