सरस्वती स्तोत्र

श्रीसरस्वतीस्तोत्रम्

श्रीसरस्वतीस्तोत्रम्


श्रीगणेशाय नमः ।

श्वेतपद्मासना देवी श्वेतपुष्पोपशोभिता ।
श्वेताम्बरधरा नित्या श्वेतगन्धानुलेपना ॥ १॥

श्वेताक्षी शुक्लवस्त्रा च श्वेतचन्दनचर्चिता ।
वरदा सिद्धगन्धर्वैरृषिभिः स्तूयते सदा ॥ २॥

स्तोत्रेणानेन तां देवीं जगद्धात्रीं सरस्वतीम् ।
ये स्मरन्ति त्रिकालेषु सर्वाविद्यां लभन्ति ते ॥ ३॥ ये स्तुवन्ति

या देवी स्तूयते नित्यं ब्रह्मेन्द्रसुरकिन्नरैः ।
सा ममैवास्तु जिह्वाग्रे पद्महस्ता सरस्वती ॥ ४॥

इति श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ।