राम स्तोत्र

श्रीरामदण्डकम्

श्रीरामदण्डकम्

श्रीरामध्यानम् ।
हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं
भूमौ विष्टभ्य तिष्ठन्नितरकरधृतं भ्रामयन्बाणमेकम् ।
आरक्तोपान्तनेत्रः शरदलितवपुः कोटिसूर्यप्रकाशो
वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥

अथ श्रीरामदण्डकं स्तोत्रम् ।
ॐ श्रीरामपरब्रह्माणे नमः ।
श्रीमदखिलाण्डकोटिब्रह्माण्डभाण्डदण्डोपदण्डकरण्डमलाशान्तोद्दीपित-
सगुणनिर्गुणातीतसच्चिदानन्दपरात्परतारकब्रह्माह्वयदशदिक् प्रकाशं,
सकलचराचराधीशम् ॥ १॥

कमलसम्भवशचीधवप्रमुखनिखिलवृन्दारकवृन्दवन्द्यमानसन्दीप्त-
दिव्यचारणारविन्दं, श्रीमुकुन्दम् ॥ २॥

दुष्टनिग्रहशिष्टपरिपालनोत्कट
कपटनाटकसूत्रचरित्रारञ्जितबहुविधावतारं, श्रीरघुवीरम् ॥ ३॥

कौसल्यादाशरथमनोरथामन्दानन्दकन्दलिताधिरूढक्रीडा-
विलोलनशैशवं श्रीकेशवं ॥ ४॥

विश्वामित्रयज्ञविघ्नकारणोत्कटताटकासुवाहुबाहुबलविदलन-
बाणप्रवीणकोपपरायणं, श्रीमन्नारायणम् ॥ ५॥

निजपादजलजरजः कणस्पर्शनीयशिलारूपशापविमुक्त-
गौतमसतीविनुतमहीधवं, श्रीमाधवम्! ॥ ६॥

खण्डेन्दुधरप्रचण्डकोदण्डखण्डनोद्दण्डदर्द्दण्डकौशिक-
लोचनोत्सवजनकचक्रेश्वरसमर्पितसीताविवाहोत्सवानन्दं,
श्रिगोविन्दम् ॥ ७॥

परशुरामभूजाखर्वगर्वनिर्वापणपदानुगतरणविजयवर्तिष्णुं
श्रीविष्णुम् ॥ ८॥

पितृवाक्यपरिपालनोत्कटजटावल्कलोद्यतसीतालक्ष्मणसहित-
महितराज्याभिमतदृढव्रतसङ्कलितप्रयाणरङ्गगाङ्गावतरणसाधनं,
श्रीमधुसूदनम् ॥ ९॥

भरद्वाजोपचारनिवारितश्रमक्रमनिराघाटचित्रकूटप्रवेशकक्रमं,
श्रीत्रिविक्रमम् ॥ १०॥

जनकवियोगशोकाकुलितभरतशत्रुघ्नलालनानुकूल-
भरतपादुकाप्रदानसुधानिर्मितान्तःकरणदुष्टचेष्टायमान-
क्रूरकाकासुरगर्वोपशमनं, श्रीवामनम् ॥ ११॥

दण्डकागमनविरोधक्रोधविराधानलज्वालाजलधरं श्रीधरम् ॥ १२॥

शरभङ्गसुतीक्ष्णात्रिदर्शनाशीर्वादनिर्व्याजकुम्भसम्भव-
कृपालब्धमहादिव्यास्त्रसमुदायार्जितप्रकाशं, श्रीहृषीकेशम् ॥ १३॥

पञ्चवटीतटीसङ्घटितविशालपर्णशालागतशूर्पणखानासिकाच्छेदन-
मानावबोधनमहाहवारम्भणविजृम्भणरावणनियोगमायामृगसंहार-
कार्यार्थलाभं, श्रीपद्मनाभम् ॥ १४॥

रात्रिञ्चरवरवञ्चनापहृतसीतान्वेषणरतपङ्क्तिकन्थरक्षोभ-
शिथिलीकृतपक्षजटायुर्मोक्षबन्धुक्रियावसाननिर्बन्धनकबन्ध-
वक्त्रोदरशरीरनिरादरं, श्रीमद्दामोदरम् ॥ १५॥

