अन्य स्तोत्र

अष्टदिक्पालकस्तोत्रं

अष्टदिक्पालकस्तोत्रं

श्री इन्द्रस्तुतिः - पूर्व (East)
ऐरावतगजारूढं स्वर्णवर्णं किरीटिनम् ।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥ १॥

श्री अग्निस्तुतिः - आग्नेय (Southeast)
सप्तार्चिषं च बिभ्राणमक्षमालां कमण्डलुम् ।
ज्वालमालाकुलं रक्तं शक्तिहस्तं चकासतम् ॥ २॥

श्री यमस्तुतिः - दक्षिण (South)
कृतान्तं महिषारूढं दण्डहस्तं भयानकम् ।
कालपाशधरं कृष्णं ध्यायेत् दक्षिणदिक्पतिम् ॥ ३॥

श्री निरृत्यस्तुतिः - नैरृत्य (Southwest)
रक्तनेत्रं शवारूढं नीलोत्पलदलप्रभम् ।
कृपाणपाणिमस्रौघं पिबन्तं राक्षसेश्वरम् ॥ ४॥

श्री वरुणस्तुतिः - पश्चिम (West)
नागपाशधरं हृष्टं रक्तौघद्युतिविग्रहम् ।
शशाङ्कधवलं ध्यायेत् वरुणं मकरासनम् ॥ ५॥

श्री वायुस्तुतिः - वायव्य (Northwest)
आपीतं हरितच्छायं विलोलध्वजधारिणम् ।
प्राणभूतं च भूतानां हरिणस्थं समीरणम् ॥ ६॥

श्री कुबेरस्तुतिः - उत्तर (North)
कुबेरं मनुजासीनं सगर्वं गर्वविग्रहम् ।
स्वर्णच्छायं गदाहस्तमुत्तराधिपतिं स्मरेत् ॥ ७॥

श्री ईशानस्तुतिः - ईशान्य (Northeast)
वृषभारूढं त्रिशूलं व्यालधारिणम् ।
शरच्चन्द्रसमाकारं त्रिनेत्रं नीलकण्ठकम् ॥ ८॥

इति अष्टदिक्पालकस्तोत्रं सम्पूर्णम् ।