श्रीभद्राद्रिरामसुप्रभातस्तोत्रम्
श्रीभद्राद्रिरामसुप्रभातस्तोत्रम्
वामाङ्कस्थितजानकीपरिलसत्कोदण्डदण्डं करे
चक्रं चोर्ध्वकरेण बाहुयुगले शङ्खं शरं दक्षिणे ।
बिभ्राणं जलजातपत्रनयनं भद्राद्रिमूर्धस्थितं
केयूरादिविभूषितं रघुपतिं सौमित्रियुक्तं भजे ॥ १॥
श्रीमच्चन्दनचर्चितोन्नतकुचव्यालोलमालाङ्कितां
ताटङ्कद्युतिसत्कपोलयुगलां पीताम्बरालङ्कृताम् ।
काञ्चीकङ्कणहारनूपुरलसत्कल्याणदामान्वितां
श्री वामाङ्कगतां सरोरुहकरां सीतां मृगाक्षीं भजे ॥ २॥
द्विभुजं स्वर्णवपुषं पद्मपत्रनिभेक्षणम् ।
धनुर्बाणधरं धीरं रामानुजमहं भजे ॥ ३॥
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ ४॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ ५॥
वन्दे श्रीरघुनन्दनं जनकजानेत्रासिताम्भोरुहं
प्रालेयाम्बुमनल्पमञ्जुलगुणं पद्मासनोद्भासिनम् ।
चक्राब्जेषुशरासनानि दधतं हस्तारविन्दोत्तमैः
श्रीमन्मारुतिपूजिताङ्घ्रियुगलं भद्राद्रिचिन्तामणिम् ॥ ६॥
श्रीरामचन्द्रवरकौमुदि भक्तलोक
कल्पाख्यवल्लरिविनतजनैकबन्धो । variation विनम्रजनैकबन्धो
कारुण्यपूरपरिपूरितसत्कटाक्षे
भद्राद्रिनाधदयिते तव सुप्रभातम् ॥ ७॥
अम्लानभक्तिकुसुमा मलिनाः प्रदीपाः
सौधान् जयत्यविरलागुरुधूमराजिः ।
नाकं स्वृशन्ति धरणीसुरवेदनादाः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ८॥
सान्द्रोडुरम्यसुषमा न विभातिराजा
दीनो यथा गतवसुर्मलिनान्तरङ्गः ।
दैन्यं गता कुमुदिनी प्रियविप्रयोगात्
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ९॥
पूर्वाद्रिपीठमधितिष्ठति भानुबिम्बं
गाढं प्रयाति तिमिरं ककुभः प्रसन्नाः ।
त्वत्स्वागतं खगरुतैः कथयन्ति मन्द्रं
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १०॥
आदित्यलोलकरलालनजातहर्षा
सा पद्मिनी त्यजति मा सकृदास्यमुद्राम् ।
भृङ्गावली विशति चाटुवचास्सरोजं
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ११॥
प्रालेयबिन्दुनिकरा नवपल्लवेषु
बिम्बाधरे स्मितरुचिं तव संवदन्ति ।
आयान्ति चक्रमिथुनानि गृहस्थभावं (आयन्ति?)
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १२॥
आनेतुमास्यपवनं तव सत्सुगन्धी
माल्यानि जातिकुसुमानि सरोरुहाणि ।
आमर्दयन् सुरभिगन्धमहो भिवाति
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १३॥
गोपीकराकलितमन्थनरम्यनादाः
गोपालवेणुनिनदेन समं प्रवृत्ताः ।
धुन्वन्ति हंसमिथुनानि तुषारपक्षान्
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १४॥
स्तम्भे रमा उभयपक्षविनीतनिद्राः
कर्षन्ति ते कलितघीङ्कृतिशृङ्खलानि ।
वाद्या मुखोष्ममलिनीकृतसैन्धवांशाः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १५॥
श्रीवन्दिनस्तव पठन्ति च मञ्जुकण्ठैः
रम्यावधानचरितान्यमृतोपमानि ।
मन्द्रं नदन्ति मुरजाश्शुभशङ्खनादैः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १६॥
उत्तानकेतनरता रवयो महेशाः
शुद्धोक्षवाहनगता वसवोऽपि सिद्धाः ।
द्वारे वसन्ति तव दर्शनलालसास्ते
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १७॥
चक्राङ्गवाहविधिरेष सुरेश्वरोऽयं
देवर्षिभिर्मुनिगणैस्सह लोकपालैः ।
रत्नोपदाञ्जलिभरोऽभिमुखं समास्ते
