गुरुमहिमास्वमहिमा
गुरुमहिमास्वमहिमा
गुरुर्मूलं हि मन्त्राणां गुरुर्मूलं परन्तपः ॥ १-१८८॥
गुरोः प्रसादमात्रेण सिद्धिरेव न संशयः ।
अहं गुरुरहं देवो मन्त्रार्थोऽस्मि न संशयः ॥ १-१८९॥
भेदका नरकं यान्ति नानाशास्त्रार्थवर्जिताः ।
सर्वासामेव विद्यानां दीक्षा मूलं यथा प्रभो ॥ १-१९०॥
गुरुमूलस्वतन्त्रस्य गुरुरात्मा न संशयः ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ १-१९१॥
आत्मना क्रियते कर्म भावसिद्धिस्तदा भवेत् ।
हीनाङ्गी कपटी रोगी बह्वाशी शीलवर्जितः ॥ १-१९२॥
मय्युपासनमास्थाय उपविद्यां सदाभ्यसेत् ।
धनं धान्यं सुतं वित्तं राज्यं ब्राह्मणभोजनम् ॥ १-१९३॥
शुभार्थं संप्रयोक्तव्यं नान्यचिन्ता वृथाफलम् ।
नित्यश्राद्धरतो मर्त्यो धर्मशीलो नरोत्तमः ॥ १-१९४॥
महीपालः प्रियाचारः पीठभ्रमणतत्परः ।
पीठे पीठे महाविद्यादर्शनं यदि लभ्यते ॥ १-१९५॥
तदा तस्य करे सर्वाः सिद्धयोऽव्यक्तमण्डलाः ।
अकस्माज्जायते सिद्धिर्महामायाप्रसादतः ॥ १-१९६॥
महावीरो महाधीरो दिव्यभावस्थितोऽपि वा ।
अथवा पशुभावस्थो मन्त्रपीठं विवासयेत् ॥ १-१९७॥
क्रियायाः फलदं प्रोक्तं भावत्रयमनोरमम् ।
तथा च युगभावेन दिव्यवीरेण भैरव ॥ १-१९८॥
प्रपश्यन्ति महावीराः पशवो हीनजातयः ।
न पश्यन्ति कलियुगे शास्त्राभिभूतचेतसः ॥ १-१९९॥
अपि वर्षसहस्रेण शास्त्रान्तं नैव गच्छति ।
तर्काद्यनेकशास्त्राणि अल्पायुर्विघ्नकोटयः ॥ १-२००॥
तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसि ।
कलौ च दिव्यवीराभ्यां नित्यं तद्गतचेतसः ॥ १-२०१॥
महाभक्ताः प्रपश्यन्ति महाविद्यापरं पदम् ।
साधवो मौनशीलाश्च सदा साधनतत्पराः ॥ १-२०२॥
दिव्यवीरस्वभावेन पश्यन्ति मत्पदाम्बुजम् ।
भावद्वयं ब्राह्मणानां महासत्फलकाङ्क्षिणाम् ॥ १-२०३॥
अथवा चावधूतानां भावद्वयमुदाहृतम् ।
भावद्वयप्रभावेण महायोगी भवेन्नरः ॥ १-२०४॥
मूर्खोऽपि वाक्पतिः श्रेष्ठो भावद्वयप्रसादतः ।
ये जानन्ति महादेव मम तन्त्रार्थसाधनम् ॥ १-२०५॥
भावद्वयं हि वर्णानां ते रुद्रा नात्र संशयः ।
भावुको भक्तियोगेन्द्रः सर्वभावज्ञसाधनः ॥ १-२०६॥
उन्मत्तजडवन्नित्यं निजतन्त्रार्थपारगः ।
वृक्षो वहति पुष्पाणि गन्धं जानाति नासिका ॥ १-२०७॥
पठन्ति सर्वशास्त्राणि दुर्लभा भावबोधकाः ।
प्रज्ञाहीनस्य पठनमन्धस्यादर्शदर्शनम् ॥ १-२०८॥
प्रज्ञावतो धर्मशास्त्रं बन्धनायोपकल्पते ।
तत्त्वमीदृगिति भवेदिति शास्त्रार्थनिश्चयः ॥ १-२०९॥
अहं कर्ताऽहमात्मा च सर्वव्यापी निराकुलः ।
मनसेति स्वभावञ्च चिन्तयत्यपि वाक्पतिः ॥ १-२१०॥
सौदामिनीतेजसो वा सहस्रवर्षकं यदा ।
प्रपश्यति महाज्ञानी एकचन्द्रं सहस्रकम् ॥ १-२११॥
कोटिवर्षशतेनापि यत्फलं लभते नरः ।
एकक्षणमङ्घ्रिरजो ध्यात्वा तत्फलमश्नुते ॥ १-२१२॥
विचरेद्यदि सर्वत्र केवलानन्दवर्धनम् ।
कामरूपं महापीठं त्रिकोणाधारतैजसम् ॥ १-२१३॥
जलबुद्बुद्शब्दान्तमनन्तमङ्गलात्मकम् ।
स भवेन्मम दासेन्द्रो गणेशगुहवत्प्रियः ॥ १-२१४॥
कङ्कालाख्या--साट्टहासा--विकटाक्षोपपीठकम् ।
विचरेत् साधकश्रेष्ठो मत्पादाब्जं यदीच्छति ॥ १-२१५॥
ज्वालामुखीमहापीठं मम प्रियमतर्कवित् ।
यो भ्रमेन्मम तुष्ट्यर्थं स योगी भवति ध्रुवम् ॥ १-२१६॥
भावद्वयादिनिकरं ज्वालामुख्यादिपीठकम् ।
भ्रमन्ति ये साधकेन्द्रास्ते सिद्धा नात्र संशयः ॥ १-२१७॥
