श्रीत्रैलोक्यमोहनवज्रपञ्जररामकवचम्
श्रीत्रैलोक्यमोहनवज्रपञ्जररामकवचम्
अस्य श्रीत्रैलोक्यमोहनवज्रपञ्जरकवचस्य ब्रह्मा ऋषिः,
गायत्री छन्दः, श्रीरामचन्द्रो देवता, रां बीजं, रीं शक्तिः,
रूं कीलकम् । मम समस्तप्रारब्धपरिहारद्वारा
श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।
रामित्यादि षडङ्गन्यासः ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् ।
नीलाम्भोधरकान्तिकान्तमानिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मकुटाङ्गदादिविलसद्रत्नोज्ज्वलाङ्गं भजे ॥ १॥
लमित्यादि पञ्चपूजा ।
ॐ श्रीपार्वत्युवाच-
भगवन् सर्वदेश सर्वदेवनमस्कृत ।
सर्वं मे कथितं देव राममन्त्रं विशेषतः ॥ २॥
त्रैलेक्यमोहनं नाम कवचं पूर्वसूचितम् ।
कथयस्व महाभाग यद्यहं तव वल्लभा ॥ ३॥
श्री ईश्वर उवाच-
शृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् ।
अत्यन्तगोपितं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥ ४॥
कवचस्य ऋषिर्ब्रह्मा गायत्री छन्द ईरितम् ।
देवता रामचन्द्रोऽस्य विनियोगोऽष्टसिद्धिषु ॥ ५॥
ओम् । प्रणवो मे शिरः पातु तारकब्रह्मरूपधृत् ।
अनन्तोऽग्रिसहस्रेन्दुः नासां पातु रघोः पतिः ॥ ६॥
रां रामाय नमस्तुभ्यं षड्वर्णो भुक्तिमुक्तिदः ।
फालं पायान्नेत्रयुग्मं रामो द्व्यक्षरसंज्ञकः ॥ ७॥
रां रामचन्द्राय नमो भ्रूद्वयं पातु मेऽन्वहम् ।
रां रामभद्राय नमश्चुबुकं पातु मे सदा ॥ ८॥
क्लीं मे पायाच्छ्रोत्रयुग्मं कर्णौ मे विश्वमोहनः ।
क्लीं रामाय नमश्चेति मुखं मे परिरक्षतु ॥ ९॥
तारं रामचतुर्थं तु क्रोधास्रवह्निकल्पितम् (?) ।
अष्टर्णोऽयं परो मन्त्रो जिह्वां मे पातु सर्वदा ॥ १०॥
गुणं बीजं तथा मायां हृद्रामाय ततश्चर ।
शिरो मां राममन्त्रोऽयं गण्डयुग्मं सदावतु ॥ ११॥
ॐ हृद्भगवते रामचन्द्रभद्रौ च ज्ञेयता ।
अर्कानुद्विविधौ मन्त्रौ रक्षतां मम कन्धरम् ॥ १२॥
रां रामचन्द्राय स्वाहा षड्वर्णोऽव्याद्भुजद्वयम् ।
श्रीरामाय नमश्चासौ कक्षौ पातु खरान्तकः ॥ १३॥
? ? नृसिंहो लक्ष्मीपाशाङ्कुशस्ततः ।
वर्मास्त्राणि वधू युक्तो रव्यर्णोऽव्यादुरःस्थलम् ॥ १४॥
श्रीरामचन्द्राय ततो रक्षोघ्नाय नमस्त्वयम् ।
हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥ १५॥
रामाज्ञेतु वराहास्त्रं वह्निजायायुतं मनुः ।
वीरस्वरूपरामाभ्यां सप्तार्णा पातु पार्श्वकौ (? ) ॥ १६॥
ॐ श्रीं ह्रीं क्लीं ततो रामं च रामाय नमस्त्वयम् ।
दशाक्षराज्ञो मन्त्रो मे पुरतः पृष्ठतोऽवतु ॥ १७॥
श्रीपूर्वं जय मध्यस्थं तद्विधा राम राम च ।
नमः पञ्चदशर्णोऽयं सदा पातु ममोदरम् ॥ १८॥
हुं जानकीवल्लभाय स्वाहाद्यावतु मध्यमम् ।
श्रीरामचन्द्राय स्वाहा नाभिमष्टाक्षरोऽवतु ॥ १९॥
क्लीं रामचन्द्राय ततः सीतायाः पतये नमः ।
मन्वस्यः सक्थिनी पातु राक्षसेन्द्रविमर्दनः ॥ २०॥
ॐ रामभद्राय नमो गुह्यं मे पातु राघवः ।
