हनुमत्कवचं
हनुमत्कवचं
॥ हनुमत्कवचं ॥
गन्धमादनशैलस्य पुण्यस्योपरिसंस्थितम् ।
सुखासीनं ब्रह्मपुत्रं वसिष्ठमिष्टुमिच्छति ॥ १॥
वालखिल्यादयो देवा सदेवौघा महर्षयः ।
आभ्यागम्य वसिष्ठं तं नमस्कृत्य यथाक्रमम् ॥ २॥
पूजिता ऋषयः सर्वे तमूचुः प्रियपूर्वकम् ।
हे ब्रह्मन्याचितोऽस्माकं तमेवार्थं शुभप्रदम् ॥ ३॥
अस्मिन्पूर्वं हनुमते विक्रमं जगदुत्तमम् ।
त्वामृते कः समर्थोऽत्र हनुमत्कवचं शुभम् ॥ ४॥
विख्यातानि सहस्राणि नामानि विविधानि च ।
कवचं रामचन्द्रो वै अजपत्परमादरात् ॥ ५॥
एवं ब्रह्मात्मजं ब्रह्मन्नेतावत्कथयस्व नः ।
कानि नामानि किं छन्दः को ऋषिः किं च देवता ॥ ६॥
को मन्त्रः केन दिग्बन्धः को विधिः किं फलं शुभम् ।
सर्वं कथय मे ब्रह्मन्कवचेन समन्वितम् ॥ ७॥
इत्युक्तो मुनिवाक्यं तु सावधानेन सर्वतः ।
श्रुत्वा वचो वसिष्ठस्तु विस्मितः परमो ऋषिः ॥ ८॥
भवन्त एव सर्वज्ञास्त्रिकालज्ञा जगत्त्रये ।
मदनुग्रह एवैष यां ब्रूहि परमर्षयः ॥ ९॥
एतत्प्रश्नं महापुण्यं रहस्यं परमाद्भुतम् ।
कथयामि मुनिश्रेष्ठ तत्पृष्टोऽहमशेषतः ॥ १०॥
शृणुध्वं हि यथा पूर्वं यथा पूर्वं सुविस्तरात् ।
वसिष्ठ उवाच
हरिः ॐ ॥
॥ विनियोगः ॥
अस्य श्रीहनुमद्दिव्यकवचस्तोत्रमन्त्रस्य अनुष्टुप्छन्दः ।
श्रीराम ऋषिः । श्रीहनुमान्देवता । आञ्जनेयेतिशक्तिः ।
वातात्मजेति दैवतं बीजं । श्रीहनुमानिति मन्त्रः ।
मर्कटराडिति कीलकं । वज्रकायेति कवचं ।
बलवानिति योनिः । दंष्ट्रायुधेति अस्त्रं ।
॥ हृदयादि न्यासः ॥
अञ्जनीसूनवे नमः इति हृदये ।
रुद्ररूपाय नमः शिरसे स्वाहा ।
वायुसुतायेति शिखायै वषट् ।
अग्निगर्भाय नमः कवचाय हुं ।
रामदूताय नमः नेत्रत्रयाय वौषट् ।
ब्रह्मास्त्रस्तम्भनायेति अस्त्राय फट् ॥
॥ अथ ध्यानम् ॥
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पाऽपहं
देवेन्द्रप्रमुखं समस्तयशसं देदीप्यमानं रुचा ।
सुग्रीवादि समस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ ११॥
॥ अथ कवचम् ॥
प्राच्यां वज्रतनुः पातु आग्नेय्यामग्निनाजितः ।
याम्यां पात्वञ्जनीपुत्रो शोकघ्नः पिङ्गलेक्षणः ॥ १२॥
नैरृत्यां पातु दैत्यघ्नो वारुण्यामब्धिलङ्घनः ।
वायव्यां वायुजः पातु प्रयत्नेनोत्तरादिशः ॥ १३॥
पातु लक्ष्मणशोकघ्नो गमनः सर्वदा महान्।
ऐशान्यामीशसं पातु पातु यत्नेन नान्यथा ॥ १४॥
ऊर्ध्वमूर्धाऽऽत्मनः पातु अधः पातालसाधकः ॥ १५॥
॥ मन्त्रः ॥
ॐ श्रीहनुमते महापराक्रमाय सर्वकार्याणि इमानि मम
साधय ह्रूं ह्रूं फट् स्वहा ॥
त्रिशिरोघ्नः शिरः पातु भालं भालेक्षणः प्रभुः ।
कर्णौ पात्विप्रकर्णस्यास्तथाक्षिण्यक्षसंहरः ॥ १६॥ ?
हनुमान्मे हनू पातु नासिकां घ्रमनासिजित् । ?
चतुर्वक्त्रहरो वक्त्रं पातु दन्तानि सर्वदा ॥ १७॥
शूलदंष्ट्राजितः पातु जिह्वायां दैत्यजिह्वहा ।
भुजौ भुजायुधः पातु स्कन्धौ मे सन्धिकारकः ॥ १८॥
अङ्गुलीः पातु रामस्य वर्णाङ्गुलियधारकः ।
नखान्नखायुधः पातु स्कंकिनीभञ्जतस्तनौ ॥ १९॥ ?
वक्षः पात्वश्मवक्षःघ्नो महोदरहरोदरम् ।
केसरीनन्दनो मध्यं पातु पूर्वं प्रयत्नतः ॥ २०॥
नाभिं पातु सदा पद्मनाभश्च निजशक्तिमान्।
पृष्ठं पातु रणे पृष्ठं नादेयः सर्वदा हितः ॥ २१॥
गुदं रक्तगुदः पातु गुह्यं गुह्यस्त्वलिङ्गकः ।
ऊरू पात्वहितस्योरुभञ्जनो ग्रामसत्वरः ॥ २२॥
स्थूलं जङ्घाख्यसंहारः पातु मे जङ्घयोर्द्वयोः ।
दैत्यानां शीर्षविन्यस्तपादः पात्वनिशं पदौ ॥ २३॥
यत्नेन सर्वकर्माणि मर्मज्ञः पातु सर्वदा ।
रक्तरोमाह्वयध्वंसी रोमकूपानि पातु मे ॥ २४॥
अन्हि पात्वहितावध्यः रात्रौ रात्रिजयाधिकः ।
स न्ध्यां सन्धानकारण्यां रामायानीय दत्तवान्।
सङ्ग्रामे तु महामोहान्सर्वदा सर्वतो जय ॥ २५॥
जले ग्रहहरः पातु वने लङ्कावनान्तकृत् ।
स्थले भीमाग्रजः पातु गिरौ गिरिवनेश्वरः ॥ २६॥
सङ्ग्रामे बलवान्पातु अग्नौ लङ्काविदाहकः ।
गृहे मां पातु सर्वत्र कदलीवनमन्दिरः ॥ २७॥
हनुमत्कवचं यस्तु पठेद्विद्वान्विचक्षणः ।
तत्फलं पुरतः सर्वं वक्ष्यामीह मुनीश्वर ॥ २८॥
इति श्रीसुदर्शनसंहितायां हनुमन्कवचं सम्पूर्णम् ॥