अम्बुवीचिकृतं सरस्वतीस्तोत्रम्
अम्बुवीचिकृतं सरस्वतीस्तोत्रम्
सदसद् देवि यत्किञ्चिद् बन्धमोक्षात्मकं पदम् ।
तत्सर्वं गुप्तया व्याप्तं त्वया काष्ठं यथाग्निना ॥ २२॥ १॥
सर्वस्य सिद्धिरूपेण त्वं जनस्य हृदि स्थिता ।
वाचारूपेण जिह्वायां ज्योतीरूपेण चक्षषि ॥ २३॥
भक्तिग्राह्यासि देवेशि त्वमेका भुवनत्रये ।
शरणागतदीनार्त्तपरित्राणपरायणे ॥ २४॥
त्वं कीर्तिस्त्वं धृतिर्मेधा त्वं भक्तिस्त्वं प्रभा स्मृता ।
त्वं निद्रा त्वं क्षुधा कीर्तिः सर्वभूतनिवासिनी ॥ २५॥
तुष्टिः पुष्टिर्वपुःप्रीतिः स्वधा स्वाहा विभावरी ।
रतिः प्रीतिः क्षितिर्गङ्गा सत्यं धर्मो मनस्विनी ॥ २६॥
लज्जा शान्तिः स्मृतिर्दक्षा क्षमा गौरी च रोहिणी ।
सिनीवाली कुहू राका देवमाता दितिस्तथा ॥ २७॥
ब्रह्माणी विनता लक्ष्मीः कद्रूर्दाक्षायणी शिवा ।
गायत्री चाथ सावित्री कृषिर्वृष्टिः श्रुतिः कला ॥ २८॥
बला नाडी तुष्टिकाष्ठा रसना च सरस्वती ।
यत्किश्चित् त्रिषु लोकेषु बहुत्वाद् यत्र कीर्तितम् ॥ २९॥
इङ्गितं नेङ्गितं तच्च तद्रूपं ते सुरेश्वरि ।
गन्धर्वाः किन्नरा देवाः सिद्धविद्याधरोरगाः ॥ ३०॥
यक्षगुह्यकभूताश्च दैत्या ये च विनायकाः ।
त्वत्प्रसादेन ते सर्वे संसिद्धिं परमां गताः ॥ ३१॥
तथान्येऽपि बहुत्वाद् ये न मया परिकीर्तिताः ।
आराधितास्तु कृच्छ्रेण पूनिताश्च सुविस्तरैः ॥ ३२॥
हरन्तु देवताः पापमन्ये त्वं कीर्तितापि च ॥ ३३॥ १२॥
इति स्कान्दे महापुराणे नागरखण्डे अम्बुवीचिकृतं
सरस्वतीस्तोत्रं सम्पूर्णम्