श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम्
श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम्
अस्य श्रीलक्ष्मीनृसिंहहृदय महामन्त्रस्य प्रह्लाद ऋषिः ।
श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप्छन्दः ।
मम ईप्सितार्थसिद्ध्यर्थे पाठे विनियोगः ॥
करन्यासः -
ॐ श्रीलक्ष्मीनृसिंहाय अङ्गुष्ठाभ्यां नमः ।
ॐ वज्रनखाय तर्जनीभ्यां नमः ।
ॐ महारूपाय मध्यमाभ्यां नमः ।
ॐ सर्वतोमुखाय अनामिकाभ्यां नमः ।
ॐ भीषणाय कनिष्ठिकाभ्यां नमः ।
ॐ वीराय करतलकरपृष्ठाभ्यां नमः ।
हृदयन्यासः -
ॐ श्रीलक्ष्मीनृसिंहाय हृदयाय नमः ।
ॐ वज्रनखाय शिरसे स्वाहा ।
ॐ महारूपाय शिखायै वषट् ।
ॐ सर्वतोमुखाय कवचाय हुं ।
ॐ भीषणाय नेत्रत्रयाय वौषट् ।
ॐ वीराय अस्त्राय फट् ॥
अथ ध्यानम् -
ॐ सत्यं ज्ञानेन्द्रियसुखं क्षीराम्भोनिधि मध्यगं
योगारूढं प्रसन्नास्यं नानाभरणभूषितम् ।
महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनं
श्वेताहिवासं श्वेताङ्गं सूर्यचन्द्रादि पार्श्वगम् ॥
श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ॥
अथ मन्त्रः -
ॐ नमो भगवते नरसिंहाय देवाय नमः ॥
अथ हृदयस्तोत्रम् ।
श्रीनृसिंहः परम्ब्रह्म श्रीनृसिंहः पर शिवः ।
नृसिंहः परमो विष्णुः नृसिंहः सर्वदेवता ॥ १॥
नृशब्देनोच्यते जीवः सिंहशब्देन च स्वरः ।
तयोरैक्यं शृतिप्रोक्तं यः पश्यति स पश्यति ॥ २॥
नृसिंहदेव जायन्ते लोकाः स्थावरजङ्गमाः ।
नृसिंहेनैव जीवन्ति नृसिंहे प्रविशन्ति च ॥ ३॥
नृसिंहो विश्वमुत्पाद्य प्रविश्य तदनन्तरम् ।
राजभिक्षुस्वरूपेण नृसिंहस्य स्मरन्ति ये ॥ ४॥
नृसिंहात् परमं नास्ति नृसिंहं कुलदैवतम् ।
नृसिंहभक्ता ये लोके ते ज्ञानिनमितीरिताः ॥ ५॥
विरक्ता दयया युक्ताः सर्वभूतसमेक्षणाः ।
न्यस्त संसार योगेन नृसिंहं प्राप्नुवन्ति ते ॥ ६॥
माहात्म्यं यस्य सर्वे अपि वदन्ति निगमागमाः ।
नृसिंहः सर्वजगतां कर्ता भोक्ता न चापरः ॥ ७॥
नृसिंहो जगतां हेतुः बहिर्याया अवलम्बनः ।
मायया वेदितात्मा च सुदर्शनसमाक्षरः ॥ ८॥
वासुदेवो मयातीतो नारायणसमप्रभ ।
निर्मलो निरहङ्कारो निर्माल्यो यो निरञ्जनः ॥ ९॥
सर्वेशां चापि भूतानां हृदयाम्भोजवासकः ।
अतिश्रेष्ठः सदानन्दो निर्विकारो महामतिः ॥ १०॥
चराचरस्वरूपी च चराचरनियामकः ।
सर्वेश्वरः सर्वकर्ता सर्वात्मा सर्वगोचरः ॥ ११॥
नृसिंह एव यः साक्षात् प्रत्यगात्मा न संशयः ।
केचिन्मूढा वदन्त्येवमवतारमनीश्वरम् ॥ १२॥
नृसिंह परमात्मानं सर्वभूतनिवासिनम् ।
तस्य दर्शनमात्रेण सूर्यस्यालोकवद्भवेत् ॥ १३॥
सर्वं नृसिंह एवेति सङ्ग्रहात्मा सुदुर्लभः ।
नारसिंहः परं दैवं नारसिंहो जगद्गुरुः ॥ १४॥
नृसिंहेति नृसिंहेति प्रभाते ये पठन्ति च ।
तेषां प्रसन्नो भगवान् मोक्षं सम्यक् प्रयच्छति ॥ १५॥
ॐकारेभ्यश्च पूतात्मा ॐकारैक प्रबोधितः ।
ॐकारो मन्त्रराजश्च लोके मोक्षप्रदायकः ॥ १६॥
नृसिंहभक्ता ये लोके निर्भया निर्विकारकाः ।
तेशां दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १७॥
सकारो जीववाची स्यादिकारः परमेश्वरः ।
हकाराकारयोरैक्यं महावाक्यं ततो भवेत् ॥ १८॥
