गुरु स्तोत्र

श्रीगुरुचरणस्मरणाष्टकम्

श्रीगुरुचरणस्मरणाष्टकम्

प्रातः श्रीतुलसीनतिः स्वकरतस्तत्पिण्डिकालेपनं
तत्साम्मुख्यमथ स्थितिं स्मृतिरथ स्वस्वामिनोः पादयोः ।
तत्सेवार्थबहुप्रसूनचयनं नित्यं स्वयं यस्य तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ १॥

मध्याह्ने तु निजेशपादकमलध्यानार्चनान्नार्पण
प्रादक्षिणानतिस्तुतिप्रणयिता नृत्यं सतां सङ्गतिः ।
श्रीमद्भागवतार्थसीधुमधुरास्वादः सदा यस्य तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ २॥

प्रक्षाल्याङ्घ्रियुगं नतिस्तुतिजयं कर्तुं मनोऽत्युत्सुकं
सायं गोष्ठमुपागतं वनभुवो द्रष्टुं निजस्वामिनम् ।
प्रेमानन्दभरेण नेत्रपुटयोर्धारा चिराद्यस्य तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ३॥

रात्रौ श्रीजयदेवपद्यपठनं तद्गीतगानं रसा
स्वादो भक्तजनैः कदाचिदभितः सङ्कीर्तने नर्तनम् ।
राधाकृष्णविलासकेल्यनुभवादुन्निद्रता यस्य तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ४॥

निन्देत्यक्षरयोर्द्वयं परिचयं प्राप्तं न यत्कर्णयोः
साधूनां स्तुतिमेव यः स्वरसनामास्वादयत्यन्वहम् ।
विश्वास्यं जगदेव यस्य न पुनः कुत्रापि दोषग्रहः
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ५॥

यः कोऽप्यस्तु पदाब्जयोर्निपतितो यः स्वीकरोत्येव तं
शीघ्रं स्वीयकृपाबलेन कुरुते भक्तौ तु मत्वास्पदम् ।
नित्यं भक्तिरहस्यशिक्षणविधिर्यस्य स्वभृत्येषु तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ६॥

सर्वाङ्गैर्नतभृत्यमूर्ध्नि कृपया स्वपादार्पणं
स्मित्वा चारु कृपावलोकसुधया तन्मानसोदासनम् ।
तत्प्रेमोदयहेतवे स्वपदयोः सेवोपदेशः स्वयं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ७॥

राधे ! कृष्ण ! इति प्लुतस्वरयुतं नामामृतं नाथयो-
र्जिह्वाग्रे नटयन् निरन्तरमहो नो वेत्ति वस्तु क्वचित् ।
यत्किञ्चिद्व्यवहारसाधकमपि प्रेम्नैव मग्नोऽस्ति यः
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ ॥ ८॥

त्वत्पादाम्बुजसीधुसूचकतया पद्याष्टकं सर्वथा
यातं यत्परमाणुतां प्रभुवर प्रोद्यत्कृपावारिधे ।
मच्चेतोभ्रमरोऽवलम्बा तदिदं प्राप्याविलम्बं भवत्
सङ्गं मञ्जुनिकुञ्जधाम्नि जुषतां तत्स्वामिनोः सौरभम् ॥ ९॥

इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीगुरुचरणस्मरणाष्टकं सम्पूर्णम् ।