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १९॥
दातुं भवान् विविधगोधनरत्नपूगान्
आलोकनाय मुकुरादि शुभार्थपुञ्जान् ।
आदाय देहलितले त्रिदशा निषण्णाः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १९॥
गोदावरीविमलवारिसमुद्भवानि
निर्हारिपुष्पविसराणि मुदा हरन्तः ।
शुश्रूषया तव बुधाः प्रतिपालयन्ति
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २०॥
एलालवङ्गवरकुङ्कुमकेसराद्यैः
पुन्नागनागतुलसीवकुलादिपुष्पैः ।
नीतास्सुतीर्थकलशा अभिषेचनाय
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २१॥
कस्तूरिकासुरभिचन्दनपद्ममालाः
पीताम्बरं च तडिदाभमनल्पमूल्यम् ।
सज्जीकृतानि रघुनायक मञ्जुलानि
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २२॥
केयूरकङ्कणकलापकिरीटदेव
छन्दाङ्गुलीयकमुखा नवरत्नभूषाः ।
राजन्ति तावकपुरो रविकान्तिकान्ताः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २३॥
गोदावरीसलिलसम्प्लवनिर्मलाङ्गाः
दीप्तोर्ध्वपुण्ड्रतुलसीनलिनाक्षमालाः ।
श्रीवैष्णवास्तव पठन्ति विबोधगाथाः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २४॥
स्वर्लोकवारवनितास्सुरलोकतोऽमी
रम्भादयो विमलमङ्गलकुम्भदीपैः ।
सङ्घीभवन्ति भवदङ्गणपूर्वभागे
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २५॥
सीताप्रवालसुमनोहरपाणियुग्म-
संवाहितात्मपदपङ्कजपद्मनेत्र ।
सौमित्रिसादरसमर्पितसौम्यशय्या
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २६॥
श्रीशेषतल्प शरणागतरक्षकार्क-
वंशे निशाचरवधाय कृतावतार ।
पादाब्जरेणुहृतगौतमदारशाप
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २७॥
पाठीनकूर्मकिटिमानुषसिंहवेष
कुब्जावतार भृगुनन्दन राघवेन्द्र ।
तालाङ्ककृष्णयवनान्तकबुद्धरूप
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २८॥
ब्रह्मादिसर्वविबुधांस्तव पादभक्तान्
सम्फुल्लतामरसभासुरलोचनाद्यैः ।
आनन्दयस्व रिपुशोधन चापधारिन्
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २९॥
तल्पं विहाय कृपया वरभद्रपीठं
आस्थाय पूजनमशेषमिदं गृहीत्वा ।
भक्तानशेषभुवनानि च पालयस्व
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ३०॥
कुन्दसुन्दरदन्तपङ्क्तिविभासमानमुखाम्बुजं
नीलनीरदकायशोभितजानकीतडिदुज्ज्वलम् ।
शङ्खचक्रशरासनेषुविराजमानकराम्बुजं
भद्रभूधरशेखरं प्रणमामि रामसुधाकरम् ॥ ३१॥
अब्जसम्भवशङ्करादिभिरर्चिताङ्घ्रिपयोरुहं
मेरुनन्दनभद्रतापसमानसाब्जदिवाकरम् ।
नम्रभक्तजनेष्टदायकपद्मपीठसमास्थितं
गौतमीक्षणलालसं प्रणमामि रामसुधाकरम् ॥ ३२॥
भीतभानुतनूभवार्तिनिवारणातिविशारदं
पादनम्रविभीषणाहितवैरिराज्यविभूतिकम् ।
भीमरावणमत्तवारणसिंहमुत्तमविग्रहं
भद्रभूधरशेखरं प्रणमामि रामसुधाकरम् ॥ ३३॥
घोरसंसृतिदुस्तराम्बुधि कुम्भवसम्भवसन्निभं
योगिवृन्दमनोऽरविन्दसुकेसरोज्ज्वलषट्पदम् ।
भक्तलोकविलोचनामृतवर्तिकायितविग्रहं
भद्रभूधरशेखरं प्रणमामि रामसुधाकरम् ॥ ३४॥
भूसुताचिररोचिषं वरसत्पथैकविहारिणं
तापनाशनदीक्षितं नतचातकावलिरक्षकम् ।
चित्रचापकृपाम्बुमण्डलनीलविग्रहभासुरं
भद्रभूधरशेखरं प्रणमामि रामपयोधरम् ॥ ३५॥
इति भद्राद्रिराम (भद्राचलराम) सुप्रभातस्तोत्रं सम्पूर्णम् ।