भावात् परतरं नास्ति त्रैलोक्यसिद्धिमिच्छताम् ।
भावो हि परमं ज्ञानं ब्रह्मज्ञानमनुत्तमम् ॥ १-२१८॥
कोटिकन्याप्रदानेन वाराणस्यां शताटनैः ।
किं कुरुक्षेत्रगमने यदि भावो न लभ्यते ॥ १-२१९॥
गयायां श्राद्धदानेन नानापीठाटनेन किम् ।
नानाहोमैः क्रियाभिः किं यदि भावो न लभ्यते ॥ १-२२०॥
भावेन ज्ञानमुत्पन्नं ज्ञानान्मोक्षमवाप्नुयात् ।
आत्मनो मनसा देव्या गुरोरीश्वरमुच्यते ॥ १-२२१॥
ध्यानं संयोजनं प्रोक्तं मोक्षमात्ममनोलयम् ।
गुरोः प्रसादमात्रेण शक्तितोषो महान् भवेत् ॥ १-२२२॥
शक्तिसन्तोषमात्रेण मोक्षमाप्नोति साधकः ।
गुरुमूलं जगत्सर्वं गुरुमूलं परन्तपः ॥ १-२२३॥
गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी ।
न लङ्घयेद् गुरोराज्ञामुत्तरं न वदेत् तथा ॥ १-२२४॥
दिवारात्रौ गुरोराज्ञां दासवत् परिपालयेत् ।
उक्तानुक्तेषु कार्येषु नोपेक्षां कारयेद् बुधः ॥ १-२२५॥
गच्छतः प्रयतो गच्छेद् गुरोराज्ञां न लङ्घयेत् ।
न शृणोति गुरोर्वाक्यं शृणुयाद् वा पराङ्मुखः ॥ १-२२६॥
अहितं वा हितं वापि रौरवं नरकं व्रजेत् ।
आज्ञाभङ्गं गुरोर्दैवाद् यः करोति विबुद्धिमान् ॥ १-२२७॥
प्रयाति नरकं घोरं शूकरत्वमवाप्नुयात् ।
आज्ञाभङ्गं तथा निन्दां गुरोरप्रियवर्तनम् ॥ १-२२८॥
गुरुद्रोहञ्च यः कुर्यात् तत्संसर्गं न कारयेत् ।
गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनानि च ॥ १-२२९॥
पातकञ्च भवेत् तस्य प्रायश्चित्तं न कारयेत् ।
गुरुं दुष्कृत्य रिपुवन्निर्हरेत् परिवादतः ॥ १-२३०॥
अरण्ये निर्जने देशे स भवेद् ब्रह्मराक्षसः ।
पादुकां आसनं वस्त्रं शयनं भूषणानि च ॥ १-२३१॥
दृष्ट्वा गुरुं नमस्कृत्य आत्मभोगं न कारयेत् ।
सदा च पादुकामन्त्रं जिह्वाग्रे यस्य वर्तते ॥ १-२३२॥
अनायासेन धर्मार्थकाममोक्षं लभेन्नरः ।
श्रीगुरोश्चरणाम्भोजं ध्यायेच्चैव सदैव तम् ॥ १-२३३॥
भक्तये मुक्तये वीरं नान्यभक्तं ततोऽधिकम् ।
एकग्रामे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा ॥ १-२३४॥
एकदेशे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा ।
सप्तयोजनविस्तीर्णं मासैकं प्रणमेद् गुरुम् ॥ १-२३५॥
श्रीगुरोश्चरणाम्भोजं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् कायेन मनसा धिया ॥ १-२३६॥
विद्याङ्गमासनं मन्त्रं मुद्रां तन्त्रादिकं प्रभो ।
सर्वं गुरुमुखाल्लब्ध्वा सफलं नान्यथा भवेत् ॥ १-२३७॥
कम्बले कोमले वापि प्रसादे संस्थिते तथा ।
दीर्घकाष्ठेऽथवा पृष्ठे गुरुञ्चैकासनं त्यजेत् ॥ १-२३८॥
श्रीगुरोः पादुकामन्त्रं मूलमन्त्रं स्वपादुकाम् ।
शिष्याय नैव देवेश प्रवदेद् यस्य कस्यचित् ॥ १-२३९॥
यद् यदात्महितं वस्तु तद्द्रव्यं नैव वञ्चयेत् ।
गुरोर्लब्ध्वा एकवर्णं तस्य तस्यापि सुव्रत ॥ १-२४०॥
भक्ष्यं वित्तानुसारेण गुरुमुद्दिश्य यत्कृतम् ।
स्वल्पैरपि महत्तुल्यं भुवनाद्यं दरिद्रताम् ॥ १-२४१॥
सर्वस्वमपि यो दद्याद् गुरुभक्तिविवर्जितः ।
नरकान्तमवाप्नोति भक्तिरेव हि कारणम् ॥ १-२४२॥
गुरुभक्त्या च शक्रत्वमभक्त्या शूकरो भवेत् ।
गुरुभक्तः परं नास्ति भक्तिशास्त्रेषु सर्वतः ॥ १-२४३॥
गुरुपूजां विना नाथ कोटिपुण्यं वृथा भवेत् ॥ १-२४४॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वविद्यानुष्ठाने
सिद्धिमन्त्रप्रकरणे भैरवीभैरवसंवादे प्रथमः पटलः ॥ १॥