श्रीवाग्मतिसहस्रनामस्तोत्रम्
श्रीवाग्मतिसहस्रनामस्तोत्रम्
ॐ श्रीवाग्मत्याः सहस्रनामस्तोत्रस्य गायत्रीच्छन्दः ।
वागीश्वरी देवता वाग्भवो बीजं, कामराजः लज्जा कीलकं, शिवगङ्गा
बुद्धिब्रह्मसरस्वतीशक्तिश्चतुर्वर्गसाधने विनियोगः ॥ २६॥
अथ सहस्रनामस्तोत्रम् ।
लज्जाबीजं त्रिधा लिख्य वाग्भवञ्च त्रयस्त्रिधा ।
धर्मबीजं त्रिधा ध्रीं ध्रीं नेत्रवह्निसमायुताम् ॥ २७॥
लज्जात्रयं गणेशाख्यं ग्रीं ग्रीं ग्रीमिति पूर्ववत् ।
शारदायै नमश्चान्ते सिद्धं सारस्वतीमनुम् ॥ २८॥
सर्वोपरि तथोङ्कारं जपाद्वागीश्वरो भवेत् ।
प्रणवश्च त्रयं वाणीलज्जाधर्मत्रयाङ्गणम् ॥ २९॥
शारदायै शुभे भार्या प्रजपाद्वाक्पतिर्भवेत् ।
करपुटे जलं धृत्वा त्रयोदश्यां निरामिषः ॥ ३०॥
वाग्मत्याः प्रजपन्यश्च कविराजो भवेद्द्रुतम् ।
पुण्डरीकसमासीनां कर्प्पूरेन्दुसमोज्ज्वलाम् ॥ ३१॥
त्र्यक्षां स्मिताननां ध्येयां सर्वालङ्कारशोभनाम् ।
मालां वरं दधानाञ्च पुस्तकमभयं करैः ॥ ३२॥
वाग्देवीं वाग्मतीं ध्यायेच्चन्द्रकलाद्रवसुधाम् ।
अथ सहस्रनामम् ।
ॐ वाग्मती वाग्भवा वाणी वागीश्वरी वचोवरा ॥ ३३॥
वागीशा वरदा ब्राह्मी वाग्विभूतिश्च भारती ।
वागीशवल्लभा भाषा गीरूपा वाक्-स्वरूपिणी ॥ ३४॥
वाग्रूपिणी च चैतन्या वाग्वागीश्वरवल्लभा ।
वाचोर्मिमालिनी वाहा अर्वाक्पापोर्मिनाशिनी ॥ ३५॥
वाग्देवेश्वरकण्ठस्था वाग्देवी वाग्मतीश्वरा ।
वाग्भूतार्णप्रवाहा च वागैश्वर्या सरस्वती ॥ ३६॥
अणिमारुन्धत्ती अर्द्धा अगैश्वर्यावतारिणी ।
अशरीरार्द्धमात्रा च अन्नरूपाघहारिणी ॥ ३७॥
अतिसौम्याच्युताशोका अर्चिताचलवाहिनी ।
अत्युग्राचलसम्भिन्ना अच्छिन्नाच्छिन्नवाहिनी ॥ ३८॥
आनन्दिनी स्वभक्तानामात्मान्तस्था च जीविनाम् ।
आनन्दाऽमृतवर्णाभा आद्याननसमुद्भवा ॥ ३९॥
आनन्दोर्मिप्रवाहा च आपोदेवी पयोमयी ।
आकाशवाहिनी आर्या आकरा शर्मणोमिणाम् ॥ ४०॥
इच्छाशक्तिश्च इन्द्राणी इन्दिरा हरिवल्लभा ।
ईप्सितार्थप्रदा इन्दुरिङ्गितज्ञा शिवप्रिया ॥ ४१॥
ईश्वरी लोकईशानी ईश्वरामोदकारिणी ।
ईशानी शाङ्करी शान्ता ईशानमुखसम्भवा ॥ ४२॥
उग्रास्या उग्ररूपा च उग्रवरप्रदा उमा ।
उग्रार्द्धाङ्गनिषण्णा च उग्रशीर्षावतारिणी ॥ ४३॥
ऊर्ध्वेश्वरी सदोर्ध्वस्था ऊनकिल्बिषकारिणी ।
ऊशीरगन्धसुप्रीता ऊःच वरप्रदाग्रणी ॥ ४४॥
ऊरूपा सर्वसंहारे ऊर्ध्वगतिप्रदर्शिनी ।
ऊर्ध्वगा ऊग्रभार्या च ऊर्ध्वस्थानप्रदायिनी ॥ ४५॥
ऋग्यजुरथ सामात्मा ऋवर्णा ऋद्धिरूपिणी ।
ऋकारा दितिरूपा च ऋणहन्त्री ऋतूत्सवा ॥ ४६॥
