श्रीलक्ष्मीहयग्रीवपञ्चरत्नम्
श्रीलक्ष्मीहयग्रीवपञ्चरत्नम्
ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा
सीमातीतात्मभूमा मम हयवदना देवता धावितारिः ।
याता श्वेताब्जमध्यं प्रविमलकमलस्रग्धरादुग्धराशिः
स्मेरा सा राजराजप्रभृतिनुतिपदं सम्पदं संविधत्ताम् ॥ १॥
ताराताराधिनाथस्फटिकमणिसुधाहीरहाराभिरामा
रामा रत्नाब्धिकन्याकुचलिकुचपरीरम्भसंरम्भधन्या ।
मान्याऽनन्यार्हदास्यप्रणतततिपरित्राणसत्नात्तदीक्षा
दक्षा साक्षात्कृतैषा सपदि हयमुखी देवता साऽवतान्नः ॥ २॥
अन्तर्ध्वान्तस्य कल्यं निगमहृदसुरध्वंसनैकान्तकल्यं
कल्याणानां गुणानां जलधिमभिनमद्बान्धवं सैन्धवास्यम् ।
शुभ्रांशु भ्राजमानं दधतमरिदरौ पुस्तकं हस्तकञ्जैः
भद्रां व्याख्यानमुद्रामपि हृदि शरणं याम्युदारं सदारम् ॥ ३॥
वन्दे तं देवमाद्यं नमदमरमहारत्नकोटीरकोटी-
वाटीनियत्ननिर्यद्घृणिगणमसृणीभूतपादांशुजातम्।
श्रीमद्रामानुजार्यश्रुतिशिखरगुरुब्रह्मतन्त्रस्वतन्त्रैः
पूज्यं प्राज्यं सभाज्यं कलिरिपुगुरुभिश्शश्वदश्वोत्तमाङ्गम् ॥ ४॥
विद्या हृद्याऽनवद्या यदनघकरुणासारसारप्रसारात्
धीराधाराधरायामजनि जनिमतां तापनिर्वापयित्री ।
श्रीकृष्ण ब्रह्मतन्त्रादिमपदकलिजित्संयमीन्द्रार्चितं तत्
श्रीमद्धामातिभूम प्रथयतु कुशलं श्रीहयग्रीवनाम ॥ ५॥
इति श्रीकृष्णब्रह्मतन्त्रपरकालमहादेशिककृतिषु
श्रीलक्ष्मीहयग्रीवपञ्चरत्नं नाम स्तोत्रं समाप्तम् ॥