शबर्योपदेशपम्पातटहनुमत्सुग्रीवसम्भाषित बन्धुराद्वन्ददुन्दुभि-
कलेबरोत्पतनसप्तसालच्छेदनबालिविदारणप्रसन्नयुग्रीव-
साम्राज्यसुखमर्षणं, श्रीसङ्कर्षणम् ॥ १६॥

सुग्रीवाङ्गदनीलजाम्बवत्पनसकेसरिप्रमुखनिखिलकपिनायकसेना-
समुदायार्चितसेवं, श्रीवासुदेवं ॥ १७॥

निजदत्तमुद्रिकाजाग्रत्समुग्राञ्जनेयविनयवचनरचनाम्बुधि-
लङ्घितलङ्किणीप्राणोल्लङ्घनजनकजादर्शनाक्षकुमारमारण
लङ्कापुरीदहनतत्प्रतिष्ठित-
सुखप्रसङ्गधृष्टद्युम्नं, श्रीप्रद्युम्नम् ॥ १८॥

अग्रजोदग्रमहोग्रनिग्रहपलायमानापमाननीयनिजशरण्यागण्यपुण्योदय-
विभीषणाभयप्रदानानिरुद्धं, श्रीमदनिरुद्धम् ॥ १९॥

अपारलवणपारावारसमुज्जृम्भितोत्करणगर्वनिर्वापणदीक्षासमर्थ-
सेतुनिर्माणप्रवीणाखिलनरसुरोत्तमं, श्रीपुरुषोत्तमम् ॥ २०॥

निस्तुलप्रहस्तकुम्भकर्णेन्द्रजित्कुम्भनिकुम्भाग्निवर्णातिकायमहोदर-
महापार्श्वादिदनुजतनुखण्डनायमानकोदण्डगुणश्रवणशोषणहतशेष-
राक्षसव्रजं, श्री अधोक्षजम् ॥ २१॥

अकुण्ठितरणोपकण्ठदशकण्ठदनुजकण्ठीरवकण्ठलुण्ठनायमानजयार्हं,
श्रिनारसिंहम् ॥ २२॥

दशग्रीवानुजपट्टभद्रत्वशक्यविभवलङ्कापुरीस्फुरणसकलसाम्राज्य-
सुखोर्जितं, श्रीमदच्युतम् ॥ २३॥

सकलसुरासुराद्भुतप्रज्वलितपावकमुखपूतायमानसीतालक्ष्मणानुगत-
महनीयपुष्पकाधिरोहण नन्दिग्रामस्थितभ्रातृभिर्युतजटावत्कल-
विसर्जनाम्बरभूषणालङ्कृतश्रेयोविवर्धनं, श्रीजनार्द्दनम् ॥ २४॥

अयोध्यानगरपट्टाभिषेकविशेषमहोत्सवनिरन्तरदिगन्तविश्रान्तहारहीर-
कर्पूरपयःपारावारापाराभवाणी कुन्देन्दुमन्दाकिनीचन्दनसुरधेनु-
शरदम्बुदालीशरदम्भोली शतधाराधावल्यशुभकीर्त्तिच्छटान्तर-
पाण्डुरीभूतसभाविभ्राजमाननिखिलभुवनैकसान्द्रयशस्सान्द्रं,
श्री उपेन्द्रम् ॥ २५॥

भक्तजनसंरक्षणदीक्षाकटाक्षसुखोदयसमुत्सारिं, श्रीहरिम् ॥ २६॥

केशवादि चतुर्विंशतिनामगर्भसन्दर्भोचितनिज-
कथाङ्गीकृतमेधावतिष्णं, श्रीकृष्णम् ॥ २७॥

सर्वसुपर्वपार्वतीहृदयकमलतारकब्रह्मनामं, श्रीसम्पूर्णकामम् ॥ २८॥

भवतरणानुयशस्सान्द्रं भवजनितभयोच्छेदविच्छात्रमच्छिद्रं
भक्तजनमनोरथोन्निद्रं, श्रीभद्राचलरामभद्रम् ॥ २९॥

ॐ श्रीरामभद्रायनमः ।

इति श्रीरामदण्डकं समाप्तम् ।