ऋकारमुखसम्भूता ऋवर्णात्मामरप्रसूः ।
लृकारसंस्तुताऽनेका लृवर्णसेवितारिहा ॥ ४७॥
एका चैकाररूपा च एकारा मदनोत्सवा ।
एकारस्था समैकास्या एकाधारा बहुश्रिता ॥ ४८॥
ऐकारवल्लभा ऐन्द्री ऐकारा वामलोचना ।
ऐकारात्मा अनेकाध्वा ऐन्द्रीगणप्रसेविता ॥ ४९॥
ओङ्कारस्था तथोङ्कारा ओङ्काराश्रुविभूषणा ।
ओङ्कारवक्त्रसम्भूता ओङ्कारपूर्वजप्रिया ॥ ५०॥
और्ध्वरेतोऽर्च्चिता और्वी और्ध्वदेहफलप्रदा ।
औत्तानपादसंप्रीता और्वासमोर्वशीप्रिया ॥ ५१॥
अम्बिकाम्बालिकानन्ता अर्णवाध्वरशीर्षगा ।
अङ्कुशधारिणी अम्बा अन्नपूर्णान्नकारिणी ॥ ५२॥
अः रुद्रवक्त्रसञ्जाता अरूपा शिववल्लभा ।
अप्रोक्ता चैनसां शास्ता अनङ्गारिविनोदिनी ॥ ५३॥
कलाधारा कलारूपा कौमुदी कालभैरवी ।
कमला कामिनी काली कुल्लुका कुसुमप्रिया ॥ ५४॥
कलावती करालास्या कैलासस्था कलानिधिः ।
कामाख्या कुलकान्ता च कामदा कामचारिणी ॥ ५५॥
कामधेनुः कृशाङ्गी च कालिन्दी कुञ्जरेश्वरी ।
कान्तिकाया च काञ्चीस्था अलका कूटवाहिनी ॥ ५६॥
कुलवती कुटिलाङ्गी कोटराक्षी कपालिनी ।
कामेश्वरी च कङ्काली कीर्तिदा कामसुन्दरी ॥ ५७॥
कामार्त्ता कामरूपा च करुणा कुलदेवता ।
कुलिशाङ्गी कला काष्ठा कुमारी कमलेक्षणा ॥ ५८॥
कल्याणी कार्चिता कान्ती कालरात्री च कौशिकी ।
काम्या अलकनन्दा च कुलधर्मप्रकाशिनी ॥ ५९॥
कलुषघ्नी कृपास्वच्छा कृष्णा कृष्णसमर्च्चिता ।
कान्तकल्लोललोलाढ्या कृपाकल्लोलशालिनी ॥ ६०॥
खगेश्वरी खरूपा च खगा खगेन्द्रवाहिनी ।
खवर्णा खड्गहस्ता च खेचरी खेटकायुधा ॥ ६१॥
खाखोदरी खगेन्द्राभा खमणिद्युतिशोभना ।
खरदंष्ट्रा खगास्या च खण्डपरशुवल्लभा ॥ ६२॥
गजास्याम्बा च गुह्येशी गजेन्द्रदशनच्छविः ।
गजचर्मावृताजाया गजाननप्रसूतिका ॥ ६३॥
गौरी गोदावरी गङ्गा गन्धर्वगणसेविता ।
गणनीया गणाध्यक्षा गम्भीरनीरवाहिनी ॥ ६४॥
गणमाता च गान्धारी गगनमणिभूषणा ।
गोमती गगनेशानी गिरिजा गिरिशप्रिया ॥ ६५॥
गङ्गार्चिता च गायत्री गिरिस्था गिरिसम्भवा ।
गण्डकी गरुडस्था च गोकर्णार्चा च गौतमी ॥ ६६॥
घनभक्तिप्रिया घोरा घनामरप्रसेविता ।
घृताचीसेविता घोरा घोराग्न्या घोरवल्लभा ॥ ६७॥
घनघनौघघोरास्या घनपापविनाशिनी ।
घनस्वना घना घोरा घोरतरा घनच्छविः ॥ ६८॥
ङेश्वरी घोरघोषा च घोरकिल्बिषघातिनी ।
चञ्चला चारुवाहा च चण्डेश्वरी च चित्तवित् ॥ ६९॥
प्रचण्डा चण्डरूपा च चामुण्डा चतुरानना ।
चपला चण्डिका चण्डी षट्चक्रान्तर्न्निवासिनी ॥ ७०॥
चारुचारा च चार्वङ्गी चतुरा चारुहासिनी ।
