श्रीरामधामस्तवः
श्रीरामधामस्तवः
श्रीरामचन्द्रपरब्रह्मणे नमः ।
ॐ शिवाय गुरवे नमः ।
श्रीमत्परमहंसपरिव्राजक श्रीतारकब्रह्मानन्दसरस्वतीविरचितः
श्रीरामधामस्तवः ।
यस्यैकदन्तस्य परात्ममूर्तेः
सङ्कल्पमात्रेण भवन्त्यभीष्टाः ।
तस्मै नमः सोमशिवैकभक्ति-
ध्यानैकनिष्ठाय जगद्धिताय ॥
आलिङ्ग्य सीतामखिलात्मकां स्वां
संविन्मयीं भास्वरवर्णगात्राम् ।
आनन्दयन् लोकगुरुः प्रशान्तः
श्रीरामचन्द्रो जयति प्रभुर्नः ॥ १॥
इन्दुकोटिसदृशाननद्युतिं
बिम्बकान्ति रुचिराधरं गुरुम् ।
अङ्कगामिमिथिलाधिपात्मजं
रामचन्द्रमहमाश्रये परम् ॥ २॥
चन्द्ररश्मिसदृशाननप्रभं
सुन्दरं मदनमोहनं प्रभुम् ।
कण्ठलम्बिवरहार भूषणं
चिन्तयामि रघुनाथविग्रहम् ॥ ३॥
इन्द्रवन्द्यवरपादपङ्कजं
भक्तहृद्गत तमोरविं प्रभुम् ।
सन्ततं शरणमात्मदं परं
चिन्तयामि रघुनन्दनं गुरुम् ॥ ४॥
माहात्म्यं तस्य रामस्य यस्यैवेदं जगद्वशे । var जगद्गुरो
स गुरुः स परं ब्रह्म सोऽहमस्मि सदाशिवः ॥ ५॥
यस्याः प्रसादेन परोऽवबुद्धः
स्वात्माऽपि देवात्मतयाऽनुभूतः ।
तस्यै नमो वेदशिरोऽवगम्य -
ब्रह्मात्मिकायै श्रुतिशास्त्रदेव्यै ॥ ६॥
अङ्के यस्याः शयानस्य मृत्युर्नास्तीति निश्चयः ।
श्रुतिं तां सन्ततं देवीं ध्यायामि परमात्मना ॥ ७॥
यस्य प्रसादेन भवन्ति लोकाः
ऐश्वर्यशास्त्रार्थपरात्मसिद्धाः ।
तस्मै नमो विश्वहिते रताय
विघ्नेश्वरायाखिललोककर्त्रे ॥ ८॥
सिद्धासनं प्राप्य जितेन्द्रिया ये
सत्यात्मबुद्ध्या सकलंं विलाप्य ।
तिष्ठन्ति तत्त्वे सहजप्रबोधे
तान् राघवानन्दगुरून्नमामि ॥ ९॥
जन्मकोटिभिरनुष्ठिताखिल-
ध्यानकर्मपरमेश्वरेक्षणैः ।
कृत्स्नदृश्यगतदोषचिन्तनं
बुद्धिमानथ करोति तत्त्वतः ॥ १०॥
यद्यदल्पमिह किञ्चिदीक्षते
तत्तदेव परिणामि नश्वरम् ।
निश्चिनोति परिमार्गयत्यतो
नित्यवस्तु किमिहेति तत्त्वतः ॥ ११॥
आत्मज्ञानं कारणं वेदवाक्यात्
श्रुत्वा बन्धध्वंससाध्यस्य सिद्ध्यै ।
तच्च ज्ञानं वेदवाक्यैकलभ्यं
मत्वा धीरो देशिकेन्द्रं वरिष्ठम् ॥ १२॥
गत्वा शान्तस्तस्य सेवां प्रयुञ्जं
तिष्ठेत्तस्मै देशिको वाक्यजातम् ।
आदिश्यादौ बोधयेत्तत्त्वमर्थं
श्रुत्या युक्त्या स्वानुभूत्या तथैव ॥ १३॥
