श्रीराघवस्तोत्रम्
श्रीराघवस्तोत्रम्
इन्द्रनीलाचलश्याममिन्दीवरदृगुज्ज्वलम् ।
इन्द्रादिदैवतैः सेव्यमीडे राघवनन्दनम् ॥ १॥
पालिताखिलदेवौघं पद्मगर्भं सनातनम् ।
पीनवक्षःस्थलं वन्दे पूर्णं राघवनन्दनम् ॥ २॥
दशग्रीवरिपुं भद्रं दावतुल्यं सुरद्विषाम् ।
दण्डकामुनिमुख्यानां दत्ताभयमुपास्महे ॥ ३॥
कस्तूरीतिलकाभासं कर्पूरनिकराकृतिम् ।
कातरीकृतदैत्यौघं कलये रघुनन्दनम् ॥ ४॥
खरदूषणहन्तारं खरवीर्यभुजोज्ज्वलम् ।
खरकोदण्डहस्तं च खस्वरूपमुपास्महे ॥ ५॥
गजविक्रान्तगमनं गजार्तिहरतेजसम् ।
गम्भीरसत्त्वमैक्ष्वाकं गच्छामि शरणं सदा ॥ ६॥
घनराजिलसद्देहं घनपीताम्बरोज्ज्वलम् ।
घूत्कारद्रुतरक्षौघं प्रपद्ये रघुनन्दनम् ॥ ७॥
चलपीताम्बराभासं चलत्किङ्किणिभूषितम् ।
चन्द्रबिम्बमुखं वन्दे चतुरं रघुनन्दनम् ॥ ८॥
सुस्मिताञ्चितवक्त्राब्जं सुनू पुरपदद्वयम् ।
सुदीर्घबाहुयुगलं सुनाभिं राघवं भजे ॥ ९॥
हसिताञ्चितनेत्राब्जं हताखिलसुरद्विषम् ।
हरिं रविकुलोद्भूतं हाटकालङ्कृतं भजे ॥ १०॥
रविकोटिनिभं शान्तं राघवाणामलङ्कृतिम् ।
रक्षोगणयुगान्ताग्निं रामचन्द्रमुपास्महे ॥ ११॥
लक्ष्मीसमाश्रितोरस्कं लावण्यमधुराकृतिम् ।
लसदिन्दीवरश्यामं लक्ष्मणाग्रजमाश्रये ॥ १२॥
वालिप्रमथनाकारं वालिसूनुसहायिनम् ।
वरपीताम्बराभासं वन्दे राघवभूषणम् ॥ १३॥
शमिताखिलपापौघं शान्त्यादिगुणवारिधिम् ।
शतपत्रदृशं वन्दे शुभं दशरथात्मजम् ॥ १४॥
कुन्दकुड्मलदन्ताभं कुङ्कुमाङ्कितवक्षसम् ।
कुसुम्भवस्त्रसंवीतं पुत्रं राघवमाश्रये ॥ १५॥
मल्लिकामालतीजातिमाधवीपुष्पशोभितम् ।
महनीयमहं वन्दे महतां कीर्तिवर्धनम् ॥ १६॥
इदं यो राघवस्तोत्रं नरः पठति भक्तिमान् ।
मुक्तः संसृतिबन्धाद्धि स याति परमं पदम् ॥ १७॥
इति श्रीराघवस्तोत्रं सम्पूर्णम् ।