चतुःषष्टिकला चित्रा चित्राङ्गी चारुलोचना ॥ ७१॥
चारुदेहा चतुर्बाहुश्चित्रभानुतनुप्रभा ।
चन्द्रमा चन्द्रभागा च चैतन्या चक्रधारिणी ॥ ७२॥
छन्दोरूपा छवर्णाभा प्रोच्छायाच्छन्नविग्रहा ।
छायासञ्छन्दितालोका छकारा छिन्नविग्रहा ॥ ७३॥
छत्रसञ्छादिता स्वच्छा लाञ्छनोर्मिपयश्छविः ।
छन्दोमयी श्रुतिच्छन्दा इच्छात्मा छिन्नसंशया ॥ ७४॥
जगदानन्दिनी ज्वाला जाम्बवत्यर्चिताजिता ।
जगत्प्रिया जितक्रोधा जगद्धीरा जितेन्द्रिया ॥ ७५॥
जाह्नवी जानकी जाप्या जननी जननन्दिनी ।
जगद्धात्री जगन्मान्या जन्तुजन्मान्तराश्रिता ॥ ७६॥
जगद्वपुर्ज्जगज्जीवा जातवेदापराजिता ।
जयमूर्तिर्ज्जगन्माता जनस्वान्तनिवासिनी ॥ ७७॥
जाम्बूनदप्रवाहा च जया च विजयाजया ।
जगज्जीवमयी माता जयन्ती जगदुच्छ्रिता ॥ ७८॥
जीवेश्वरी जनैश्वर्या जीवेशजनकारीणी ।
झङ्केश्वरी झकारात्मा झङ्कारस्वनवाहिनी ॥ ७९॥
झर्झरानिपतन्ती च झङ्केशार्द्धाङ्गहारिणी ।
झषावतारसुप्रीता झषवर्गप्रसेविता ॥ ८०॥
झर्झररवसंक्षिप्ता झकाररूपतोषिता ।
अट्टाट्टहासिनी क्रोधात्कोटिकोटितरङ्गिणी ॥ ८१॥
तटिनी करहाटाढ्या अटवीक्षितिगामिनी ।
हिमकूटतटोद्भूता कूटकटकवाहिनी ॥ ८२॥
शङ्खताटङ्करम्यास्या निधनोद्यतटङ्किनी ।
पीठेश्वरी च पीठार्या पीवराम्बुप्रवाहिनी ॥ ८३॥
डाकिनी डमरुहस्ता डकारेशा डनादिनी ।
डम्भहन्त्री च भेरुण्डा डामरा डण्डतर्ज्जनी ॥ ८४॥
ढरूपा ढस्वरा ढात्मा भङ्गाढ्या ढण्ढकारिणी ।
ढक्कावाद्यस्वनावीचीदृढधारा दृढारवा ॥ ८५॥
प्रणवेशी प्रणम्यार्या नम्या प्रणवसम्भवा ।
तरङ्गिणी तरङ्गाढ्या तन्त्रीतरलगामिनी ॥ ८६॥
तामसी च तमोरूपा तमोगुणा तमःपरा ।
तीरवती त्रिरूपा च तुष्टिस्तीव्राद्रिहाक्त्रया ॥ ८७॥
तीव्रगा तीव्रभङ्गी च तीव्रतोया तपोमयी ।
दुस्तारा दुस्तरत्राता तारेशी ताररूपिणी ॥ ८८॥
तारिणी ताररूपा च तरलतरतारिणी ।
तपोनिष्ठा त्रिमात्रा च तपस्विनी त्रिलोचना ॥ ८९॥
त्रिदिवस्था त्रिधारा च तारेश्वरी त्रिविक्रमा ।
त्रिवर्गागामिनी त्रिस्था तत्त्वा त्रिपुरवासिनी ॥ ९०॥
त्रिलोकात्मा त्रिलोकस्था त्रैलोक्यतीर्थनन्दिनी ।
ताटङ्किनी च तारस्था तारा त्रिशूलधारिणी ॥ ९१॥
त्रिमूर्तिस्तरणी तापा त्र्यक्षरा त्रिविधाङ्गिनी ।
तीर्थवन्द्यालसत्तीर्था तीर्थराज्ञी च तीर्थदा ॥ ९२॥
तिर्थाद्या तीर्थज्येष्ठा च तीर्थार्या तीर्थवाहिनी ।
तार्क्ष्यस्था तार्क्ष्यवन्द्या च तार्क्ष्यार्या तार्क्ष्यवाहिनी ॥ ९३॥
स्थानस्था स्थण्डिला स्थीरा स्थाण्वीश्वरी स्थलाश्रिता ।
मथुरा मथुरास्थाता स्थानीयस्था स्थला स्थिरा ॥ ९४॥
