श्रीरामकर्मनामाष्टाविंशत्युत्तरशतस्तोत्रम्
श्रीरामकर्मनामाष्टाविंशत्युत्तरशतस्तोत्रम्
अस्य श्रीरामकर्मनामाष्टाविंशत्युत्तरशतरहस्यस्तोत्रमन्त्रस्य,
वाल्मीकिर्भगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीरामचन्द्रः
पौलस्त्यविध्वंसकः परमात्मा देवता, श्रीरामचन्द्रप्रसादसिद्ध्यर्थे
जपे विनियोगः ॥
परमात्मा परब्रह्म सच्चिदानन्दविग्रहः ।
मायामयमहालीलः स्वयम्भूर्विष्णुरव्ययः ॥ १॥
लक्ष्मीक्षमानित्यसेव्यः शङ्खचक्रगदाधरः ।
अनन्तशयनः सर्वदेवप्रियकरः सदा ॥ २॥
सुरवैरिकुलध्वंसी मायामानुषविग्रहः ।
श्रीरामो रामचन्द्रश्च रामभद्र इति श्रुतः ॥ ३॥
प्रभुर्लक्ष्मणशत्रुघ्नकैकेयीतनयाग्रजः ।
सर्वप्रियो दाशरथिः कौसल्यानन्दवर्धनः ॥ ४॥
सर्वलक्षणसम्पन्नः सर्वज्ञः सद्गुणाकरः ।
विश्वामित्रानुयायी च ताटकाप्रविघातनः ॥ ५॥
लब्धसर्वास्त्रकौशल्यो मारीचमुखरक्षसाम् ।
शिक्षको यज्ञगोप्ता च गाधिसूनुकथारुचिः ॥ ६॥
विशदं पूजितोऽहल्यापावनो जनकार्चितः ।
शतानन्दकथाप्रीतः शैवकोदण्डखण्डनः ॥ ७॥
जानकीवल्लभः श्रीमान् कृतकौतुकमङ्गलः ।
जामदग्न्यमहादर्पदलनस्तातनन्दनः ॥ ८॥
वैदेहीसक्तहृदयः पितृनिर्देशकारकः ।
वनवासपरः पौरप्रजासञ्चयवञ्चकः ॥ ९॥
निषादाधिपसेव्यश्च भरद्वाजानुशासितः ।
चित्रकूटकृतावासः सीतासौमित्रिमोदितः ॥ १०॥
भरतानुग्रहीता च राज्यार्थन्यस्तपादुकः ।
दृढव्रतो जयन्ताहित्रासानुग्रहकारकः ॥ ११॥
अनसूयाङ्गरागादिशोभिसीताभिहर्षितः ।
दण्डकारण्यसञ्चारी विराधवधपण्डितः ॥ १२॥
शरभङ्गार्चितः सर्वतापसौघवरप्रदः ।
सुतीक्ष्णपूजितः सीताधर्मोक्तिपरितोषितः ॥ १३॥
क्रमेणाध्युषिताशेषतापसाश्रममण्डलः ।
अगस्त्यसत्कृतस्तेन दत्तासिशरकार्मुकः ॥ १४॥
कृतपश्चवटीवासो जटायुर्लब्धसौहृदः ।
पर्यायोदितहेमन्तप्रीतः सीतासमन्वितः ॥ १५॥
दुष्टशूर्पणखी(खा)नासाकर्णयुग्मनिकृन्तनः ।
राक्षसीपदवीप्राप्तदृप्तरक्षोविभेदनः ॥ १६॥
चतुर्दशसहस्रोग्ररक्षोबलनिषूदनः ।
त्रिशिरोदूषणारातिरुन्मत्तखरघातनः ॥ १७॥
मैथिलीहृदयानन्दी मायामृगविमर्दनः ।
वैदेहीमार्गणासक्तो जटायुस्सद्गतिप्रदः ॥ १८॥
अयोमुखीभङ्गकरः कबन्धभुजखण्डनः ।
शबरीपूजितः सम्यग्दर्शिताश्रमवैभवः ॥ १९॥
पम्पातीरे वनोल्लासदर्शनोल्बणमन्मथः ।
हनूमत्कृतसंवादः प्राप्तसुग्रीवसौहृदः ॥ २०॥
सुग्रीवदत्तवैदेहीत्यक्तवस्त्रविभूषणः ।
सुग्रीवाय प्रतिज्ञातवालिनिर्वापणः स्वयम् ॥ २१॥
पाददंष्ट्रासमुत्क्षिप्तमाहिषास्थिसमुत्करः ।
सप्ततालप्रभेत्ता च कृतसुग्रीवलाञ्छनः ॥ २२॥
वालिप्रमथनो वाग्मी तारातत्त्वोपदेशकृत् ।
सुग्रीवकृतसङ्केतः सुग्रीवेप्सितराज्यदः ॥ २३॥
वर्षासु माल्यवद्वासी लक्ष्मणप्रतिबोधितः ।
ऋक्षवानरसङ्घाती दिक्षु प्रेषितवानरः ॥ २४॥
अङ्गुलीयप्रदाता च निश्चितार्थो हनूमति ।
हनुमन्मुखविज्ञातसीतोदन्तः प्रसन्नधीः ॥ २५॥
चूडामणिनिरस्ताधिः सीतावाक्यामृताप्लुतः ।
हनूमतः परिष्वङ्गपारितोषिकदायकः ॥ २६॥
रक्षोवधाभिनिर्यायी सेनानयविशारदः ।
विभीषणस्याभयदः शरणागतवत्सलः ॥ २७॥
समुद्रोपासिता रोषवेगक्षोभितसागरः ।
शिवलिङ्गप्रतिष्ठाता नलसेतुविधायकः ॥ २८॥
हनुमद्वाहनश्चैव लङ्काद्वारावरोधकः ।
दशग्रीवमहारत्नकिरीटवरभञ्जनः ॥ २९॥
उदीर्णकुम्भकर्णादिसर्वरक्षःकुलान्तकः ।
युद्धे रावणहन्ता च ब्रह्मादिसुरसंस्तुतः ॥ ३०॥
सीतासमेतः शक्रादिवरोत्थापितवानरः ।
सुहृत्सौमित्रिसीताधिरूढपुष्पविमानकः ॥ ३१॥
भरद्वाजार्चितः सम्यग्भरतादिसमन्वितः ।
नन्दिग्रामगतः स्नातः सर्वालङ्कारभूषितः ॥ ३२॥
अयोध्यापुरवासी च राज्ये पट्टाभिषेचितः ।
तालवृन्तसितच्छत्रचामराद्युपशोभितः ॥ ३३॥
जानकीनन्दनः सर्वसुहृद्वर्गाभिहर्षणः ।
हृष्टपुष्टजनाकीर्णः पुरराष्ट्राभिरञ्जनः ॥ ३४॥
इत्येवं रामचन्द्रस्य कर्मनाम शुभावहम् ।
अष्टाविंशोत्तरशतं कीर्तितं परमर्षिणा ॥ ३५॥
गुह्याद्गुह्यतरं पुण्यं भक्त्या युक्तो नरः सदा ।
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ ३६॥
इति श्रीरामनामाष्टाविंशत्युत्तरशतस्तोत्रं सम्पूर्णम् ।