कृष्ण स्तोत्र

सुदर्शनकवचम्

सुदर्शनकवचम्


श्रीकृष्णाय नमः ॥ श्रीगोपीजनवल्लभाय नमः ॥

अथ विनियोगः
ॐ अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायणऋषिः ।
श्रीसुदर्शनो देवता ॥ गायत्री छन्दः ॥ दुष्टं दारयतीति कीलकम् ॥

हन हन द्विष इति बीजम् ॥

सर्वशत्रुक्षयार्थे सुदर्शनस्तोत्रपाठे विनियोगः ॥

अथ न्यासः
ॐ नारायणऋषये नमः शिरसि ॥

ॐ गायत्री छन्दसे नमः मुखे ॥

ॐ दुष्टं दारयतीति कीलकाय नमः हृदये ॥

ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः गुह्ये ॥

ॐ सुदर्शने ज्वलत्पावकसङ्काशेति कीलकाय नमः सर्वाङ्गे ॥

इति ऋष्यादिः ॥

अथ हृदयादिन्यासः
ॐ नारायणऋषये नमः अङ्गुष्ठाभ्यां नमः ॥

ॐ गायत्रीछन्दसे नमः तर्जनीभ्यां नमः ।
ॐ दुष्टं दारयतीति कीलकाय नमः मध्यमाभ्यां नमः ॥ -
ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः अनामिकाभ्यां नमः ॥

ॐ सर्वशत्रुक्षयार्थे श्रीसुदर्शनदेवतेति
करतल-करपृष्ठाभ्यां नमः ॥

ॐ नारायणऋषये नमः हृदयाय नमः ॥

ॐ गायत्रीछन्दसे नमः शिरसे स्वाहा ॥

ॐ दुष्टं दारयतीति कीलकाय नमः शिखायै वषट् ॥

ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः कवचाय हुम् ॥

ॐ सुदर्शन ज्वलत्पावकसङ्काशेति नेत्रत्रयाय वौषट् ॥

ॐ सर्वशत्रुक्षयार्थे सुदर्शनदेवतेति अस्त्राय फट् ॥

इति न्यासं विधाय ध्यानं कुर्यात् ।
अथ ध्यानम् ।
सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् ।
ज्वलत्पावकसङ्काशं सर्वशत्रुविनाशनम् ॥ १॥

कृष्णप्राप्तिकरं शश्वद्भक्तानां भयभञ्जनम् ।
सङ्ग्रामे जयदं तस्माद्ध्यायेदेवं सुदर्शनम् ॥ २॥

अथ मन्त्रः -
ॐ ह्रां ह्रीं ह्र्रूं नमो भगवते भो भो सुदर्शनचक्र
दुष्टं दारय दारय
दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु हुं फट् स्वाहा ॥

अथ सुदर्शन-कवचम् ।
श्री कृष्णाय नमः ॥ श्रीगोपीजनवल्लभाय नमः ॥

ॐ वैष्णवानां हि रक्षार्थं श्रीवल्लभनिरूपितः ।
सुदर्शनमहामन्त्रो वैष्णवानां हितावहः ॥ १॥

यन्त्रमध्ये निरूप्यन्ते चक्राकारं च लिख्यते ।
उत्तरागर्भरक्षा च परीक्षितहिते रतः ॥ २॥

ब्रह्मास्त्रवारणं चैव भक्तानां भयभञ्जनः ।
वधं च दुष्टदैत्यानां खण्डं खण्डं च कारकः ॥ ३॥

वैष्णवानां हितार्थाय चक्रं धारयते हरिः ।
पीताम्बरः परब्रह्म वनमाली गदाधरः ॥ ४॥

कोटिकन्दर्पलावण्यो गोपिकाप्राणवल्लभः ।
श्रीवल्लभः कृपानाथो गिरिधृक् शत्रुमर्दनः ॥ ५॥

दावाग्निपानकर्ता च गोपीभयनिवारकः ।
गापालो गोपकन्याभिः समावृत्तोऽधितिष्ठते ॥ ६॥

व्रजमण्डलप्रकाशी च रामकृष्णजगन्मयः ।
गो-गोपिकासमाकीर्णो वेणुवादनतत्परः ॥ ७॥

कामरूपी कलावांश्च कामिन्यां कामदो विभुः ।
मन्मथो मथुरानाथो माधवो मकरध्वजः ॥ ८॥

श्रीधरः श्रीकरश्चैव श्रीनिवासः सतां गतिः ।
भुक्तिदो मुक्तिदो विष्णुर्भूधरो भूतभावनः ॥ ९॥

सर्वदुःखहरो वीरो दुष्टदैत्यविनाशकः ।
श्रीनृसिंहो महाविष्णुः श्रीनिवासः सतां गतिः ॥ १०॥

चिदानन्दमयो नित्यः पूर्णब्रह्मसनातनः ।
कोटिभानुप्राकाशी च निश्चितार्थस्वरूपकः ॥ ११॥

भक्तप्रियः पद्मनेत्रो भक्तानां वाञ्छितप्रदः ।
हृदि कृष्णो मुखे कृष्णो नेत्रे कृष्णश्च कर्णयोः ॥ १२॥

भक्तिप्रियश्च श्रीकृष्णः सर्वं कृष्णमयं जगत् ।
कालमृत्युयमाहूतं भूतप्रेतो न दृश्यते ॥ १३॥

पिशाचा राक्षसाश्चैव हृदि रोगाश्च दारुणाः ।
भूचराः खेचराः सर्वे डाकिनी शाकिनी तथा ॥ १४॥

नाटकं चेटकं चैव छलं छिद्रं न दृश्यते ।
अकाले मरणं तस्य शोकदुःखं न लभ्यते ॥ १५॥

सर्वविघ्नं क्षयं याति रक्ष मे गोपिकाप्रिय ।
भयदावाग्निचौराणां विग्रहे राजसङ्कटे ॥ १६॥

व्याल-व्याघ्र-महाशत्रु-वैरिबन्धो न लभ्यते ।
आधिव्याधिहरश्चैव ग्रहपीडा-विनाशनम् ॥ १७॥

इमे सप्तशश्लोका यन्त्रमध्ये च लिख्यते ।
वंशवृद्धिर्भवेत्तस्य श्रोता च फलमाप्नुयात् ॥ १८॥

कृष्णाष्टमीं समारभ्य यावतकृष्णाष्टमी भवेत् ।
देवं ध्यात्वा जपेन्मत्रमयुतानां चतुष्टयम् ॥ १९॥

वैष्णवानां हि रक्षार्थं वैष्णवानां हिताय च ।
सुदर्शनमहामन्त्रो लभते जयमङ्गलम् ।
सर्वपापहर कृष्ण त्वामहं शरणं गतः ॥ २०॥

इति श्रीमद्वल्लभाचार्यचरणविरचितं श्रीसुदर्शनकवचं सम्पूर्णम् ।