ज्येष्ठा च स्थविरा मन्था मैथिली प्रमथाधिपा ।
दुष्कृतघ्नी स्पृहादोग्ध्री देवमाता दधिप्रभा ॥ ९५॥
देवता देवमूर्तिश्च देवदेवप्रियोत्तमा ।
देवदूती च दीप्तास्या देवकी दैत्यनाशिनी ॥ ९६॥
द्वीपिचर्मावृता दाक्ष्या दक्षयज्ञप्रमाथिनी ।
दारिद्र्यनाशिनी दान्ता दाक्षायणी च दुर्गहा ॥ ९७॥
दावाग्निदलना दक्षा दिग्वस्त्रा द्वादशानना ।
दशभुजा च दक्षिण्या दण्डिनी दण्डवत्प्रिया ॥ ९८॥
दुरितघ्नी दया दुर्गा दुराधर्षा दिगम्बरी ।
दाहप्रशमनी दीप्ता दुराराध्या च दारुणा ॥ ९९॥
अष्टादशभुजा चण्डा द्विपत्रवासिनी दया ।
दक्षकन्या द्रवा दिव्या दिव्यरूपा दरीस्तवा ॥ १००॥
दिव्यार्चिता च दिव्याङ्गी देवसैन्या सुदीप्तिका ।
दायिनी द्रव्यरूपा च दानवघ्नी दयाकरा ॥ १०१॥
दुर्गरूपा दुराराध्या दुर्ज्जया दुरतिक्रमा ।
देवेश्वरी दयाशीला दिव्यमोक्षप्रदायिनी ॥ १०२॥
धीरा धीरप्रवाहा च धाराप्रवाहिणी सुधा ।
धरित्री धारिणी धात्री धरणीधरप्रवाहिणी ॥ १०३॥
धन्या धान्यधरा धीरा धारणा धरणी धरा ।
धाराधरानना धैर्या धर्मात्मा धर्मरूपिणी ॥ १०४॥
धीरूपा धिषणा धात्री धूम्राक्षा धर्मविग्रहा ।
ध्यानगम्या निशि ध्येया ध्यानानना धराश्रिता ॥ १०५॥
ध्यानरूपा बुधध्याता ध्यानस्था ध्यानरूपिणी ।
ध्यानातीतामरध्याता ध्यातव्या ध्यानतत्परा ॥ १०६॥
ध्यानेक्षणा धिया ध्येया ध्यानास्या ध्यानसंश्रिता ।
धीरध्याता धराधाना धाराध्येया विधायिनी ॥ १०७॥
नन्दिनी च निराधारा निष्कला निर्गुणा नदी ।
नीलघनस्वना नग्ना नानाजातिनिवासिनी ॥ १०८॥
नागोपवीतिनी नाट्यानन्दा नृमुण्डधारिणी ।
नीलघनाभदेहा च निर्द्वन्द्वा नागनायिका ॥ १०९॥
नागेन्द्रदन्तसङ्काशा नया नरकनाशिनी ।
निर्भया निर्भरा निष्ठा नारायणी निरञ्जना ॥ ११०॥
निष्ठुरा च निराकारा नारसिंही च नोपमा ।
निशीथिनी निशाहन्त्री नानादुःखनिवारिणी ॥ १११॥
निर्मदा करतोया च निष्कलङ्काऽघनाशिनी ।
शतद्रुसिन्धुसंवाहा नित्यानन्दविधायिनी ॥ ११२॥
त्रिनयना नृसिंहार्या नानाकारप्रवाहिणी ।
पापघ्नी पावनी पद्मा पवित्रा पद्मपूजिता ॥ ११३॥
प्रज्ञारूपा प्रचण्डा च पद्मस्था पद्मसम्भवा ।
पद्माक्षी पद्मिनी प्रीता प्रकटवासिनी परा ॥ ११४॥
प्रीतिभक्ता च पश्यन्ती परम्ब्रह्मावतारिणी ।
प्रभावती परात्मा च पद्मजा परमेश्वरी ॥ ११५॥
पातकघ्नी पराशक्तिः पञ्चमी पञ्चमारुता ।
पञ्चात्मा पञ्चतत्त्वा च पञ्चत्वस्था परापरा ॥ ११६॥
पञ्चपीठेश्वरी पूर्णा पूरका पञ्चमीप्रिया ।
पूर्णिमा पूर्णरूपा च पूर्णेश्वरी परात्परा ॥ ११७॥
