राम स्तोत्र

श्रीरामकर्णामृतम् २

श्रीरामकर्णामृतम् २

दिशतु स कुशलं जिते दशास्ये
विधिविहितस्तुतिवेदितस्वरूपः ।
उपदिशति शिवो नृणां यदीयं
मनुमविमुक्तपुरे विमुक्तिहेतोः ॥ १॥

विहितविधिमपास्यता निषिद्धा-
न्यपि चरताप्यकृताक्षनिग्रहेण ।
यदघमुपचितं मया यतिष्ये
रघुवरसंस्मरणेन तन्निमार्ष्टुम् ॥ २॥

चिरपरिचितया मनो विकृष्टं
दिशि दिशि वासनया न मे नियाम्यम् ।
इति कवनपथे तवार्य राम
स्मरणविधावनघे करोम्युपायान् ॥ ३॥

प्रकृतिरिति सरस्वतीति लक्ष्मी-
रिति गिरिजेति जगत्त्रयीति वा याम् ।
गदति मुनिगणः कवित्वसिद्ध्यै
कथमपि तां कलये विदेहकन्याम् ॥ ४॥

मधुरभणितये पतिव्रतानां
मकुटमणिं कलये महीकुमारीम् ।
पतिकृतरिपुपातनप्रतिज्ञा-
दलनभयादहितेऽप्यदत्तशापाम् ॥ ५॥

हृदय विषयमेव सेवसे किं
यदयमुदग्रविषोपमः क्रमेण ।
मदयति च निहन्ति च प्रकामं
तदयनमेत्य गिरा भजस्व रामम् ॥ ६॥

रघुवरचरणारविन्दभक्ति-
च्छलमकरन्दनिरन्तराभिषिक्ताः ।
वकुलपरिमला गिरो मदीयाः
कविकुलकर्णरसायनानि सन्तु ॥ ७॥

भरतविदितपादुकाप्रभावं
धरतनुजारमणीयनामधेयम् ।
करतलधृतकार्मुकं पुमांसं
मरतकनीलशरीरमाश्रयामः ॥ ८॥

निटिलनयननिर्वृतिप्रदाख्यं
कुटिलनिशाचरकुम्भिनां मृगेन्द्रम् ।
कटिलसदसिमम्बुदाभमेकं
जटिलमुरीकृतचापबाणमीडे ॥ ९॥

निलयमखिलमङ्गलस्य रक्षो-
बलयवसप्रबलानिलायितास्त्रम् ।
कलयति हृदयं विदेहकन्या
वलयपदाङ्कितकन्धरं पुमांसम् ॥ १०॥

विमोहयति विष्टपत्रयजनान् गुणारोपण-
क्षणत्रुटितचण्डिकारमणचापचण्डध्वनिं (ध्वनौ) ।
जयत्यसकृदुन्मिषत्पुलकयोरपेतत्रपं
परपस्परनिरीक्षणं रघुवरक्षमाकन्ययोः ॥ ११॥

करोमि हृदयाम्बुजे कमपि वीरमम्भोनिधे-
र्निबन्धनमपीन्धन ? ? बन्धुतूणीशयम् ।
न कश्चिदपि दृश्यते जगति यस्य शक्तो जये
स्मरप्रहितजानकीनयनपद्मवाणं विना ॥ १२॥

क एष दलदुत्पलद्युतिरुदारवेषोज्ज्वलः
स्वयं विशति मे मनस्त्वरितमाः परिज्ञायते ।
स एष ननु जानकीकुचतटीपटीरद्रव-
प्रसक्तरसवासनाघुमुघुमायमानः प्रभुः ॥ १३॥

भजे शरधनुर्धरं विकटचित्रकूटाटवी-
चरं कमपि शङ्करप्रणयिनीप्रियाख्यं प्रभुम् ।
स्फुटं कलितकुङ्कुमा वदति यस्य वक्षस्तटी
मृगेन्द्ररसितत्रसज्जनकजाहठालिङ्गनम् ॥ १४॥

चिराय विधुरस्य मे विषयघर्मघोरातपैः
पयोदनिचयोदयप्रतिनिधिः किलेयं दशा ।
नराघमुषि राघवे यदधुना मनः प्रीयते
समस्तसुरमस्तकप्रणतिकर्मणि ब्रह्मणि ॥ १५॥

