श्रीरामचन्द्रस्तवः
श्रीरामचन्द्रस्तवः
(चामरम्)
सूर्यवंशसम्भवोऽपि चन्द्र कान्तिशीतलो
भूपतिस्तथापि निर्जितेन्द्रियो रघूत्तमः ।
नीलनीरदाभकान्तिमीश्वरं धनुर्धरं
राघवं नमाम्यहं सदैव साधुसेवितम् ॥ १॥
यज्ञरक्षणाय शैशवेऽपि राक्षसा हता
शम्भुचापभञ्जनेन जानकी त्वया वृता ।
विष्णुकार्मुके शरं नियुज्य भार्गवो जितस्
त्वां नमन्ति भक्तितः सुराः सदैव हे विभो ॥ २॥
ताटका त्वया हता मदोद्धता महावने
दूषणादिदानवास्त्वया वने विनाशिताः ।
तप्त-काञ्चनाभ-कान्ति-भासुरो मृगो वने
प्रापितोऽन्तकान्तिकं शरेण राघव द्रुतम् ॥ ३॥
मेघनाद-कुम्भकर्ण-रावणादि-राक्षसा
विक्रमेण लीलया त्वया हता रणाङ्गणे ।
लोकरञ्जनाय जानकी विसर्जिता प्रिया
त्वां नमाम्यहं सदैव रामचन्द्र भूपते ॥ ४॥
एकबाणमेकवाक्यमेकभार्यकं विभो
त्वां स्तुवन्ति साधवो सदेव भक्तिचेतसा ।
धर्मरक्षणाय काननं त्वयाऽऽश्रितं प्रभो
त्वामनन्यभक्तितश्च पूजयन्ति मानवाः ॥ ५॥
वानरेन्द्र-वालि-नाशकाय राम ते नमः
सिन्धुगर्वनाशकाय रामचन्द्र ते नमः ।
वायुनन्दनादि-वानरः सदैव सेवितं
लक्ष्मणाग्रजं च जानकी-पति नमाम्यहम् ॥ ६॥
त्यक्तयौवराज्यमार्जवेन युक्तमीश्वरं
व्याघ्रसर्पयुक्तकाननं गतं नृपेश्वरम् ।
राजरत्नमालिकासु सुप्रतिष्ठितं नपं
सादरं सदैव नौमि भक्ति-यक्त-चेतसा ॥ ७॥
त्वत्समो न भूपतिर्भुवि प्रभो विराजते
त्वत्समो सुतोऽपि देव नान्यतो हि दृश्यते ।
प्रीतियुक्तमानसः पतिश्च नापरो जने
त्वामनन्यमानसो नमस्करोमि सन्ततम् ॥ ८॥
पापनाशिनी तथैव सर्वकामदायिनी
शक्ति-कीति-मुक्तिदां स्मरेद् रघोः कथां सदा ।
रामचन्द्र-भूपतेः स्तवं सदैव यः पठेत
तस्य तुष्टमानसो प्रभुर्दयामयो भवेत् ॥ ९॥
इति श्री आपटीकरविरचितः श्रीरामचन्द्रस्तवः सम्पूर्णः ।