फणीन्द्रभूषणा फेरुः स्फटिकाभा प्रवाहिणी ।
स्फीता स्फोटप्रवाहा च स्नातकस्फोटनाशिनी ॥ ११८॥
फणिहारा फलाढ्यार्या स्फटिकार्णा फलप्रदा ।
फेरुस्था फेरुरावा च फेत्कारिणी तथा प्रभा ॥ ११९॥
वैष्णवी वामरूपा च वामेश्वरी वरप्रदा ।
वामस्था वाहिनी वामा वामेशा वामलोचना ॥ १२०॥
वरेण्या वरदा बाला वरार्या वरदायिनी ।
विमला च विशालाक्षी विश्वाक्षी विन्दुवासिनी ॥ १२१॥
विश्वात्मा च विरूपाक्षी विभवा विन्ध्यवासिनी ।
बोधिनी वीरजा वीरा विश्वयोनिश्च वत्सला ॥ १२२॥
विश्वा सर्वसुधा वीजा विशालामृतवाहिनी ।
विद्याधरी च विद्यात्मा वैखरी वामकेश्वरी ॥ १२३॥
वेदरूपा च वेदान्ता वेदाङ्गा वेदवल्लभा ।
वाराही वासवी वाणी वाराणसीनिवासिनी ॥ १२४॥
भवानी भववन्द्या च भूमिस्था भूमिभूषणा ।
भागीरथी भवाराध्या भवमाता भवेश्वरी ॥ १२५॥
भयापहा भवानन्दा भयङ्करी भयनाशिनी ।
प्रभादेवी भगेशी च भाविनी भवनाशिनी ॥ १२६॥
भक्तिगम्या च भीतिघ्नी भास्करी भुवनेश्वरी ।
भक्तिवरप्रदा भव्या भ्रामरी भगमालिनी ॥ १२७॥
भक्तितुष्टा च भेरुण्डा भुक्तिदा भवतोषिणी ।
भावना भुवनेशी च भक्तीशा भवलोचना ॥ १२८॥
भास्वद्देहा च भव्यास्या भावती भवरञ्जनी ।
भूभूषणा च भूतस्था भूमिभूषणवाहिनी ॥ १२९॥
भगवती भवात्मा च भवदुःखप्रभञ्जनी ।
भीमरूपा भवभ्रान्ती भव्या भव्यार्च्चितानना ॥ १३०॥
भीमादेवी शुभा भद्रा भीमा भीमनिनादिनी ।
भूतेशी भूतधात्री च भूतस्था भूतभाविनी ॥ १३१॥
माहेश्वरी महामाया मुञ्जवदद्रिसङ्गमा ।
मशेखरी महामारी मान्या महेशनन्दिनी ॥ १३२॥
महाज्योतिर्महामेधा मायापुरीनिवासिनी ।
मातङ्गिनी मनोरूपा महाभूता च मध्यमा ॥ १३३॥
मणिपूरकमध्यस्था मोहिनी विश्वमोहिनी ।
महाधृतिर्महाकाली मदिरा मन्दितानना ॥ १३४॥
महामतिर्महासूक्ष्मा मधुमती महोदरी ।
मेनकागर्भजा मास्था मङ्गला च सुमङ्गला ॥ १३५॥
मन्दहासा महादंष्ट्रा मालिका च महोमखा ।
मदालसा मनोज्ञा च मनस्विनी मनोहरा ॥ १३६॥
मन्दाकिनी महाभद्रा मोक्षदात्री च माधवी ।
मातरा मन्त्ररूपा च मन्वमाता मणिप्रभा ॥ १३७॥
मुद्राप्रिया च मेरुस्था मन्त्रात्मिका मनोरमा ।
मृगेन्द्रादिप्रवाहा च महेशमुखसम्भवा ॥ १३८॥
मणिमतिर्महावेगा मणिमुकुटसम्भवा ।
याज्ञेया यमुना ज्येष्ठा यज्ञमाता यशस्विनी ॥ १३९॥
यज्ञाङ्गी यामरूपा च यक्षरूपा यशोमयी ।
यज्ञप्रिया च यज्ञेशा यज्ञभोक्त्री यशःप्रिया ॥ १४०॥
यशोदागर्भसञ्जाता यशःपूर्णा यशोबला ।
यादःप्रसेविता याम्या यातुधानप्रपूजिता ॥ १४१॥