कटीघटितवल्कलं घनलसज्जटामण्डलं
करात्तशरकार्मुकं कमलपत्रमित्रेक्षणम् ।
तमालदलमेचकं धरणिकन्यकाकामुकं
तरङ्गितकृपारसं तरणिवंशदीपं भजे ॥ १६॥

अचोदितकुलक्रमं पुनरपृष्टजातिक्रियं
नयानयविचारणाविधुरमस्तशङ्काकणम् ।
उपेयुषि विभीषणे झटिति दत्तमस्याभयं
मयेति समुदीरिता भगवतो गिरः पातु नः ॥ १७॥

कल्हाराम्बुजगन्धिमन्दपवने खेलन्मृगालङ्कृते
कूजत्कोकिलबालचूतगहने कूले सरय्वाः शुभे ।
पश्यान्वेति शुकं शुकीति चिबुके गृह्णन् करेण प्रियां
चित्ते भाति हि कोऽपि मे दशशिरोमत्तेभकण्ठीरवः ॥ १८॥

कूजत्केकिनि चित्रकूटकटके गोदावरीमेदुरे
प्रत्यग्रप्रसवस्य केसरतरोः प्रच्छायशीते तले ।
कौशेयास्तरणे विदेहदुहितुः कुर्वाणमङ्के शिरो
नीलाम्भोदनिभं भजे रघुकुलप्राचीनभाग्यं प्रभुम् ॥ १९॥

त्रस्तप्रस्थितहंसयूथमभितो नृत्यन्मयूरव्रजं
वल्मीकान्तरसंप्रविष्टभुजगं पङ्क्तीभवच्चातकम् ।
पुष्प्यन्नीपसिलीन्ध्रकेतकजनस्थानाटवीमेयुषा
कालिम्ना मम केनचित् कवचितं चेतो विराधद्विषः ॥ २०॥

संरम्भस्खलितोत्तरीयमवनिन्यस्ताग्रपादाम्बुजा-
वुद्यम्य श्लथनीवि पुष्पनिचयं सङ्गृह्णतीं जानकीम् ।
पश्यन् पञ्चवटीवने मुहुरपि प्रच्छन्न एवान्तिके
हस्तोपात्तधनुश्शरः स्फुरति मे चित्ते रघुग्रामणीः ॥ २१॥

निर्वृत्ते खरदूषणत्रिशिरसामुन्मा(मू)लनादाहवे
वैदेही परिषस्वजे सपदि यं मूर्ता जयश्रीरिव ।
उन्मीलत्पुलकश्रमाम्भसि धनुर्न्यस्तैकहस्ताम्बुजे
तस्मिन् सस्मितवक्त्रचन्द्रमसि मे देवे मनो धावति ॥ २२॥

पायात् पर्णकुटीगतो घनघटासिक्तावनीसौरभ-
घ्राणव्यापृतपुष्करद्विपकुले नीपप्रसूनाकुले ।
केकाकण्ठशिखण्डिताण्डवपदे खेलत्पुरोमारुते
नन्दन् प्रावृषि चित्रकूटकटके सीतासखो राघवः ॥ २३॥

अर्धावर्तितमन्त्रमर्धविरतस्वाध्यायमर्धोज्झित-
ब्रह्मोपासनमर्धमुक्तहवनातिथ्यादिसर्वक्रियम् ।
दृष्ट्वा पञ्चवटीजुषो यमृषयः सार्थं तपो मेनिरे
कन्दर्पादपि सुन्दरं व्रजति मे काकुत्स्थमेनं मनः ॥ २४॥

चारुस्मेरमुखाम्बुजं चरणयोर्मञ्जुक्वणन्नूपुरं
चञ्चद्रत्नललन्तिकालिकलसत्कस्तूरिकाचित्रकम् ।
कान्तव्याघ्रनखानुबन्धिकनकग्रैवेयकालङ्कृतं
कौसल्याङ्कविभूषणं कुवलयश्यामं भजामः शिशुम् ॥ २५॥

