सूर्यस्तोत्रम्
सूर्यस्तोत्रम्
देवा ऊचुः
नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुःस्वरूपरूपाय साम्नान्धामवते नमः ॥ १॥
ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिःस्वरूपाय विशुद्धायामलात्मने ॥ २॥
वरिष्ठाय वरेण्याय परस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये ॥ ३॥
इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि ॥ ४॥
न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥ ५॥
नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥ ६॥
शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद्भगवन् जगदुद्भ्रमता त्वया ॥ ७॥
भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि ॥ ८॥
क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते ॥ ९॥
तावद्यावन्न संयोगि जगदेतत् त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः ॥ १०॥
सकलानि च सामानि निपतन्ति त्वदड्गतः ।
ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः ॥ ११॥
यतः साममयश्चैव ततो नाथ ! त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च ॥ १२॥
मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु ॥ १३॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायान्तर्गता
सूर्यस्तुतिः समाप्ता ॥