श्रीमङ्गलश्लोकरामायणम्
श्रीमङ्गलश्लोकरामायणम्
सर्वलोकशरण्याय साकेतपुरवासिने ।
सत्सेविताय रामाय ससीतायास्तु मङ्गलम् ॥ १॥
कौसल्यायां दशरथाज्जाताय परमात्मने ।
सदा भरतसौमित्रिशत्रुघ्नेशाय मङ्गलम् ॥ २॥
कौशिकक्रतुरक्षार्थं कृत्वा मारीचमर्दनम् ।
अहल्यापापनाशाय रघुनाथाय मङ्गलम् ॥ ३॥
जित्वा (भङ्क्त्वा) शैवं पुरा चापं प्राप्य सीतामनुत्तमाम् ।
अयोध्यामागतायास्तु गुणपूर्णाय मङ्गलम् ॥ ४॥
पितुः सत्यप्रतिज्ञायै कैकेय्या वचनादपि ।
चित्रकूटनिवासाय सीतारामाय मङ्गलम् ॥ ५॥
पादुके भरते याते दत्त्वा राज्यस्य पालने ।
दण्डकारण्यवासाय धैर्ययुक्ताय मङ्गलम् ॥ ६॥
हत्वा विराधं बलिनं मुनीनां भावितात्मनाम् ।
दत्ताभयाय रामाय पद्माक्षायास्तु मङ्गलम् ॥ ७॥
चतुर्दशसहस्राणां रक्षसां क्रूरकर्मणाम् ।
खरदूषणमुख्यानां हारिणेऽस्तु सुमङ्गलम् ॥ ८॥
सीतादर्शनयुक्ताय गृध्रमोक्षप्रकाशिने ।
कबन्धहारिणे तस्मै राघवायास्तु मङ्गलम् ॥ ९॥
शबर्या दत्तपूजाय सेविताय हनूमता ।
सुग्रीवकृतसख्याय धैर्ययुक्ताय मङ्गलम् ॥ १०॥
वालिनं बलिनं हत्वा सुग्रीवमभिषिच्य च ।
वर्षरात्रनिवासाय रामचन्द्राय मङ्गलम् ॥ ११॥
कालातिक्रमणाच्चैव कुपिताय महात्मने ।
आगते सति सुग्रीवे प्रसन्नायास्तु मङ्गलम् ॥ १२॥
अङ्गुलीयप्रदात्रे च हनूमति महात्मने ।
सीतां दृष्ट्वागते तस्मिन् हर्षयुक्ताय मङ्गलम् ॥ १३॥
अशोकवनिकामध्ये श्रुत्वा सीतां हनूमता ।
सुग्रीवकृतयानाय रघुनाथाय मङ्गलम् ॥ १४॥
अथागतं महात्मानमभिषिच्य विभीषणम् ।
कृतसागरबन्धाय सानुजायास्तु मङ्गलम् ॥ १५॥
सेतुना सुखमासाद्य लङ्कां रावणपालिताम् ।
सुवेलगिरिवासाय रणधीराय मङ्गलम् ॥ १६॥
सुग्रीवेण दशग्रीवे मुष्टियुद्धेन मूर्छिते ।
इन्द्रजिन्नागबद्धाय विमुक्तायास्तु मङ्गलम् ॥ १७॥
धूम्राक्षे वायुपुत्रेण वज्रदंष्ट्रेऽङ्गदेन च ।
प्रहस्ते नीलनिहते हर्षयुक्ताय मङ्गलम् ॥ १८॥
नयत्यौषधिशैलेन्द्रं हनूमति महात्मने ।
ब्रह्मास्त्रबन्धयुक्ताय विमुक्तायास्तु मङ्गलम् ॥ १९॥
रावणिं च हतं श्रुत्वा लक्ष्मणेन महाबलम् ।
निहत्य मकराक्षं च प्रसन्नायास्तु मङ्गलम् ॥ २०॥
जित्वा रावणकोटीरं कुम्भकर्णं निहत्य च ।
अतिकायं हतं श्रुत्वा प्रीतियुक्ताय मङ्गलम् ॥ २१॥
ततो मूलबलं हत्वा रावणं च महाबलात् ।
विजयं प्राप्य हृष्टाय रघुनाथाय मङ्गलम् ॥ २२॥
ततोऽग्निवचनात् सीतां प्राप्य हृष्टां यशस्विनीम् ।
ब्रह्मस्तुत्या प्रहृष्टाय रामभद्राय मङ्गलम् ॥ २३॥
विभीषणं महात्मानं लङ्कायामभिषिच्य च ।
वानरै राक्षसैः सार्धं पुष्पकस्थाय मङ्गलम् ॥ २४॥
मदनाकृतये तस्मै मधुरापुरवासिने ।
मनुवंशप्रदीपाय मानवेन्द्राय मङ्गलम् ॥ २५॥
प्राप्यायोध्यां च भरतं गङ्गातोयैः सुगन्धिभिः ।
अभिषिक्ताय रामाय ससीतायास्तु मङ्गलम् ॥ २६॥
मधुरापुरवासाय वसुदेवसुतप्रभुः (?) ।
श्रीराममङ्गलं नित्यं शृण्वतां सुकृतं भवेत् ॥ २७॥
एवं वाल्मीकिना प्रोक्तं रामायणकथामृतम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ २८॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ २९॥
इति श्रीमङ्गलश्लोकरामायणं सम्पूर्णम् ।