दत्त्वा पार्श्वजुषो विदेहदुहितुश्चापं कराम्भोरुहे
गुल्फद्वन्द्वनिवेशितस्फिगवनौ कुर्वन् समौ जानुनी ।
दृष्ट्या कूणितया कराम्बुजयुगव्यासक्तमूलाञ्चलं
पश्यन् बाणमृजुं न वेति हृदि मे वीरोऽयमारोहति ॥ २६॥

उन्मीलन्नवमञ्जरीपरिमलोदञ्चद्द्विरेफारवै-
रारण्ये तुलसीवने मुखरितेऽदृश्यं शुकश्यामले ।
शश्वल्लीनमधीरदृग्वलयया शश्वद्गृहीतं बला-
ज्जानक्या सह चित्रकूटकटके देवं मनो ध्यायति ॥ २७॥

सीतादत्तकराम्बुजं पदयुगश्लिष्यन्मणीपादुकं
हर्षावेक्षिविहारबर्ह्यपसृताभ्यर्णं घटोध्न्या गवा ।
स्वामिन् देव जयेति पञ्जरशुकस्वानोल्लसत्तोरणं
साकेताधिपतेरुषस्यवतु नः शय्यागृहान्निर्गमः ॥ २८॥

पाणौ मुष्टिगृहीतपन्नगलतापर्णोच्चये बिभ्रतीं
वामे रत्नकरण्डकं तदपरे वीटीं विदेहात्मजाम् ।
पश्यन् कूजति पार्श्वतः कलरवे दृष्ट्या तिरश्चीनया
मन्दस्मेरमुखीं हृदि स्फुरति मे मञ्चाधिरूढः प्रभुः ॥ २९॥

शैलान्मत्तोऽवतरति करिर्ज्यास्वनैर्वारय त्वं
सौमित्रे मा भवतु चकिता जानकीति प्रहिण्वन् ।
तज्ज्याघोषं मृगपतिरवं व्याहरन् वेपिताङ्ग्या
गाढाश्लिष्टो जनकसुतया कौसलेयोऽवतान्नः ॥ ३०॥

हंसी मन्दं चरति हरिणी वीक्षते लोललोलं
रस्यं कूजत्ययमिह पिको राजते बर्हिणोऽसौ ।
इत्याश्चर्याद्वनभुवि वधूं दर्शयन्तीं यदि त्वां
पश्याम्येतैरलमिति वदन् पातु नः कौसलेयः ॥ ३१॥

देव त्वां रघुवीर नीरदनिभं सीतातटित्सङ्गतं
कारुण्यामृतवर्षिणं कतिपये दृष्ट्वा मयूरा इव ।
किं नृत्यन्ति न चातका इव परे किं वा न माद्यन्त्यतः
स्वामिन् पालय पालयेत्यहमपि क्रोशामि मण्डूकवत् ॥ ३२॥

खेलत्केकिनि सञ्चरन् मृगशिशौ चूतस्फुरद्वल्कले
नीपन्यस्तनिषङ्गधन्वनि जनस्थानोटजप्राङ्गणे ।
सीतां पुष्पसमित्कुशं हृतवतीं सम्भावयन्तं दृशा
बद्धस्वस्तिकमेणचर्मणि घनच्छायं भजेयं प्रभुम् ॥ ३३॥

संप्राप्तो मृगयां विधाय नलिनीपत्राहृतैरम्बुभिः
संक्षाल्यांशुकपल्लवेन कुचयोः पादाब्जमुन्मार्जतीम् ।
मृष्टा नेह मनश्शिलेति विसृतां रत्नाङ्गुलीयश्रियं
वैदेहीं प्रति दर्शयन् हृदि कृतव्याजो विभुः पातु नः ॥ ३४॥

श्लथकचभरान्नैतद्भूमौ निपातय सुन्दरी-
त्युदितहसितं सव्रीडाया महीदुहितुर्दिशन् ।
वनतरुतले मल्लीपुष्पैः कृतं नवगर्भकं१
दिनकरकुलोत्तंसो देवोऽधिरोहति मे मनः ॥ ३५॥

Footnote
१. गर्भकः = शिरोवृतपुष्पगुञ्जा

दलितदनुजाटोपे चापाधिरोपितसायके
मरतकमणिच्छायादायाददायिमहोभरे ।
प्रणतजनताप्राणत्राणप्रवीणपराक्रमे
स्फुरति पुरतोऽस्माकं सीतापतौ दुरितं कुतः ॥ ३६॥

