अन्य स्तोत्र

अष्टदिक्पालकस्तुतिः

अष्टदिक्पालकस्तुतिः

श्री इन्द्रस्तुतिः - पूर्व (East)
दैत्यदर्पविनाशाय सहस्राक्षाय धीमते ।
कुलिशव्यग्रहस्ताय नमस्तेऽस्तु शतक्रतो ॥ १॥

श्री अग्निस्तुतिः - आग्नेय (Southeast)
मुखं यस्सर्वदेवानां येन हव्यञ्च नीयते ।
येन प्रवर्तते सर्वं नमस्तस्मै हविर्भुजे ॥ २॥

श्रीयमस्तुतिः - दक्षिण (South)
येन संह्रियते सर्वं येन सर्वञ्च रक्ष्यते ।
यस्माद्बिभेति लोकोऽयं यमराज नमोऽस्तुते ॥ ३॥

श्रीनिरृत्यस्तुतिः - नैरृत्य (Southwest)
रक्षसां यातुधानानां पिशाचानाञ्च यः पतिः ।
तस्मै निरृतये तुभ्यं रक्षसां पतये नमः ॥ ४॥

श्रीवरुणस्तुतिः - पश्चिम (West)
येन प्रसूयते सर्वं यस्मिन् सर्वं प्रलीयते ।
वरुणाय जलेशाय पाशहस्ताय ते नमः ॥ ५॥

श्रीवायुस्तुतिः - वायव्य (Northwest)
आपूर्यन्ते प्रवर्तन्ते येन प्राणादिवायवः ।
भूतानामिह सर्वेषां नमस्तस्मै नभस्वते ॥ ६॥

श्रीकुबेरस्तुतिः - उत्तर (North)
यत्प्रसादात् जगत्सर्वं धनेन परिपूर्यते ।
तस्मै गुह्यकनाथाय धनेशाय नमोऽस्तुते ॥ ७॥

श्री ईशानस्तुतिः - ईशान्य (Northeast)
नमस्त्रिशूलहस्ताय लोकसंरक्षणाय ते ।
विद्यानां पतये तुभ्यमीशानाय नमो नमः ॥ ८॥

इति अष्टदिक्पालकस्तुतिः समाप्ता ।