लक्ष्मी स्तोत्र

महालक्ष्मीचतुर्विंशतिनामस्तोत्रम्

महालक्ष्मीचतुर्विंशतिनामस्तोत्रम्


नमःश्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः ।
नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ॥

प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः ।
नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः ॥

विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमो नमः ।
पक्वबिल्वफलापीनतुञ्गस्तन्यै नमो नमः ॥

सुरक्तपद्मपत्राभकरपादतले शुभे ।
सरत्नाञ्गदकेयूरकाङ्चीनूपुरशोभिते ॥

यक्षकर्दमसंलिप्तसर्वाञ्गे कटकोज्ज्वले ।
माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ॥

ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे ।
पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ॥

ऋग्यजुस्सामरूपायै विद्यायै ते नमो नमः ।
प्रसीदास्मान् कृपादृष्टिपातैरालोकयाब्धिजे ॥

ये स्थानहीनाः स्वस्थानात् श्रुत्वा स्थानमवाप्नुयुः ।

इति श्रीवेङ्कटेशमहिषी महालक्ष्मीचतुर्विंशतिनामस्तोत्रम् ॥