श्रीरामजानकीस्तुतिः
श्रीरामजानकीस्तुतिः
ध्येयं सदा परिभवघ्नमभीष्टदोहं,
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपालभवाब्धिपोतं,
वन्दे महापुरुष ते चरणारविन्दम् ॥ १॥
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्मिष्ठ आर्यवचसा यदगादरण्यं ।
मायामृगं दयितयेप्सितमन्वधावत्
वन्दे महापुरुष ते चरणारविन्दम् ॥ २॥
वेदान्तवेद्यमतिगुह्यमनन्तमाद्यं,
तापत्रयानलनिवारणमादिमूलम् ।
वृन्दावनस्थलविहारविनोदलीलं,
वन्दे महापुरुष ते चरणारविन्दम् ॥ ३॥
त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्वं मम देवदेव ॥ ४॥
श्रीराघवं दशरथात्मजमप्रमेयं,
सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं,
रामं निशाचरविनाशकरं नमामि ॥ ५॥
वन्दे विदेहतनयापदपुण्डरीकं,
यः सौरवृषमाहितयोगचित्तम् ।
हन्तुं त्रितापमनिशं मुनिहंससेव्यं,
सन्मानशीलपरिपीतपरागपुञ्जम् ॥ ६॥
उल्लङ्घ्य सिन्धोस्सलिलं सलीलं
यः शोक वह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ७॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठं ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ॥ ८॥
यत्र यत्र रघुनाथकीर्तनं
तत्र तत्र कृतमस्तकाञ्जलिम् ।
वाष्पवारिपरिपूर्णलोचनं
मारुतिं नमत राक्षसान्तकम् ॥ ९॥
प्रथमो अनन्तरूपश्च द्वितीयो लक्ष्मणस्तथा ।
तृतीयो बलरामश्च कलौ रामानुजो मुनिः ॥ १०॥
संसारतापसन्दग्धशीलहेतुविवर्णितः ।
रामदेशिकपदाम्भोजछायाविश्राममाश्रयेत् ॥ ११॥
जय जय यतिराज फणिराज अवतारमणे ।
प्रबलपाखण्डमानो विजयी भव विजयी भव ॥ १२॥
इति श्रीरामजानकीस्तुतिः समाप्ता ॥