श्रीरामतारावलिः
श्रीरामतारावलिः
तारकं ताटकारातिं तापत्रयनिवारकम् ।
तत्स्वरूपचिदानन्दं रामं वन्दे जगद्गुरुम् ॥ १॥
सर्वशं सर्वदेवेशं सनकादिभिरर्चितम् ।
सनातनतमं देवं रामं वन्दे जगद्गुरुम् ॥ २॥
विश्वरूपं विश्वधरं विश्वव्यापिनमव्ययम् ।
विश्वोत्पत्तिस्थानभूतं रामं वन्दे जगद्गुरुम् ॥ ३॥
तुषाराद्रिसुतावन्द्यं तृणीकृतदशाननम् ।
तुलारहितरूपाढ्यं रामं वन्दे जगद्गुरुम् ॥ ४॥
वरदं वासुदेवाख्यं वाल्मीकिविनुतं हरिम् ।
वंशीरवानुरक्तं च रामं वन्दे जगद्गुरुम् ॥ ५॥
रेवतीरमणं शान्तं राकाचन्द्रनिभाननम् ।
राक्षसान्तकरं रम्यं रामं वन्दे जगद्गुरुम् ॥ ६॥
निर्मलं निगमाकारं नीलजीमूतसन्निभम् ।
नित्यानन्दं निराभासं रामं वन्दे जगद्गुरुम् ॥ ७॥
यज्ञेशं यज्ञभोक्तारं यज्ञपुण्यफलप्रदम् ।
यक्षराक्षसभेत्तारं रामं वन्दे जगद्गुरुम् ॥ ८॥
भर्गधर्मप्रभेत्तारं भक्तानामभयप्रदम् ।
भक्तहृद्गेहवासिनं (संवासं) रामं वन्दे जगद्गुरुम् ॥ ६॥
गोधनं क्रोधरहितं गोपीजनमनोहरम् ।
गोधवार्चितपादाब्जं रामं वन्दे जगद्गुरुम् ॥ १०॥
देवेशं देवतावन्द्यं देवान्तकनिषूदनम् ।
बाधनातीतममलं रामं वन्दे जगद्गुरुम् ॥ ११॥
वराहरूपं वागीशं वामनाकारमच्युतम् ।
स्नेहीकृतहनूमन्तं रामं वन्दे जगद्गुरुम् ॥ १२॥
सर्वज्ञं सर्वदेवेशं सर्वभूतहिते रतम् ।
सर्वयज्ञाधिपं सर्वं रामं वन्दे जगद्गुरुम् ॥ १३॥
भीकृतारातिनिकरं प्रकृतेः परमव्ययम् ।
प्रव्यक्तममलं भव्यं रामं वन्दे जगद्गुरुम् ॥ १४॥
मायातीतं मौनिगम्यं माधवं मत्स्यरूपिणम् ।
मारीचमदहन्तारं रामं वन्दे जगद्गुरुम् ॥ १५॥
हिरण्यवर्णं सीताभिरामावामाङ्कसंस्थितम् ।
शरण्यं सर्वलोकानां रामं वन्दे जगद्गुरुम् ॥ १६॥
धीरं नीरधिगम्भीरं शूरं शत्रुनिबर्हणम् ।
मारकोटिशुभाकारं रामं वन्दे जगद्गुरुम् ॥ १७॥
ईषाशेषमृषाशेषकायिनं बहुमायिनम् ।
पोषिताशेषदीनौघं रामं वन्दे जगद्गुरुम् ॥ १८॥
नतार्तिशममानन्दमव्ययं चित्स्वरूपिणम् ।
अव्यक्तममलं भव्यं रामं वन्दे जगद्गुरुम् ॥ १९॥
प्रव्यक्तममलं शान्तं मध्यमं चित्स्वरूपिणम् ।
अव्यक्तमभिभेत्तारं रामं वन्दे जगद्गुरुम् ॥ २०॥
चोदितं वेदनिकरैर्नादबिन्दुकलात्मकम् ।
आधारं सर्वभूतानां रामं वन्दे जगद्गुरुम् ॥ २१॥
दयासिन्धुं सुमनसां हृदयानन्दचन्दिरम् ।
सदानन्दकरं विष्णुं रामं वन्दे जगद्गुरुम् ॥ २२॥
यो गतिः सर्वभूतानां योगदानादिकर्मिणाम् ।
योगमायाधारभूतं रामं वन्दे जगद्गुरुम् ॥ २३॥
रामतारावलीमेनां प्रत्यहं यः पठेन्नरः ।
स गच्छेद्रामसायुज्यं न पुनर्लभतेऽसुखं (जनिम्) ॥ २४॥
इति श्रीरामतारावलिः सम्पूर्णा ।