रामचन्द्रस्तुतिः
रामचन्द्रस्तुतिः
वन्दामहे महेशानचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ १॥
नमो रामपदाम्भोजं रेणवो यत्र सन्ततम् ।
कुर्वन्ति कुमुदप्रीतिमरण्यगृहमेधिनः ॥ २॥
स्वर्णैणाजिनशयनो योजितनयनो दशास्यदिग्भागे ।
मुहुरवलोकितचापः कोऽपि दुरापः स नीलिमा शरणम् ॥ ३॥
अधिपञ्चवटीकुटीरवर्तिस्फुटितेन्दीवरसुन्दरोरुमूर्तिः ।
अपि लक्ष्मणलोचनैकसख्यं भजत ब्रह्म सरोरुहायताक्षम् ॥ ४॥
कनकनिकषभासा सीतयाऽऽलिङ्गिताङ्गो
नवकुवलयदामश्यामवर्णाभिरामः ।
अभिनव इव विद्युन्मण्डितो मेघखण्डः
शमयतु मम तापं सर्वतो रामचन्द्रः ॥ ५॥
परिणयविधौ भङ्क्त्वानङ्गद्विषो धनुरग्रतो
जनकसुतया दत्तां कण्ठे स्रजं हृदि धारयन् ।
कुसुमधनुषा पाशेनेव प्रसह्य वशीकृतो
ऽवनतवदनो रामः पायात्त्रपाविनयान्वितः ॥ ६॥
रामो राजमणिः सदा विजयते, रामं रमेशं भजे
रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ७॥
यो रामो न जघान वक्षसि रणे तं रावणं सायकैः
हृद्यस्य प्रतिवासरं वसति सा तस्या ह्यहं राघवः ।
मय्यास्ते भुवनावली परिवृता द्वीपैः समं सप्तभिः
स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापरः ॥ ८॥
राज्यं येन पटान्तलग्नतृणवत्त्यक्तं गुरोराज्ञया
पाथेयं परिगृह्य कार्मुकवरं घोरं वनं प्रस्थितः ।
स्वाधीनः शशिमौलिचापविषये प्राप्तो न वै विक्रियां
पायाद्वः स विभीषणाग्रजनिहा रामाभिधानो हरिः ॥ ९॥
कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं
शार्ङ्गाखण्डलचापमम्बुजभवाग्नीन्द्रादिबर्हीष्टदम् ।
चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं
श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम् ॥ १०॥
कूर्मो मूलवदालवालवदपांराशिर्लतावद्दिशो
मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः ।
स्वामिन्व्योमतरुः क्रमे मम कियाञ्छ्रुत्वेति गां मारुतेः
सीतान्वेषणमादिशन्दिशतु वो रामः सलज्जः श्रियम् ॥ ११॥
एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिदौ
वैदेहीकुचकुम्भकुङ्कुमरजः सान्द्रारुणाङ्काङ्कितौ ।
लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ
देयास्तामुरुविक्रमौ रघुपतेः श्रेयांसि भूयांसि वः ॥ १२॥
बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता
ताते काननसेवनावधि कृपा सुग्रीवसख्यावधि ।
आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि
श्रीरामस्य पुनातु लोकवशता जानक्युपेक्षावधि ॥ १३॥
कल्याणानां निधानं कलिमलमथनं पावनं पावनानां
पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ १४॥
कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा
काचित्साकेतधामा भवगहनगतिक्लान्तहारिप्रणामा ।
सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा
दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥ १५॥
योऽद्धा योद्धावधीत्तान्सपदि पलभुजः सम्पराये परा ये
येनायेनाश्रितानां स्तुतिरवनमितेशानचापेन चापे ।
लङ्कालङ्कारहर्ता ककुभि ककुभि यः कान्तया सीतयाऽऽसीत्
ऊनो दूनोऽथ हृष्टः स विभुरवतु वः स्वःसभार्यः सभार्यः ॥ १६॥
ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमतारं
स्फारं नेत्रानलेन प्रसभनियमितोच्चापमीनध्वजेन ।
रामायत्तं पुरारेः कुमुदशुचि लसन्नीलसुग्रीवमङ्गं
प्लावङ्गं वापि सैन्यं दशवदनशिरश्छेदहेतु श्रियेऽस्तु ॥ १७॥
यस्तीर्थानामुपास्त्या गलितमलभरं मन्यते स्म स्वमेवं
नाज्ञासीज्जज्ञिरे यन्ममचरणरजःपादपूतान्यमूनि ।
पादस्पर्शेन कुर्वञ्झटिति विघटितग्रावभावामहल्यां
कौसल्यासूनुरूनं व्यपनयतु स वः श्रेयसा च श्रिया च ॥ १८॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलरुचा स्पर्धिनेत्रं प्रसन्नम् ।
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ १९॥
इति रामचन्द्रस्तुतिः समाप्ता ।