कल्याणरामनामावलिः
कल्याणरामनामावलिः
ॐ कल्याणोत्सवानन्दाय नमः ।
ॐ महागुरुश्रीपादवन्दनाय नमः ।
ॐ नृत्तगीतसमावृताय नमः ।
ॐ कल्याणवेदीप्रविष्टाय नमः ।
ॐ परिणयरूपदिव्यार्चनमुदिताय नमः ।
ॐ जनकराजसमर्पित दिव्यवस्त्राभरणभूषिताय नमः ।
ॐ सीताकल्याणरामाय नमः ।
ॐ कल्याणविग्रहाय नमः ।
ॐ कल्याणदायिने नमः ।
ॐ भक्तजनसुलभाय नमः । १०
ॐ कल्याणगुणसहिताय नमः ।
ॐ भक्तानुग्रहकाम्याय नमः ।
ॐ जनकराजजन्मसाफल्याय नमः ।
ॐ योगीन्द्रवृन्दवन्दिताय नमः ।
ॐ नामसङ्कीर्तनसन्तुष्टाय नमः ।
ॐ शरणशरण्याय नमः ।
ॐ रामाय नमः ।
ॐ महात्मने नमः ।
ॐ दीनबान्धवाय नमः ।
ॐ अयोध्यामहोत्सुकाय नमः । २०
ॐ विद्युत्पुञ्जसमप्रभवे नमः ।
ॐ रामाय नमः ।
ॐ दाशरथाय नमः ।
ॐ महाबाहवे नमः ।
ॐ महापुरुषाय नमः ।
ॐ विष्णवे नमः ।
ॐ प्रसन्नमुखपङ्कजाय नमः ।
ॐ तुभ्यं नमः ।
ॐ विष्णवे नमः ।
ॐ ब्रह्मप्रार्थिताय नमः । ३०
ॐ जन्मादिषड्भावरहिताय नमः ।
ॐ निर्विकाराय नमः ।
ॐ पूर्णाय नमः ।
ॐ गमनादिविवर्जिताय नमः ।
ॐ जगतान्नाथाय नमः ।
ॐ भक्तिभावनाय नमः ।
ॐ कारुणिकाय नमः ।
ॐ अनन्ताय नमः ।
ॐ रामचन्द्राय नमः ।
ॐ रामाय नमः । ४०
ॐ करुणामयाय नमः ।
ॐ मधुसूदनाय नमः ।
ॐ लक्ष्मणभरतरिपुघ्नसहिताय नमः ।
ॐ मातापितृसंहृष्टाय नमः ।
ॐ श्रियासहिताय नमः ।
ॐ वैकुण्ठाय नमः ।
ॐ सीतासमेताय नमः ।
ॐ अखिलजनान्दनकराय नमः ।
ॐ नित्यश्रीप्रदाय नमः ।
ॐ विकाररहिताय नम ः ५०
ॐ निरवधिकविभवाय नमः ।
ॐ मायानिरापाय नमः ।
ॐ अखिलदेवेश्वराय नमः ।
ॐ कल्याणरामाय नमः । ५४
इति कल्याणरामनामावलिः समाप्ता ।