ॐकारजा प्रेतमुक्तिः काश्यां मरणं तथा ।
नृसिंह स्मरणादेव मुक्तिर्भवति नान्यथा ॥ १९॥
तस्मात्सर्वप्रयत्नेन मन्त्रराजमिति ध्रुवम् ।
सर्वेषां चापि वेदानां देवतानां तथैव च ॥ २०॥
सर्वेषां चापि शास्त्राणां तात्पर्यं नृहरौ हरौ ।
श्रीरामतापनीयस्य गोपालस्यापि तापिनः ॥ २१॥
नृसिंहतापनीयस्य कलां नार्हति शोडशीम् ।
श्रीमन् मन्त्रमहाराज नृसिंहस्य प्रसादतः ॥ २२॥
श्रीनृसिंहो नमस्तुभ्यं श्रीनृसिंहः प्रसीद मे ।
नृसिंहो भगवान्माता श्रीनृसिंहः पिता मम ॥ २३॥
नृसिंहो मम पुत्रश्च नरकात्त्रायते यतः ।
सर्वदेवात्मको यश्च नृसिंहः परिकीर्तितः ॥ २४॥
अश्वमेधसहस्राणि वा जपेय शतानि च ।
काशी रामेश्वरादीनि फलान्यपि निशम्य च ॥ २५॥
यावत्फलं समाप्नोति तावदाप्नोति मन्त्रतः ।
शण्णवत्यश्च करणी यावती तृप्तिरिष्यते ॥ २६॥
पितॄणां तावती प्रीतिः मन्त्रराजस्य जायते ।
अपुत्रस्य गतिर्नास्ति इति स्मृत्या यदीरितम् ॥ २७॥
तत्तु लक्ष्मीनृसिंहस्य भक्तिमात्रावगोचरम् ।
सर्वाणि तर्कमीमांसा शास्त्राणि परिहाय वै ॥ २८॥
नृसिंह स्मरणाल्लोके तारकं भवतारकम् ।
अपार भववाराब्धौ सततं पततां नृणाम् ॥ २९॥
नृसिंह मन्त्रराजोऽयं नाविको भाष्यते बुधैः ।
यमपाशेन बद्धानां पङ्गुं वै तिष्ठतां नृणाम् ॥ ३०॥
नृसिंह मन्त्रराजोऽयं ऋषयः परिकीर्तितः ।
भवसर्पेण दंष्ट्राणां विवेकगत चेतसाम् ॥ ३१॥
नृसिंह मन्त्रराजोऽयं गारुडोमन्त्र उच्यते ।
अज्ञानतमसां नृणामन्धवद्भ्रान्तचक्षुषाम् ॥ ३२॥
नृसिंहमन्त्रराजोऽयं प्रयासं परिकीर्तितः ।
तापत्रयाग्नि दग्धानां छाया संश्रयमिच्छताम् ॥ ३३॥
नृसिंहमन्त्रराजश्च भक्तमानसपञ्जरम् ।
नृसिंहो भास्करो भूत्वा प्रकाशयति मन्दिरम् ॥ ३४॥
वेदान्तवन मध्यस्था हरिणी मृग इष्यते ।
नृसिंह नीलमेघस्य सन्दर्शन विशेषतः ॥ ३५॥
मयूरा भक्तिमन्तश्च नृत्यन्ति प्रीतिपूर्वकम् ।
अन्यत्र निर्गता वाला मातरं परिलोकय ॥ ३६॥
यथा यथा हि तुष्यन्ते नृसिंहस्यावलोकनात् ।
श्रीमन् नृसिंह पादाब्जं नत्वारङ्ग प्रवेशिता ॥ ३७॥
मदीय बुद्धिवनिता नटी नृत्यति सुन्दरी ।
श्रीमन् नृसिंह पादाब्ज मधुपीत्वा मदोन्मदः ॥ ३८॥
मदीया बुद्धिमालोक्य मूढा निन्दन्ति माधवम् ।
श्रीमन् नृसिंहपादाब्जरेणुं विधिसुभक्षणम् ॥ ४०॥
मदीयचित्तहंसोऽयं मनोवश्यं न याति मे ।
श्रीनृसिंहः पिता मह्यं माता च नरकेसरी ॥ ४१॥
वर्तते ताभुवौ नित्यं रौवहं परियामि वै ।
सत्यं सत्यं पुनः सत्यं नृसिंहः शरणं मम ॥ ४२॥
अहोभाग्यं अहोभाग्यं नारसिंहो गतिर्मम ।
श्रीमन् नृसिंह पादाब्ज द्वन्द्वं मे हृदये सदा ॥ ४३॥
वर्ततां वर्ततां नित्यं दृढभक्तिं प्रयच्छ मे ।
नृसिंह तुष्टो भक्तोऽयं भुक्तिं मुक्तिं प्रयच्छति ॥ ४४॥
नृसिंहहृदयं यस्तु पठेन्नित्यं समाहितः ।
नृसिंहत्वं समाप्नोति नृसिंहः संप्रसीदति ॥ ४५॥
त्रिसन्ध्यं यः पठेन्नित्यं मन्दवारे विषेशतः ।
राजद्वारे सभास्थाने सर्वत्र विजयी भवेत् ॥ ४६॥
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
इह लोके शुभान् कामान् परत्र च पराङ्गितम् ॥ ४७॥
॥ इति भविष्योत्तरपुराणे प्रह्लादकथितं
श्रीलक्ष्मीनृसिंहहृदयस्तोत्रं सम्पूर्णम् ॥