योगसारा युगाद्या च योगेश्वरी अयोनिजा ।
योगीशा योगरूपा च योगीन्द्रहृदयाश्रिता ॥ १४२॥
योगिनीसेविता योग्या योगीश्वरा युगस्थिता ।
योगीश्वरास्यसम्भूता योगसिद्धा यशोमयी ॥ १४३॥
योगोद्भवा सुयोगार्या योगेन जलवाहिनी ।
रसोत्तमप्रवाहा च रुद्रहृद्रमणा रसा ॥ १४४॥
रावणभूतिदा रम्भा राजराजेश्वरी वरा ।
रसवाहा च रम्भोरू रसभोक्त्री रसप्रिया ॥ १४५॥
रागप्रिया रसज्ञा च रामा राघावतारिणी ।
रमणी राधिकाऽऽराध्या राज्यदा राज्यराजिता ॥ १४६॥
राकिणी राज्यभोक्त्री च रौद्रीनामवरप्रदा ।
रोहिणी रक्तपद्मस्था रतिज्ञा ऋद्धिरूपिणी ॥ १४७॥
रुद्रप्रिया च रुद्री च रथस्था रथगामिनी ।
रत्नाङ्गी रक्तवासा च रक्ताक्षी रक्तदन्तिका ॥ १४८॥
रत्नगृहा च रत्नस्था रत्नपद्माश्रिता रसा ।
लम्बोदरप्रसूता च मृगलाञ्छनशेखरा ॥ १४९॥
लम्बिका नलिनोल्लासा लाकिनी ललितालका ।
ललना ललज्जिह्वा च ललिता लोहिताङ्गिनी ॥ १५०॥
लम्बोदरी सुलीलाङ्गा लोलकल्लोलमालिनी ।
लक्ष्मीर्ल्लक्ष्मीप्रदा लक्ष्मा लक्षालक्षतरङ्गिणी ॥ १५१॥
लक्ष्मीरूपा च लक्ष्मीस्था लक्ष्मीलक्ष्मावधिश्रिता ।
वेणुर्वशप्रिया ब्राह्मी वल्लकीवाससः प्रिया ॥ १५२॥
बालीशा बालिका बाला ब्रह्मस्वच्छोर्मिमालिनी ।
ब्रह्मस्था ब्रह्मरूपा च ब्रह्मेशी ब्रह्मपूजिता ॥ १५३॥
ब्रह्मातीता परं ब्राह्मी ब्रह्मेशाच्युतवन्दिता ।
शिवेश्वरी शिवावाहो शाम्भकरी शिवप्रिया ॥ १५४॥
शर्वेश्वरी च शर्वाणी शान्ता शान्तप्रवाहिणी ।
शमना शक्तिरूपा च शार्ङ्गिणी सर्वमङ्गला ॥ १५५॥
शतरुद्रा शची शीता शीला शीलप्रदा शुभा ।
शीलरूपा सुशीलस्था श्रीरूपा श्रीकरी शिवा ॥ १५६॥
श्रीमयी श्रीनिवासा च श्रीमती श्रीधरार्चिता ।
श्रद्धाप्रिया सदाश्रद्धा श्रद्धात्मा च श्रुतिप्रिया ॥ १५७॥
श्रुतिप्रज्ञा शशाङ्काभा श्रुतिरूपा शुचिस्मिता ।
श्रुतिनी श्रुतिनेत्रा च श्रुतिज्ञा श्रुतिपूजिता ॥ १५८॥
षट्पत्रपद्ममध्यस्था षट्चक्राधारसंश्रिता ।
चतुःषष्टिकलोपेता षष्ठस्वरी षडङ्गिनी ॥ १५९॥
षडास्यजननी षष्ठी षडानना षरुपिणी ।
षोडशी षोडशाधारा षोडशारनिषङ्गिणी ॥ १६०॥
साक्षात्सारतरा सारा सत्त्वस्था सर्ववन्दिनी ।
सात्त्विकी सत्त्वरूपा च सर्वसत्त्वनिवासिनी ॥ १६१॥
संसारसारहा स्वाहा सुभङ्गा साररूपिणी ।
संवर्त्तान्ता निमेषादिसंवत्सरावतारिणी ॥ १६२॥
सहस्रास्या सहस्राक्षा सावित्री सारदेश्वरी ।
सर्वेश्वरी च सत्यात्मा सर्वविद्या च साकिनी ॥ १६३॥
स्मृतिमयी च सूर्यात्मा सर्ववर्णान्तसारिणी ।
सर्वेन्द्रियाश्रिता सूक्ष्मा सर्वेन्द्रियाधिशी वरा ॥ १६४॥