श्रीरामभद्राय नमो मम पातूरुयुग्मकम् ॥ २१॥
प्रणवो रामचन्द्राय स्वापात्यष्टाक्षरोऽवतु ।
पादयुग्मं सदा पातु वानरेन्द्राश्रयः प्रभुः ॥ २२॥
रामभद्र महेष्वास रघुवीर नृपोत्तम ।
दशास्यान्तक मां रक्ष देहि नः परमे(मां) श्रियम् ॥ २३॥
द्वात्रिंशदक्षरो यस्स्यात् सर्वाङ्गं पातु मे सदा ।
श्रीं सीतापतये नमः प्राच्यां मां सर्वदावतु ॥ २४॥
हुँ जानकीवल्लभाय स्वाहा याम्यां च सर्वदा ।
क्लीं जानकीवल्लभाय प्रतीच्यां सर्वदावतु ॥ २५॥
श्रीरघुनन्दनाय नमः कौबेर्यां दिशि रक्षतु ।
श्रीं सीतायै ततः स्वाहा रां रामाय नमस्त्वयम् ॥ २६॥
सीतारामाख्यमन्त्रे(न्त्रोऽयं) विदिक्षूर्ध्वमधश्च माम् ।
नमो भगवते ब्रूयाच्चचतुर्थ्यां रघुनन्दनः ॥ २७॥
रक्षो घोरदि ? ? मधुरादि समीरयेत् ।
प्रसन्नवदनायेति पश्चादमितितेजसे ॥ २८॥
बलाय पश्चाद्रामाय विष्णवे तदनन्तरम् ।
प्रणवादिनमोऽन्तोऽयं मालामन्त्र उदीरितः ॥ २९॥
सर्वस्थानेषु कालेषु पातु मां रघुनन्दनः ।
वदेद्दाशरथायेति विद्महेति पदं ततः ॥ ३०॥
सीतापदं समुद्रत्या(समुच्चार्य)वल्लभायपदं ततः ।
धीमहीत्यथ तं नोऽथ रामश्चापि प्रचोदयात् ॥ ३१॥
एषा स्याद्रामगायत्री सर्वावस्थासु पातु माम् ।
इति ते कथितं देवि सर्वमन्त्रौघविग्रहम् ॥ ३२॥
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ।
प्रातः काले पठेद्यस्तु कवचं मुक्तिसाधकम् ॥ ३३॥
कीर्तिश्रीकान्तिमेधायुर्भूतिश्च भवति धुवम् ।
राममन्त्रमथ ब्रह्मकवचं मनुचोदितम् ॥ ३४॥
गुह्यमभ्यर्च्य विधिवत् पुनश्चर्यां समाचरेत् ।
अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् ॥ ३५॥
ततः सुसिद्धं कवचं सर्वकार्याणि साधयेत् ।
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना ततः ॥ ३६॥
लाज आज्यं च । ???
गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रवर्तते ।
वक्त्रे तस्य वसेद्वाणी कलाश्च निश्चला गृहे ॥ ३७॥
पुष्पाञ्जल्यष्टकं दत्त्वा मलेनैव परे सकृत् ।
अपि वर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥ ३८॥
विलिख्य भूर्जपत्रे तु स्वर्णस्थं धारयेद्यदि ।
कर्णे च दक्षिणे बाहौ स कुर्या वतं(दवितं)जगत् ॥ ३९॥
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।
तद्गात्रं प्राप्य शास्त्राणि ब्रह्मास्त्रादीनि यानि च ॥ ४०॥
माल्यानि कुसुमानीव सुखदानि भवन्ति हि ।
सार्धमु ॥॥॥। हवने लक्ष्मीवाणीमुखे वसेत् ॥ ४१॥
य इदं कवचं ज्ञात्वा यो जपेद्राममन्त्रकम् ।
शतलक्षमवाप्नोति सोऽचिरान्मृत्यु(न्मुक्ति)माप्नुयात् ॥ ४२॥
त्रैलोक्यमोहनं जप्त्वा न मन्त्रासिद्धिसाधकः ।
स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ।
तस्मात् सर्वप्रयत्नेन कवचं धारयेद्बुधः ॥ ४३॥
इति ब्रह्माण्डपुराणे पार्वतीश्वरसंवादे त्रैलोक्यमोहनवज्रपञ्जररामकवच
नाम दिव्यमन्त्रकवचं सम्पूर्णम् ॥