राम स्तोत्र

श्रीरघुनाथमङ्गलस्तोत्रम्

श्रीरघुनाथमङ्गलस्तोत्रम्

मङ्गलं लोकरामाय रघुरामाय मङ्गलम् ।
मङ्गलं पद्मवक्त्राय रामभद्राय मङ्गलम् ॥ १॥

मङ्गलं कोसलेन्द्राय रामचन्द्राय मङ्गलम् ।
मङ्गलं मम नाथाय रघुनाथाय मङ्गलम् ॥ २॥

मङ्गलं रणधीराय रघुवीराय मङ्गलम् ।
मङ्गलं सत्यसन्धाय राजसिंहाय मङ्गलम् ॥ ३॥

मङ्गलं निरवद्याय वेदवेद्याय मङ्गलम् ।
मङ्गलं मुक्तिमूलाय मेघनीलाय मङ्गलम् ॥ ४॥

मङ्गलं सत्वरध्वस्तरुद्रचापाय मङ्गलम् ।
मङ्गलं जानकीनेत्रपूर्णपात्राय मङ्गलम् ॥ ५॥

मङ्गलं मिथिलानाथमौलिरत्नाय मङ्गलम् ।
मङ्गलं निस्सपत्नाय मङ्गलं नीलशालिने ॥ ६॥

मङ्गलं मैथिलीधन्यवनवासाय मङ्गलम् ।
मङ्गलं लक्ष्मणोपात्तभृत्यकृत्याय मङ्गलम् ॥ ७॥

मङ्गलं गुहसङ्गेन गङ्गाकूलनिवासिने ।
मङ्गलं गौतमीतीरपारिजाताय मङ्गलम् ॥ ८॥

मङ्गलं दण्डकारण्यवासिनिर्वातचेतसे ।
मङ्गलं शबरीदत्तफलमूलाभिलाषिणे ॥ ९॥

मङ्गलं सद्गुणारोपचापहस्ताय मङ्गलम् ।
मङ्गलं वायुपुत्रेण वन्दनीयाय मङ्गलम् ॥ १०॥

मङ्गलं वालिसुग्रीवहर्षशोकाभिघातिने ।
मङ्गलं मैथिलीमौलिमणिरञ्जितवक्षसे ॥ ११॥

मङ्गलं सर्वलोकानां शरण्याय महीयसे ।
मङ्गलं सागरोत्साहश‍ृङ्गभङ्गविधायिने ॥ १२॥

मङ्गलं वासवामित्रमर्दनोवृत्तबाहवे ।
मङ्गलं विश्वमित्राय विद्रावणदयादृशे ॥ १३॥

मङ्गलं वीक्षमाणाय मैथिलीवदनाम्बुजम् ।
मङ्गलं विनिवृत्ताय पुरं पौरनिवृत्तये ॥ १४॥

मङ्गलं भरतप्रीतिप्राप्तराज्याय मङ्गलम् ।
मङ्गलं मैथिलीयोगमहनीयाय मङ्गलम् ॥ १५॥

मङ्गलं हारकोटीरपादपीठाय मङ्गलम् ।
मङ्गलं रणधुर्याय तुङ्गपन्नगशायिने ॥ १६॥

मङ्गलं सह्यजामात्यसान्निध्यकृतचेतसे ।
मङ्गलं मानुषे लोके वैकुण्ठमिति तिष्ठते ॥ १७॥

शेषशैलनिवासाय श्रीनिवासाय मङ्गलम् ।
मङ्गलं वेधसो वेदिमेदिनीग्रहमेधिने ॥ १८॥

वरदाय दयाधाम्ने वीरोदाराय मङ्गलम् ।
मङ्गलं धनदादानदत्तसक्तिषि सम्पदे (?) ॥ १९॥

मङ्गलं नारसिंहाय नरसिंहाय मङ्गलम् ।
मङ्गलं मामहीनीलानित्यमुक्तैकचक्षुषे ॥ २०॥

य इदं कीर्तयेन्नित्यं मङ्गलं मङ्गलस्तवम् ।
वर्तयेत् पुरतस्तस्य मङ्गलायतनं हरिः ॥ २१॥

इति श्रीरघुनाथमङ्गलं सम्पूर्णम् ।