सिद्धात्मा सूक्ष्मरूपांशा सूक्ष्मस्था सोमभूषणा ।
सङ्ग्रामजयदा साध्वी सृष्टिस्थितिविनाशिनी ॥ १६५॥
सर्वेशा सर्वरोगघ्नी सर्वग्रहविनाशिनी ।
सदसद्रूपिणी सत्ता स्वस्तिरूपा सरस्वती ॥ १६६॥
ह्रदिनी हरवाग्जाता हरहासास्यनिःसृता ।
हृत्पद्मवासिनी हृष्टा ग्रहराक्षसनिग्रहा ॥ १६७॥
हंसस्था हंसरूपा च हंसमूर्तिर्हरप्रिया ।
हिङ्गुला हंसदेवी च हाकिनी हरवल्लभा ॥ १६८॥
हंसेश्वरी हकारात्मा हंसीगतिश्च हासिनी ।
हरवक्त्रोद्भवा हंसी हरिवन्द्या हरिप्रिया ॥ १६९॥
हेमाभा हिमवत्पुत्री हिमकोटीतपस्विनी ।
हिमाद्रितुङ्गसानोर्हि पतन्ती हिमशीकरा ॥ १७०॥
क्षोणीश्वरी क्षमारूपा क्षणदेश्वरशेखरा ।
क्षीणक्षेमङ्करी साक्षात्क्षोभिणी क्षितिवाहिनी ॥ १७१॥
क्षामोदरी क्षमा क्षीणा यक्षेश्वरी सुदक्षिणा ।
क्षेमङ्करी क्षणाभाङ्गी क्षौममाम्बरी क्षणप्रभा ॥ १७२॥
क्षेत्रज्ञा क्षेमदा क्षीणा अक्षयाक्षेयभृङ्गिणी ।
क्षेत्रस्था क्षेत्रदेहा च मोक्षदा क्षीप्रवाहिणी ॥ १७३॥
इत्येतत्कथितं नाम्नां सहस्त्रं सुरदुर्ल्लभम् ।
पुण्यात्पुण्यतरन्नाम वाग्मत्या नारदाञ्जसा ॥ १७४॥
वर्णितं त्रिदशैः पूर्वं ब्रह्मविष्णुमहेश्वरैः ।
सुधामयानि नामानि वाग्मत्या महिमानि च ॥ १७५॥
सावधानपरो विप्र पाठकानां विशेषतः ।
दूरस्थानामशक्तानां वक्ष्यामि तज्जलाप्लवम् ॥ १७६॥
एकधा पाठकस्तस्यां स्नानोद्भवफलं लभेत् ।
द्विधा च पठनात्स्नाता मनोवाञ्छाफलं लभेत् ॥ १७७॥
त्रिधा प्रपठनात्स्नात्वा भोग्यार्थी भोग्यमाप्नुयात् ।
चतुर्था पठनात्सौख्यं पञ्चधा धनमाप्नुयात् ॥ १७८॥
षड्धा पाठाद्धि कीर्तिः स्यात्प्रभुत्वं सप्तधा तथा ।
अष्टधा पठनात्सद्य ऐश्वर्यत्वं फलं लभेत् ॥ १७९॥
नवधा चैव वाक्-सिद्धिं लोकमानपुरःसराम् ।
दशधा च दिगीशत्वं एकादशाद्धरात्मकम् ॥ १८०॥
पूर्वेद्युः संयमस्तस्यां स्नानं कुर्यात्परेद्युतः ।
अन्योऽशक्तोऽपरो धीमान् यथोक्तं तत्फलं लभेत् ॥ १८१॥
दर्भपाणिः सुसङ्कल्पी यथेप्सितफलात्मकः ।
वाग्मतीजीवने स्नात्वा तदभिधानकं पठेत् ॥ १८२॥
एकधा पाठकः पापैः सांवत्सरैः प्रमुच्यते ।
एवं दशोत्तरं वृद्धिं पाठात्किल्बिषनाशनम् ॥ १८३॥
अशक्तानां प्रभूतानं भक्त्या तच्छ्रवणात्फलम् ।
अन्याभिः सङ्गमे स्नात्वा वाग्मत्यां स्याद्दशोत्तरम् ॥ १८४॥
सङ्गमे विष्णुपद्याश्च शतोत्तरं फलं लभेत् ।
मणिमतीसमाजे च सहस्रगुणितं लभेत् ॥ १८५॥
गङ्गासमाजके स्नात्वा वाग्मत्यामयुताधिकम् ।
गायत्री चैव सावित्री वाग्मती पाठकोऽपराः ॥ १८६॥
