लक्ष्मी स्तोत्र

लक्ष्मीहयग्रीवप्राबोधिकस्तुतिः

लक्ष्मीहयग्रीवप्राबोधिकस्तुतिः


ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥

विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ १॥

प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।
वक्त्री वेदान्भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ २॥

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमान्हिकम् ॥ ३॥

वीर सौम्य विबुध्यस्व कौसल्यानन्दवर्धन ।
जगद्धिसर्वं स्वपिति त्वयि सुप्ते नरोत्तम ॥ ४॥

यामिन्यपैति यदुनायक मुञ्च निद्रा-
मुन्मेषपृच्छति नवोन्मिषितेन विश्वम् ।
जातस्स्वयं खलु जगद्धितमेव कर्तुं
धर्मप्रवर्तनधिया धरणीतलेऽस्मिन् ॥ ५॥

सुखाय सुप्रातमिदं तवास्तु जगत्पते जागृहि नन्दसूनो ।
अम्भोजमन्तश्शयमञ्जुतारारोलम्बमुन्मीलतु लोचनं ते ॥ ६॥

करुणावरुणालयाम्बुजश्रीस्फुरणाहङ्कृतिहारिलोचनश्रीः ।
चरणाब्जनतार्तिभारहारिंस्तव भूयातुरगास्य सुप्रभातम् ॥ १॥

पुरःप्रबुद्धाम्बुधिराजकन्यामुखाब्जनिश्वासमिवानुकुर्वन् ।
मरुत्सुगन्धिः प्रतिवाति मन्दं हयाननस्तात्तव सुप्रभातम् ॥ २॥

त्वद्दीप्तया प्रविमलया जितः
किलासावाहोस्वित्तव दयितामुखाम्बुजेन ।
पाश्चात्ये पतति पयोनिधौ
सुधांशुर्भूयात्ते सपदि हयास्य सुप्रभातम् ॥ ३॥

वरदानकृतिन् स्मरदार्ततरद्विरदाघहृतिस्फुरदादरण ।
इति सन्मतयो यतयः प्रवदन्त्यधुना मधुनाशन जागृहि भोः ॥ ४॥

समर्चने ते कृतकौतुकेन सजीकृतं शोणमणीन्द्रपीठम् ।
हंसेन किं सान्ध्यमहो विभाति हयास्य भूयात्तव सुप्रभातम् ॥ ५॥

हरिर्हरिर्हरिरिति मञ्जुभाषितं द्विजावलेस्सपदि निशम्य कौतुकात् ।
द्विजव्रजोऽप्यनुवदतीव कूजितैर्हयाननानघगुण जागृहि प्रभो ॥ ६॥

प्राचीं वधू सपदि मित्रकरग्रहार्थं
सन्ध्यावधूस्स्वरुचिकुङ्कुमपङ्कसान्दैः ।
प्रालेयमङ्गलजलैरभिषिञ्चतीव
श्रीमन् हयास्य भवतात्तव सुप्रभातम् ॥ ७॥

कुमुदवनं विमुच्य नवपङ्कजषण्डमिमाः ।
सपदि समाश्रयन्ति मुदिता भ्रमरावलयः ॥

भुवि निखिलोऽपि चाश्रयति सश्रियमेव जनो ।
हयवदनाद्य जागृहि हरे करुणैकनिधे ॥ ८॥

फुल्लत्पङ्कजरत्नपात्रनिवहानासाद्य हृद्यश्रियः
सौगन्ध्याढ्यमरन्ददिव्यसलिलैरापूरितानादरात् ।
हंसास्त्वामिव पूजयन्ति विरुतव्याजात्पठन्तो मनून्
सुस्नातास्सरसीषु वाहमुख ते सुप्रातरस्तु प्रभो ॥ ९॥

उच्चलन्मधुकरौघमञ्जुलं पद्ममुल्लसति पूजनाय ते ।
धूपपात्रमिव हंससज्जितं सुप्रभातमिह ते हयानन ॥ १०॥

