लक्ष्मी स्तोत्र

श्रीलक्ष्मीस्तुतिः

श्रीलक्ष्मीस्तुतिः


जयन्ति जगतां मातुः स्तनकुङ्कुमबिन्दवः ।
मुकुन्दाश्लेषसङ्क्रान्तकौस्तुभश्रीविडम्बनः ॥ १॥

पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः ।
यत्र सङ्क्रान्तबिम्बेन हरिणा हरिणायितम् ॥ २॥

देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् ।
जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः ॥ ३॥

तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति ।
फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥ ४॥

स्मेराननेन हरिणा सस्पृहमाकारवेदिनाऽऽकलितम् ।
जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥ ५॥

कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः ।
नुतपदकमला कमला करधृतकमला करोतु मे कमलम् ॥ ६॥

किञ्जल्कराजिरिव नीलसरोजलग्ना
लेखेव काञ्चनमयी निकषोपलस्था ।
सौदामिनी जलदमण्डलगामिनीव
पायादुरःस्थलगता कमला मुरारेः ॥ ७॥

दन्तैः कोरकिता स्मितैर्विकसिता भ्रूविभ्रमैः पत्रिता
दोर्भ्यां पल्लविता नखैः कुसुमिता लीलाभिरुद्वेलिता ।
उत्तुङ्गस्तनमण्डलेन फलिता भक्ताभिलाषे हिता
काचित्कल्पलता सुरासुरनुता पायात्सुधाब्धेः सुता ॥ ८॥

उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणेः
अन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति ।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः
पश्यन्ती मुदिता मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥ ९॥

आख्याते हसितं पितामह इति त्रस्तं कपालीति च
व्यावृत्तं गुरुरित्ययं दहन इत्याविष्कृता भीरुता ।
पौलोमीपतिरत्यसूयितमथ व्रीडाविनम्रश्रिया
पायाद्वः पुरुषोत्तमोऽयमिति यो न्यस्तः स पुष्पाञ्जलिः ॥ १०॥

क्रीडाभिन्नहिरण्यशुक्तिकुहरे रक्तात्मनावस्थितान्
हारं हारमुदारकुङ्कुमरसानव्याजभव्यान्नखैः ।
वीरश्रीकुचकुम्भसीम्नि लिखतो वीरस्य पत्रावलीः
तत्कालोचित भावबन्धमधुरं मन्दस्मितं पातु वः ॥ ११॥

पद्मायाः स्तनहेमसद्मनि मणिश्रेणीसमाकर्षके
किञ्चित्कञ्चुकसन्धिसन्निधिगते शौरेः करे तस्करे ।
सद्यो जागृहि जागृहीति वलयध्वानैर्ध्रुवं गर्जता
कामेन प्रतिबोधिताः प्रहरिका रोमाङ्कुराः पान्तु वः ॥ १२॥

यादृग्जानासि जाम्बूनदगिरिशिखरे कान्तिरिन्दोः कलानां
इत्यौत्सुक्येन पत्यौ स्मितमधुरमुखाम्भोरुहं भाषमाणे ।
लीलादोलायमानश्रुतिकमलमिलद्भृङ्गसङ्गीतसाक्षी
पायादम्भोधिजायाः कुसुमशरकलानाट्यनान्दीनकारः ॥ १३॥

उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः ।
भूयस्तत्कालकान्तद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ १४॥

इति श्रीलक्ष्मीस्तुतिः समाप्ता ।