श्रीरामनवावरणस्तोत्रम्
श्रीरामनवावरणस्तोत्रम्
ॐ
श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ श्रीरामनवावरणस्तोत्रम् ।
ध्यानम् -
रामो ब्रह्मस्वयंजातो भावनावो भवापहः ।
नामतारकसत्सारो रामो रक्षतु मां सदा ॥
श्रीरामः सत्यवाक्सत्यः श्रीत्यागराजसन्नुतः ।
श्रीददाशरथीपुण्यः श्रीसीतावरनाथसः ॥ १॥
श्रीरामं नादसान्निध्यं नादोपासनसुप्रियम् ।
रागसङ्गीतलोलं च नादात्मकं प्रणौम्यहम् ॥ २॥
रामेण स्थापितो धर्मो रामेण स्फुरितः स्तवः ।
रामेण रक्षितं सर्वं रामेण नन्दिता नुतिः ॥ ३॥
रामाय पूजनं स्तोत्रं रामाय नादपूजनम् ।
रामाय सुस्वरागीतं श्रीरामाय नमो नमः ॥ ४॥
रामात्संजायते सर्वं रामात्सुस्वरसम्भवः ।
रामाल्लभते सुज्ञानं रामाद्भवति सुस्वरः ॥ ५ (१)॥
रामस्य पूजनं श्रेष्ठं रामस्य कीर्तनं वरम् ।
रामस्य नाम सत्पुण्यं रामस्य करुणा स्थिरा ॥ ६॥
रामे सँल्लीयते सर्वं रामे लीनः सुमानसः ।
रामे भक्तिः सुरक्षा च रामे भक्तिः सुमोक्षदा ॥ ७॥
राम त्वमसि मज्जीवो रामाहं शरणागता ।
राम क्षमस्व मे न्यूनं रामप्रभो प्रसीद मे ॥ ८॥
रामः सीतापतिर्विष्णुः रामं कीर्तय सर्वदा ।
रामेण बोधिता गीता रामाय शुभमङ्गलम् ॥ ९॥
रामात्प्रणवनादोत्थं रामस्य सुस्वरं शुभम् ।
रामे भक्तिस्तुतिः पूर्णा राम त्वय्यर्पिता स्तुतिः ॥ १०॥
कामक्रोधमदाज्ञानलोभमात्सर्यमोहहा ।
अहंकाराधिसंपाटो नवावरणपारसः ॥ ११॥
नवावरणसुस्तोत्रं श्रीरामसुकृपोद्भवम् ।
गुरुस्वामिकृपापूर्णं शिष्यापुष्पाभिवन्दनम् ॥ १२॥
मङ्गलं रामभद्राय सीतावराय मङ्गलम् ।
मङ्गलं त्यागराजाय रामभक्ताय मङ्गलम् ॥ १३॥
त्यागराजगुरुस्वामिशिष्यापुष्पासुगीतकम् ।
गुरुप्रेरणसङ्गीतं रामस्तोत्रं सुमङ्गलम् ॥ १४॥
ॐ
श्रीसीतारामपरब्रह्मणे नमो नमः ।
शुभमस्तु
इति सद्गुरुश्रीत्यागराजस्वामिशिष्यया पुष्पया
सुभक्त्या गुर्वनुग्रहेण कृतं श्रीरामनवावरणस्तोत्रं
श्रीरामभक्तगुरुस्वामिसन्निधौ समर्पितम् ।
ॐ