अविदितनतक्लेशानीशानपास्य दिशामहो
सह परिहरत् कालीकेलीसखं मुरलीभृता ।
वनमृगपरीवारे वीरे वरेण्यधनुर्धरे
कुवलयदलश्यामे रामे कुतूहलि मे मनः ॥ ३७॥

स्फटिकधवलान्मेघश्यामे गृहीतमृगानलात्
धृतधनुरिषौ भूतेशानात् प्लवङ्गमसेविते ।
मतिरवतरत्यात्तव्याघ्राजिनाद्धृतवल्कले
शिखरितनयानाथात् पृथ्वीसुतापरिणेतरि ॥ ३८॥

स्वच्छन्दं व्रजसुन्दरीजनविटाद्बद्धैकदारव्रते
लीलावेणुलसत्करात् त्रिभुवनत्राणाय चापस्पृशि ।
चोराकृष्टवधूजनात् परिणतो कीटादिमुक्तिप्रदे
व्यावृत्तं मम यादवाद्रघुपतौ चेतः स्वयं धावति ॥ ३१॥

कश्चिद्बालो मृत्तिकां भक्षयित्वा
कश्चिद्वृद्धश्चूतमूले लुठित्वा ।
मां रक्षेच्चेन्मास्तु तद्यन्ममास्ते
त्राता सीताकलिलोलो युवैकः ॥ ४०॥

अभिमतफलसिद्ध्यै ध्यातुमेकं सुराणां
अनुसरति मनो मे यावदाबद्धमेकम् ।
अपहरति निरुन्धन्नन्तरा तावदेतत्
कपिकुलपरिवारः कश्चिदम्भोदनीलः ॥ ४१॥

क्षणचलितनिरूढस्वर्णदीकर्णभूषे
परिहृतमयकन्यापत्रलेखप्रसङ्गे ।
विरचितसुरसुभ्रूविभ्रमप्रातिभाव्ये
कुतुकितमतिभव्ये क्वापि कालिम्रि चेतः ॥ ४२॥

कचभरनिटिलभ्रूकर्णदृङ्नासिकोष्ठ-
स्तनजघननितम्बं पश्यदन्याङ्गनानाम् ।
मलिनयति मनश्चेन्मन्मथस्तावता किं
विमलयितुमहल्यापावनोऽप्यस्ति वीरः ॥ ४३॥

नवकुवलयदामश्यामलः कोमलाङ्ग्या
विरचितमधुरश्रीरेकया विद्युतेव ।
जलधर इव काले जृम्भमाणो मयूरं
कुतुकयति मनो मे कोऽपि कोदण्डभूषः ॥ ४४॥

मनसि मम समिन्धे पुण्यभाजामवेक्ष्यः
कपिसदसि मुनीनां चेतसास्वादनीयः ।
जनकनृपतिकन्यासस्पृहालिङ्गनार्हः
श्रुतियुवतिकबर्याः कोऽपि सौरभ्यसारः ॥ ४५॥

कुवलयदलनीलः कोऽपि रक्षोवधूनां
कुचगिरिषु निपातं वाष्पवृष्टेर्विधाता ।
निखिलभुवनचेतोबर्हिनृत्तैकहेतुः
शमयति मम तापं शार्ङ्गवानम्बुवाहः ॥ ४६॥

निगमशिखरिश‍ृङ्गान्नित्यमागत्य खेल-
न्मुनिजनहृदरण्ये मोहसारङ्गमुक्ते ।
दशवदनगजेन्द्रे दर्शिताघातलीलो
वशयति रघुसिंहो मानसं नः प्रसन्नः ॥ ४७॥

करयोः शरकार्मुकाभिरामं
पदयोरश्मविवेककृप्तरागम् ।
कलितेषुधिमंसयोः प्रभुं तं
करुणापूर्णमपाङ्गयोरुपासे ॥ ४८॥

अवलम्ब्य शरासमद्रिसारं
गुणमाकृष्य धनध्वनिं विमुञ्चन् ।
विशिखानहितेषु रुक्मपुङ्खान्
विहरत्याहवसीम्नि वीररामः ॥ ४९॥

