गुरु स्तोत्र

श्रीगुरुपरम्परा

श्रीगुरुपरम्परा


॥ श्रीः ॥

श्रीमते रामानुजाय नमः
श्रीमते वेदान्तमहागुरवे नमः
श्रीमते रामानुजाय नमः । श्रीलक्ष्मीनृसिंह परब्रह्मणे नमः ।
अस्मद्गुरुभ्यो नमः । अस्मत्परमगुरुभ्यो नमः ।
अस्मत्सर्वगुरुभ्यो नमः । श्रीमते वेदान्तगुरवे नमः ।
श्रीमते रामानुजाय नमः । श्रीपराङ्कुशदासाय नमः ।
श्रीमद्यामुनमुनये नमः । श्रीराममिश्राय नमः ।
श्रीपुण्डरीकाक्षाय नमः । श्रीमते नाथमुनये नमः ।
श्रीमते शठकोपाय नमः । श्रीविष्वक्सेनाय नमः ।
श्रीश्रियै नमः । श्रीधराय नमः ॥


अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून् ।
श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णं मुनीनां मुनिम् ॥ १॥

रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेषिणम् ।
सेनेशं श्रियमिन्दिरासहचरं नारायणं संश्रये ॥ २॥

सर्वदेशदिशाकालेष्वव्याहतपराक्रमः ।
रामानुजार्यदिव्याज्ञा वर्धतामनुवर्धताम् ॥ ३॥

रामानुजार्यदिव्याज्ञा प्रतिवासरमुज्ज्वला ।
दिगन्तव्यापिनी भूयात्सा हि लोकहितैषिणी ॥ ४॥

श्रीमन् श्रीरङ्गश्रियमनुपद्रवामनुदिनं संवर्धय ।
नमो रामानुजार्याय वेदान्तार्थप्रदायिने ॥ ५॥

आत्रेयपद्मनाभार्यसुताय गुणशालिने ।
रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ॥

श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥ ६॥

लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ७॥

यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतो सदयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ८॥

माता पिता युवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं
श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ९॥

भूतं सरश्च महदाह्वय भट्टनाथ
श्रीभक्तिसारकुलशेखरयोगिवाहान् ।
भक्ताङ्घ्रिरेणुपरकालयतीन्द्रमिश्रान्
श्रीमत्पराङ्कुशमुनिं प्रणतोऽस्मि नित्यम् ॥ १०॥

गुरुमुखमनधीत्य प्राह वेदानशेषान्
नरपतिपरिक्लृप्तं शुल्कमादातुकामाः ।
श्वशुरममरवन्द्यं रङ्गनाथस्य साक्षात्
द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ ११॥

इति श्रीगुरुपरम्परा ॥