श्रीगुरुकवचम्
श्रीगुरुकवचम्
॥ अथ पुरश्चरणरसोल्लासे ईश्वरदेवीसंवादे श्रीगुरुकवचम् ॥
पूर्वपीठिका
॥ श्रीईश्वर उवाच ॥
शृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ॥ १॥
अद्य प्रभृति कस्यापि न ख्यातं कवचं मया ।
देशिकाः बहवः सन्ति मन्त्रसाधनतत्पराः ॥ २॥
न तेषां जायते सिद्धिः मन्त्रैर्वा चक्रपूजनैः ।
गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः ।
वृथाश्रमो भवेत् तस्य न सिद्धिर्मन्त्रपूजनैः ॥ ३॥
गुरुपादं पुरस्कृत्य प्राप्यते कवचं शुभम् ।
तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति तत्क्षणात् ।
सुगोप्यं तु प्रजप्तव्यं न वक्तव्यं वरानने ॥ ४॥
॥ सविधि श्रीगुरुकवचस्तोत्रम् ॥
विनियोगः --
ॐ नमोऽस्य श्रीगुरुकवचनाममन्त्रस्य परमब्रह्म ऋषिः
सर्ववेदानुज्ञो देवदेवो श्री आदिशिवः देवता नमो हसौं
हंसः ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजं
स-ह-क्ष-म-ल-व-र-यीं शक्तिःहंसः सोऽहं कीलकं
समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगः ।
ऋष्यादिन्यासः --
श्रीपरमब्रह्मर्षये नमः शिरसि । सर्ववेदानुज्ञदेवदेव
श्री आदिशिवदेवतायै नमः हृदि । नमः हसौं हंसः
ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजाय नमः गुह्ये ।
स-ह-क्ष-म-ल-व-र-यीं शक्तये नमः नाभौ । हंसः सोऽहं
कीलकाय नमः पादयोः । समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगाय
नमः अञ्जलौ ।
अथ षडङ्गन्यासः ।
ॐ हसाम् । ॐ हसीम् । ॐ हसूम् । ॐ हसैम् । ॐ हसौम् । ॐ हसः ।
अथ करन्यासः ।
ॐ हसां अङ्गुष्ठाभ्यां नमः ।
ॐ हसीं तर्जनीभ्यां नमः ।
ॐ हसूं मध्यमाभ्यां नमः ।
ॐ हसैं अनामिकाभ्यां नमः ।
ॐ हसौं कनिष्ठाभ्यां नमः ।
ॐ हसः करतलकरपृष्ठाभ्यां नमः ।
अथ अङ्गन्यासः ।
ॐ हसां हृदयाय नमः ।
ॐ हसीं शिरसे स्वाहा ।
ॐ हसूं शिखायै वषट् ।
ॐ हसैं कवचाय हुं ।
ॐ हसौं नेत्रत्रयाय वौषट् ।
ॐ हसः अस्त्राय फट् ।
ध्यानम् --
श्रीसिद्धमानवमुखा गुरवः स्वरूपं
संसारदाहशमनं द्विभुजं त्रिनेत्रम् ।
वामाङ्गशक्तिसकलाभरणैर्विभूषं
ध्यायेज्जपेत् सकलसिद्धिफलप्रदं च ॥
मानसपूजन --
लं पृथिव्यात्मकं गन्धतन्मात्रप्रकृत्यात्मकं गन्धं
सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
हं आकाशात्मकं शब्दतन्मात्रप्रकृत्यात्मकं पुष्पं
सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
यं वाय्वात्मकं स्पर्शतन्मात्रप्रकृत्यात्मकं धूपं
सशक्तिकाय श्रीगुरवे घ्रापयामि नमः ।
रं वह्न्यात्मकं रूपतन्मत्रप्रकृत्यात्मकं दीपं
सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
वं अमृतात्मकं रसतन्मात्रप्रकृत्यात्मकं नैवेद्यं
सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
सं सर्वात्मिकां ताम्बूलादिसर्वोपचारपूजां
सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
॥ कवचस्तोत्रम् ॥
ॐ नमः प्रकाशानन्दनाथः तु शिखायां पातु मे सदा ।
परशिवानन्दनाथः शिरो मे रक्षयेत् सदा ॥ १॥
परशक्तिदिव्यानन्दनाथो भाले च रक्षतु ।
कामेश्वरानन्दनाथो मुखं रक्षतु सर्वधृक् ॥ २॥
दिव्यौघो मस्तकं देवि! पातु सर्वशिरः सदा ।
कण्ठादिनाभिपर्यन्तं सिद्धौघा गुरवः प्रिये ॥ ३॥
भोगानन्दनाथ गुरुः पातु दक्षिणबाहुकम् ।
समयानन्दनाथश्च सन्ततं हृदयेऽवतु ॥ ४॥
सहजानन्दनाथश्च कटिं नाभिं च रक्षतु ।
एष स्थानेषु सिद्धौघाः रक्षन्तु गुरवः सदा ॥ ५॥
अधरे मानवौघाश्च गुरवः कुलनायिके!