तासां समाजके स्नात्वा नियुतं फलमाप्नुयात् ।
पूर्वजन्मविपाकैश्च विविधरोगसङ्कुलः ॥ १८७॥
वाग्मत्यां स्नातकः पाठात्तत्तद्रोगैर्विमुच्यते ।
तस्यां स्नाता सकृत्पाठान्मुच्यते कृमिवध्यजैः? ॥ १८८॥
तस्यां स्नानाद्द्विधापाठात्पक्षिहत्यां व्यपोहति ।
त्रिवारपाठतः स्नातुर्मृगवधोद्भवं तथा ॥ १८९॥
चतुर्द्धा पाठकः स्नात्वा अश्वहत्यां व्यपोहति ।
पञ्चधा पाठकः स्नाता नरहत्यां व्यपोहति ॥ १९०॥
षड्धा पाठाद्धि तत्स्नातुः स्त्रीहत्या प्रविनश्यति ।
सप्तधा बालहत्या च स्नातुस्तस्यां विनश्यति ॥ १९१॥
मिथ्योक्तमष्टधा पाठादत्युत्कटं व्यपोहति ।
नवधा पाठतः स्नातुर्गोवधजो विनश्यति ॥ १९२॥
दशधा पाठतः स्नातुर्ब्रह्महत्यां व्यपोहति ।
स्वर्णस्तेयसुरापानमगम्यागमनोद्भवम् ॥ १९३॥
अभक्ष्यभक्षजं तस्यां स्नाता पाठाद्विसर्ज्जति ।
कदाचिद्दैवयोगेन हरिवासे गिरौ व्रजन् ॥ १९४॥
यत्र चासीद्रमातीर्थं सावित्री वाग्मती तथा ।
गायत्री सङ्गमे धीमान् स्नात्वा नाम पठिष्यति ॥ १९५॥
कोटिजन्मार्ज्जितं पापं त्यक्त्वा याति परां गतिम् ।
गिर्यारोहणमात्रेण अश्वमेधफलं लभेत् ॥ १९६॥
सङ्क्रान्त्यां पूर्णिमायाञ्च चतुर्द्दश्यां तथा कुहौ ।
द्वादश्यां च तृतीयायामष्टम्यां योगसंयुगे ॥ १९७॥
नाम्नां सहस्रकं पाठाद्दशोत्तरफलं लभेत् ।
आतुरो मुच्यते रोगैः कुष्ठार्त्तः कुष्ठकैर्द्रुतम् ॥ १९८॥
ज्वरार्त्तो मुच्यते रुग्भिः श्रुत्वा सहस्रनामकम् ।
प्रौढरोगप्रयुक्तोपि प्राणकण्ठाश्रिते यदा ॥ १९९॥
नाम्नां सहस्रकं श्रुत्वा परात्परां गतिं लभेत् ।
ग्रहाः प्रशमनं यान्ति क्रूरा नाम्नां प्रपाठतः ॥ २००॥
विद्यार्थी लभते विद्यां पुत्रार्थी लभते सुतम् ।
गुर्विणी सूयते पुत्रमाकर्ण्य नामपाठतः ॥ २०१॥
कुष्माण्डा राक्षसाः क्रूरा भूताः प्रेताश्च डाकिनी ।
नाम्नां पाठकमालोक्य पलायन्तेऽपमृत्यवः ॥ २०२॥
सर्वयज्ञोद्भवं पुण्यं व्रतानां चैव यत्फलम् ।
धर्माणामुपवासानां सर्वदानोद्भवं फलम् ॥ २०३॥
सर्वतीर्थोद्भवं पुण्यं प्रतिमादर्शनस्य च ।
तत्पुण्यं गुणितं लक्षं स्नात्वा च वाग्मतीजले ॥ २०४॥
सहस्रनामपाठाद्वै मोक्षं परात्परं लभेत् ॥ २०५॥
वाग्मत्या सलिले स्वकीयचरणौ संस्पृश्य रोगार्जितः
प्राणैः कण्ठगतोऽपि पामरजनो मुञ्चत्यसूंस्तत्तटे ।
सोऽन्ते योगसुगम्यमानपदवीं प्राप्नोति हृद्यं शिवं
वाञ्छन्ति त्रिदशा हि तादृशगतिं धीरा जनाः किं पुनः ॥ २०६॥
इति श्रीस्कन्दपुराणे हिमवत्खण्डे ब्रह्मनारदसंवादे वाग्मतीसहस्रनाम
चतुरशीत्यधिक शततमोऽध्यायः ॥ १८४॥