(इति शिक्षावल्लीसङ्ग्रहः ॥)
(अथानन्दवल्लीसङ्ग्रहः २ ।)
श्रुतं ब्रह्म सत्यं यदादौ प्रधानं
तदन्ते पुनर्ब्रह्मवाक्ये महेशम् ।
परं श्रूयते सेन्द्रदेवाद्यवेद्यं
समस्तं यतो यच्च सर्वं यदन्तम् ॥ १४॥ (१)
यद् ब्रह्मादौ सूचितं ब्रह्मवाक्ये
यद् व्याख्यातं सत्यभूतं च ऋग्भिः ।
प्रत्यग्भूतं यच्च सर्वस्य जन्तोः
तद् भूमाख्यं रामधाम प्रपद्ये ॥ १५॥ (२)
यद् विज्ञानात्सर्वकामाप्तिरुक्ता
यस्माज्जातं सूक्ष्मभूतं समस्तम् ।
यद् बोधार्थं कल्पिताः पञ्च कोशाः
कोशातीतं रामधाम प्रपद्ये ॥ १६॥ (३)
सत्तास्फूर्ती यत्र विश्रान्तिमेतः
यस्मिन्नेतद् बम्भ्रमीतीह विश्वम् ।
यच्चादृश्यं नीडशून्यं न सङ्गि
दृष्टे यस्मिन् बाध्यते भीतिहेतुः ।
यस्याज्ञानाद्भीतियुक्ताश्च देवाः
तद् भूमाख्यं रामधाम प्रपद्ये ॥ १७॥ (४)
यस्यानन्दस्यांशमग्नाश्च देवाः
यस्यानन्दो भुज्यते वीत तृष्णैः ।
यच्चैतन्यं सर्वभूतान्तरस्थं
यश्चादित्ये गीयते वेदवाक्यैः ।
यत् चैकत्वं ब्रह्मणः साक्षिणोक्तं
तद् भूमाख्यं रामधाम प्रपद्ये ॥ १८॥ (५)
यस्माच्छब्दाः शक्तिशून्या निवृत्ताः
तद् भूमाख्यं रामधाम प्रपद्ये ॥ १९॥ (६)
यत्राम्नायो वर्ततेऽमुख्यवृत्त्या
यच्चाग्राह्यं बुद्धिवृत्त्यात्मभूतम् ।
यं चानन्दं प्राप्य विद्वानभीतः
तद् भूमाख्यं रामधाम प्रपद्ये ॥ २०॥ (७)
यस्मिन् ज्ञाते पुण्यपापे च नस्तो
यस्मिन् दृष्टे विश्वमेतद्धि दृष्टम् ।
ध्येयं यच्च ब्रह्मविद्भिः प्रशान्तैः
तद् भूमाख्यं रामधाम प्रपद्ये ॥ २१॥ (८)
त्योगो यस्मै वर्तते वेदवाक्ये
यद् विज्ञाने साधनं योगमाहुः ।
केचित्साङ्ख्याः साङ्ख्यमेवाद्रियन्ते
तद् भूमाख्यं रामधाम प्रपद्ये ॥ २२॥ (९)
अन्यो माता मेयमन्यद्धि यत्र
पश्यन्नेवेत्येवमुक्तं हि लक्ष्म ।
विश्रम्यास्ते यत्र सत्ये परस्मिन्-
तद् भूमाख्यं रामधाम प्रपद्ये ॥ २३॥ (१०)
यद्विज्ञानात् सत्यवादित्वमेति
यस्मात्सत्याज्जायते चातिवादी ।
यस्मिंल्लब्धे नास्ति कर्तव्य बुद्धिः
तद् भूमाख्यं रामधाम प्रपद्ये ॥ २४॥ (११)
कोशजातमपनीय बुद्धिमान्
ब्रह्मरूपमनवद्यमीक्षते ।
सादरं सकलमानशेषिणा
ब्रह्मपुच्छमिति वाक्यमानतः ॥ २५॥ (१२)
अन्नं बाह्यं नाहमस्मीति सिद्धं