चरमाङ्गनिबद्धचारुतूणं
सुरमाङ्गल्यधुरीणचापबाणम् ।
अलिनीलमुपैति मानसं मे
नलिनीनायकवंशभागधेयम् ॥ ५०॥

दृशि कारुणिकः करे धनुष्मान्
कुशिकापत्यमखस्य रक्षिता यः ।
रजनीचरतूलचण्डवातो
भजनीयो मम सोऽयमेक एव ॥ ५१॥

नवनीरदनीलमात्तचापं
भवनीहाररविं श‍ृणोति लोकः ।
अवनीतनयासखं जगत्या
स्तवनीयं मम दैवमेकमेव ॥ ५२॥

भरिता दयया दृशोः सुराणां
परितापक्षतये गृहीतचापा ।
दुरितानि धुनोतु कापि लीला-
च्छुरिता भूमिसुताकुचाङ्गरागैः ॥ ५३॥

सुरचारणसिद्धबद्धसेवः
शरचापाभरणो नवाम्बुदश्रीः ।
अहिमांशुकुलार्णवेन्दुरेको
महिमान्तःकरणे ममाविरस्तु ॥ ५४॥

धनुषा सह सायकं दधाने
जनुषा भूषितचण्डरश्मिवंशे ।
कुचनम्रमहीसुतानुरक्ते
क्वचन न्यस्तमिदं महिम्नि चेतः ॥ ५५॥

भयकम्पितसागरप्रशस्ते
मयकन्यातनुमण्डनासहिष्णौ ।
नवगारुडरत्नभासुरे स्या-
दवगाढं हृदयं क्वचित् प्रभौ मे ॥ ५६॥

निजनामरसज्ञनीलकण्ठं
भजनाय प्लवगावृतोपकण्ठम् ।
बलयन्त्रितसिन्धुमन्तरेकं
कलयन्नन्यमुपासितुं यते कम् ॥ ५७॥

विकटभ्रुकुटीन् विलोकतेऽरीन्
विशिखान् मुञ्चति विग्रहान् बिभर्ति ।
अनुलिम्पति शोणितैर्धरित्रीं
रणरङ्गे रघुपुङ्गवः समिन्धे (? ) ॥ ५८॥

स्मयमानमुखेन्दुरिन्द्रनील-
द्युतिरम्भोजदलेक्षणो धनुष्मान् ।
तरलीकृतजानकीदृगन्त-
स्तरुणः कश्चन मे मनो धिनोति(धुनोति) ॥ ५९॥

दलदुत्पलदामकोमलाङ्गी
दशकण्ठायुरपायकालभङ्गी ।
मनसे मम रोचतेऽभिरूपा
करुणा काचिदुपात्तबाणचापा ॥ ६०॥

मौलौ निधेहि मकुटं त्यज बर्हिगर्हं
बाणं गृहाण धनुषा सह मुञ्च वेणुम् ।
शाखामृगैर्विहर सन्त्यज गोपबालान्
रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६१॥

कृष्णैकसूतरथकेतनभूतदूत
आनूरुसारथिरथात्मजमित्रभूतः ।
पाणीश ? ? रथस्य शरासभूतः
कश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६२॥

दृप्यद्दशाननकलत्रकठोरगर्भ-
विभ्रंशविभ्रमपरिस्फुटसाहसेन ।
घण्टा विलुण्ठयतु नः कलुषं रवेण
कोदण्डकोटिघटिता कुलदेवतायाः ॥ ६३॥

देवद्विषां विजयदेहभृतां शरण्यं
कारुण्यभूषितकटाक्षमुदग्रचापम् ।
टङ्कत्रुटन्मरतकोपलरत्ननील-
धाम स्मरामि धरणीतनयासहायम् ॥ ६४॥

आस्ते कृतान्त इति पापिषु दण्डधारी-
त्याकर्ण्यते मुहुरवाप्तपरम्पराभ्यः ।
रक्षिष्यतीति रघुनन्दनमेव साक्षा-
द्विश्वस्य केवलमहं न विचिक्रियामि ॥ ६५॥

तिष्ठन्तु दारुणतरा निरयाः सहस्रं
तिष्ठन्तु घोरचरिता यमकिङ्करा वा ।
पापात्मनोऽपि नियतं परिपालनाय
कोदण्डपाणिरिति कोऽपि ममास्ति नाथः ॥ ६६॥

लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणा
वैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः ।
दृष्टा वत्सलया दृशा रघुपतेः पुत्रा इव प्रत्यहं
प्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६७॥

सौवर्णीमवसक्थिकामधिवसन् पार्श्वस्थपृथ्वीसुता
हस्ताम्भोजयुगक्रमप्रसृतया जातिस्रजा दीर्घया ।
पाणिभ्यामपि वेष्टयन् कचभरं मौल्येकपार्श्वो चितं
देवो मे हृदि भाति दत्तनयनो दृश्ये तदेकस्तने ॥ ६८॥

स्वप्नदृष्टं श्लोकान्तरं--
चापसंहितशरं चरमाङ्गे
बद्धतूणमुपनीविकृपाणम् ।
वञ्चनामृगवधाय वनान्ते
सञ्चरन्तमिममन्तरुपासे ॥ ६९॥

कोणपाधिपकदर्यितामरी-
काङ्क्षितप्रणयिबाणकार्मुकम् ।
कञ्चन श्रुतिकरण्डमौक्तिकं
कालिमानमवलोकयामहे ॥ ७०॥

जानकीस्तनतटैकपालिका-
जातकुङ्कुमविभागपिञ्जरः ।
दृश्यते हृदि दयाधुरन्धरः
कोऽपि कोसलकुलीनकुञ्जरः ॥ ७१॥

मामके हृदि महीकुमारिका
कामकेलिकुतुकी नृपात्मजः ।
? ? पदमस्त्रबन्धुरो
नूतनोदयपयोदसुन्दरः ॥ ७२॥

चन्द्रशेखरशरासनच्छिदा
चातुरीचणकरारविन्दया ।
स्वीकृतं मम सुरानुकूलया
? ? भ्रनीलया ॥ ७३॥

कौणपालिकदलीविषाणिना
बाणचापपरिकर्मपाणिना ।
चण्डिकारमणचापखण्डने
पण्डितेन मम मण्डितं मनः ॥ ७४॥

तुन्नकीर्णकुटिलक्षपाचरे
कृत्रिमेतरगिरामगोचरे ।
धावते हि कुलदेवतेति मे
चित्तमेवमिदमुत्तमे नृणाम् ॥ ७५॥

कालिकानिभरुचिः कनीयसा
कान्तया च सह कल्पितासिका ।
कार्मुकाशुगलसत्कराम्बुजा
काचिदस्ति करुणा गतिर्मम ॥ ७६॥

मामके मनसि धान्यमालिनी-
भूषणासहभुजोष्मशालिनी ।
सा चकास्ति शरचापधारिणी
भालुमालिकुलभाग्यधारिणी ॥ ७७॥

याति तेजसि मनः सनातने
दूतभूषितकिरीटिकेतने ।
यामिनीचरचमूभयङ्करे
जानकीनयनकेलिकिङ्करे ॥ ७८॥

चक्रमानुकृतगन्धसिन्धुरा
सिन्धुराजकृतसेतुबन्धना ।
वासनाधृतशरासनाशुगा
मेचका मनसि मे चकास्ति सा ॥ ७९॥

वानरक्षपितराक्षसव्रजं
दीनरक्षणविचक्षणं प्रभुम् ।
श्रीमदग्र्यशरचापमेति मे
जामदग्न्यमदनिग्रहं मनः ॥ ८०॥

कण्ठेकालशरासखण्डनचणं कल्याणनानागुणं
कारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् ।
पाणिद्वन्द्वगृहीतबाणधनुषं पाथोदनीलत्विषं
पौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८१॥

कुवलयदलनीलश्रीभृतां भूकुमारी-
कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् ।
दशमुखभुजतेजोदर्पतूलानिलानां
दशरथसुकृतानां दासभावं भजामः ॥ ८२॥

करधृतशरचापः कान्तिमत्पङ्कजाक्षो
निहितशरधिरंसे नीरदस्निग्धनीलः ।
वनमृगपरिवारो वन्दनीयो मुनीनां
मदयति हृदयं मे मैथिलीप्राणनाथः ॥ ८३॥

मघवदुपलनीले मण्डलीकृत्य चापं
मुहुरभिदशकण्ठं मुञ्चतीषुप्रपञ्चम् ।
रणधरणिरजोभिर्धूसरे वासरेश-
प्रभवकुलभवानामुत्तमे चित्तमेति ॥ ८४॥