गगनानन्दनाथश्च गुल्फयोः पातु सर्वदा ॥ ६॥
नीलौघानन्दनाथश्च रक्षयेत् पादपृष्ठतः ।
स्वात्मानन्दनाथगुरुः पादाङ्गुलीश्च रक्षतु ॥ ७॥
कन्दोलानन्दनाथश्च रक्षेत् पादतले सदा ।
इत्येवं मानवौघाश्च न्यसेन्नाभ्यादिपादयोः ॥ ८॥
गुरुर्मे रक्षयेदुर्व्यां सलिले परमो गुरुः ।
परापरगुरुर्वह्नौ रक्षयेत् शिववल्लभे ॥ ९॥
परमेष्ठीगुरुश्चैव रक्षयेत् वायुमण्डले ।
शिवादिगुरवः साक्षात् आकाशे रक्षयेत् सदा ॥ १०॥
इन्द्रो गुरुः पातु पूर्वे आग्नेयां गुरुरग्नयः ।
दक्षे यमो गुरुः पातु नैऋत्यां निऋतिर्गुरुः ॥ ११॥
वरुणो गुरुः पश्चिमे वायव्यां मारुतो गुरुः ।
उत्तरे धनदः पातु ऐशान्यामीश्वरो गुरुः ॥ १२॥
ऊर्ध्वं पातु गुरुर्ब्रह्मा अनन्तो गुरुरप्यधः ।
एवं दशदिशः पान्तु इन्द्रादिगुरवः क्रमात् ॥ १३॥
शिरसः पादपर्यन्तं पान्तु दिव्यौघसिद्धयः ।
मानवौघाश्च गुरवो व्यापकं पान्तु सर्वदा ॥ १४॥
सर्वत्र गुरुरूपेण संरक्षेत् साधकोत्तमम् ।
आत्मानं गुरुरूपं च ध्यायेन् मन्त्रं सदा बुधः ॥ १५॥
॥ फलश्रुतिः ॥
इत्येवं गुरुकवचं ब्रह्मलोकेऽपि दुर्लभम् ।
तव प्रीत्या मया ख्यातं न कस्य कथितं प्रिये ॥ १॥
पूजाकाले पठेद् यस्तु जपकाले विशेषतः ।
त्रैलोक्यदुर्लभं देवि । भुक्तिमुक्तिफलप्रदम् ॥ २॥
सर्वमन्त्रफलं तस्य सर्वयन्त्रफलं तथा ।
सर्वतीर्थफलं देवि । यः पठेत् कवचं गुरोः ॥ ३॥
अष्टगन्धेन भूर्जे च लिख्यते चक्रसंयुतम् ।
कवचं गुरुपङ्क्तेस्तु भक्त्या च शुबवासरे ॥ ४॥
पूजयेत् धूपदीपाद्यैः सुधाभिः सितसंयुतैः ।
तर्पयेत् गुरुमन्त्रेण साधकः शुद्धचेतसा ॥ ५॥
धारयेत् कवचं देवि! इह भूतभयापहम् ।
पठेन्मन्त्री त्रिकालं हि स मुक्तो भवबन्धनात् ।
एवं कवचं परमं दिव्यसिद्धौघकलावान् ॥ ६॥
॥ इति पुरश्चरणरसोल्लासे द्वितीयप्रश्ने दशमपटले
ईश्वरदेवीसंवादे श्रीगुरुकवचं सम्पूर्णम् ॥