तद्वद्देहो नाहमस्म्यन्नकार्यम् ।
नाहं देही तत्र यच्च प्रसिद्धं
तेषां साक्षी सद्घनोऽहं परात्मा ॥ २६॥ (१३)
नाहं श्रोत्रं त्वक् च चक्षुर्न चाहं
जिह्वा घ्राणं पाणिपादं तथैव ।
पायूपस्थं वाङ्मनः प्राणवर्गो
नाहं तेषां दृश्यतुच्छत्वहेतोः ॥ २७॥ (१४)
नाहङ्कारो नापि वृत्तिस्तदीया
विद्याविद्ये नापि सत्वं रजस्य ।
मूलाऽविद्या नापि माया तथैव
तेषामेषामागमापाय हेतोः ॥ २८॥ (१५)
दृष्टे हेयात्मन्यात्मनैवात्मभूते
सर्वं दृश्यं बाध्यते ब्रह्मरूपे ।
यत्र त्वस्येत्यस्ति चात्र प्रमाणं
सिद्धान्तः; स्यादागमापायितैषाम् ॥ २९॥ (१६)
मायौ यद्वन्मायया विश्वमेतत्
सृष्ट्वा स्वात्मन्यात्मनैवात्ति काले ।
अण्डे पिण्डे तद्वदेवाभिमानी
खेलत्यात्मा संविदेकस्वभावः ॥ ३०॥ (१७)
स्वप्नद्रष्टा यद्वदेवात्मदोषात्
स्वप्ने सर्वं मानमेयादिभिन्नम् ।
पश्यन्नास्ते तद्वदेवात्र साक्षी
तिष्ठत्यात्मा सच्चिदेकस्वभावः ॥ ३१॥ (१८)
दृश्यदूरगतमात्मनाऽच्युतं
भावयन्नखिलमात्मनि स्वके ।
दृश्यवर्गरहितः पुनर्भवे
भूतभाविकृतवर्जितः स्वयम् ॥ ३२॥ (१९)
परमपुरुषरूपे भूम्नि भूते परेशे
परिमितिमिह किञ्चित् भाति यन्नास्ति तत्र ।
इतिमतिरहमस्मि ब्रह्म साक्षाच्चिदात्मा
विगलितमदमानौ राजते सार्वभौमः ॥ ३३॥ (२०)
समरसपरिपूर्णः स्वच्छचैतन्यसिन्धुः
शमदमशरदिन्दुज्योतिरानन्दपूरः ।
जलनिधिशयनश्रीस्तुष्टिगाम्भीर्यशीलः
स्वयमहमिति बुद्धिर्जायते नैव देही ॥ ३४॥ (२१)
यत्र भाति सकलं जगच्चलं
भित्तिचित्रमिव बुद् बुदोपमम् ।
सद्घनं सुखचिदात्मकं परं
भूमरूपमहमस्मि तत्सदा ॥ ३५॥ (२२)
प्रत्यक्तत्त्वतमोमोह तापसन्तापकृद्रविः ।
उदेति स्वे स्वके नित्यं सदानन्दप्रकाशकः ॥ ३६॥ (२३)
स्वात्मगामि तमोजालमापीयायं विधुः सदा ।
कं वर्धयन् विवेकः स्वे काशते कोशदूरतः ॥ ३७॥ (२४)
सम्पूज्य सीतापतिमाविरासीत्
स्वानन्दसाम्राज्यमनामयं तत् ।
सर्वज्ञता शान्तिरसात्मनिष्ठे
त्यागो विरागः परमः पराचि ॥ ३८॥ (२५)
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीरामचन्द्राश्रमपूज्यपादशिष्य
श्रीतारकब्रह्मानन्दसरस्वतीविरचिता तैत्तिरीयोपनिषत्सङ्ग्रहरूपा
श्रीरामधामस्तुतिः सम्पूर्णा ।