इन्दीवराणामिव कान्तिरद्य मन्दीभवन्ती व्यपयातु निद्रा ।
फुल्लत्विदं पद्ममिवाक्षियुग्मं हयास्य ते सम्प्रति सुप्रभातम् ॥ ११॥

एते, वेत्रहतित्रुटत्पटुमहाकोटीरकोटीमणि-
श्रेणीभिस्तव मन्दिरस्य ददतो द्वाराय नीराजनम् ।
काक्षन्ति प्रतिबोधकालमिह ते सर्वेऽपि लोकाधिपाः
तानेतान्करुणावलोकनलवैर्धन्यान्विधेहि प्रभो ॥ १२॥

अक्षीणे मयि तिष्ठ किं विहरसे सङ्क्षीयमाणे मुहु-
र्बिम्बेऽस्मिन्निति देवदेव नितरां त्वत्प्रार्थनायागतम् ।
चान्द्रम्बिम्बमिदं वदन्ति हि परं मोदार्पणं दर्पणं
दृष्टिं न्यस्य कृपानिधेऽत्र भगवन्प्राबोधिकीं श्रीपते ॥ १३॥

निद्राशेषकषायितैस्सुललितैरुद्यद्दयाप्यायितै-
र्दिव्यापाङ्गझरैस्त्वदर्चनकृते द्वार्यत्र बद्धाञ्जलीन् ।
आचार्यान्निगमान्तदेशिकमुखानाधत्स्व सुस्नापितान् ।
सुप्रातं तुरगास्य तेऽस्तु करुणासिन्धो दिनं श्रीपते ॥ १४॥

इदं कुम्भद्वन्द्वं घुसृणमसृणस्मेरसलिलम्
प्रतीहारे लक्ष्मीस्तनयुगमनोहारि लसति ।
इयं गौस्सद्वत्सा परिजनसमूहोऽपि निभृतो
दिनं सुप्रातं ते भवतु करुणाब्धे हयमुख ॥ १५॥

रविमण्डलीमिदानीमुदयमहीभृत्तवाभिषेकार्थम् ।
कनककलशीमिव वहत्यस्तु हयग्रीव सुप्रभातं ते ॥ १६॥

अनुचित इव सेवने त्वदीये प्रमदभरादिह पञ्चमं विहाय ।
विदधति किल वैणिकाश्च गान हयवदनाद्य तवास्तु सुप्रभातम् ॥ १७॥

पिकनिकरमदविधूननगानमनोहरमुदारसुकुमारम् ।
धन्यं कन्याद्वन्द्वं त्वां नीराजयति जागृहि हयास्य ॥ १८॥

काहलडिण्डिममण्डलमर्दलपणवाद्यहृद्यवाद्यानाम् ।
संस्पर्ध एव निनदा जृम्भन्ते तुरगवदन बुध्यस्व ॥ १९॥

तव तनुरुचिसाधर्म्यात्संहृष्टे नर्तनं किलातनुतः ।
द्वारभुवि चामरे द्वे हयवदन तवास्तु सुप्रभातमिह ॥ २०॥

त्वत्पादाम्भोजयुग्मं परिचरितुमना मूर्ध्नि बद्धाञ्जलिस्सन्
श्रीकृष्णब्रह्मतन्त्राग्रिमपदकलिजित्संयमी त्वां स्तवीति ।
त्वत्सेवायै समुद्यन्निरवधिकमहानन्दथुस्तिष्ठतीह
श्रीमान्कृष्णावनीन्द्रो हयवदन तव श्रीश सुप्रातरस्तु ॥ २१॥

जयजय नित्यसूक्तिललनामणिमौलिमणे
जयजय भक्तसंहतिभवाब्धिमहातरणे ।
जयजय वेदमौलिगुरुभाग्यदयाजलधे
जयजय वाजिवक्त्र परकालयतीन्द्रनिधे ॥ २२॥

इति श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रकृतिषु
श्रीहयग्रीवप्राबोधिकस्तुतिस्समाप्ता ॥