शुभगुणकलकण्ठस्तोममाकन्दशाखा-
नियमिनिवहचेतोनीलकण्ठाभ्ररेखा ।
दशवदनवधूटीचक्रवाकीत्रियामा
जनयति कुतुकं मे जानकीप्रेमसीमा ॥ ८५॥

तारुण्यदर्पतरलीकृतगोपकन्या
दृष्टिप्रियं तव यदस्ति वपुस्तदास्ताम् ।
काकुत्स्थवीर कमलानयनाभिरामं
गात्रं त्विदं तव करोति मुदं मदन्तः ॥ ८६॥

कल्याणमावहतु दाशरथेः कटाक्षः
शाखामृगे शतमखादपि सानुकम्पः ।
आभाति भूमितनयाधरबिम्बलोभ-
सम्पातसङ्क्रमितलाक्ष इवारुणो यः ॥ ८७॥

(रामं सुन्दरतया महालक्ष्मीश्चकमे इति पुराणे कथानुसन्धेया।)
स कश्चन गिरीन्द्रजासखशरासनव्रश्चको
मनो हरति मामकं मरतकोपलश्यामलः ।
धनुश्शरलसत्करो धरणिकन्यकाप्रेमभू-
र्धनञ्जयरथध्वजाभरणभूतदूतः प्रभुः ॥ ८८॥

धन्या वयं धरणिकन्यकया सनाथे
नाथे स्थिते जगति नः परिपालनाय ।
यश्शीलितो यतिभिरात्मनि निष्कलङ्के
लङ्केश्वरं लवितुमाप मनुष्यरूपम् ॥ ८९॥

दीनानुकम्पि दिवसेश्वरवंशरत्नं
कर्तृव्यपेतवचसां कथमप्युपेयम् ।
तापिञ्छनीलरुचि तामरसायताक्षं
चापोज्ज्वलं किमपि वस्तु ममाविरस्तु ॥ ९०॥

आबद्धतूणमंसे करकमलद्वन्द्वधृतधनुर्बाणम् ।
पश्यामि हृदयकमले रामं दूर्वादलश्याम(ल)म् ॥ ९१॥

मज्जति मनो मदीयं क्वचिदपि दलितेन्द्रमणिनीले ।
महिमनि महीकुमारीकुचकुड्मलकुङ्कुमाङ्कितोरस्के ॥ ९२॥

जगदघहरप्रशंसे जनकसुतावलयपदविलसदंसे ।
निगमान्तनलिनहंसे रमते मम हृदयं रविकुलवतंसे ॥ ९३॥

सरसघनसारमेदुरचन्दननिष्यन्दशीतलालोकम् ।
कमपि दलितमयकन्यामङ्गलमालिङ्गति मनो मे ॥ ९४॥

विकचेन्दीवरनीलं विदेहतनयाकुचस्तबकलोलम् ।
निगमान्तसुधानिलयं माधुर्यं पिबति मामकं हृदयम् ॥ ९५॥

गिरिशधनुस्तरुकरिणं गलितभृगुप्रवरगर्वसर्वस्वम् ।
कलयामि कमपि वीरं कृत्तकबन्धं कृताम्बुनिधिबन्धम् ॥ ९६॥

कुशिकसुतकुतुकदायी कुवलयदलनीलकोमलशरीरः ।
कोसलकुलतिलको मे कोऽपि गतिः कोविदाररथकेतुः ॥ ९७॥

कुवलयदामसरूपं कुण्ठितदशकण्ठनिरुपमाटोपम् ।
करतलगृहीतचापं कलये तद्धाम पामरदुरापम् ॥ ९८॥

दलितेन्दीवररूपे दर्शितदशकण्ठयौवतविलापे ।
धृतशरचापकलापे दीव्यति हृदयं दिलीपकुलदीपे ॥ ९९॥

निगमान्तवनकुरङ्गे निर्मलमुन्यन्तरङ्गनटरङ्गे ।
रुचितुलितरवितुरङ्गे क्वचन रमे रघुकुलार्णवतरङ्गे ॥ १००॥

इति श्रीरामकर्णामृतं सम्पूर्णम् ।