गुरुमहिमागुरुकृत्य
गुरुमहिमागुरुकृत्य
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ २-२२॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २-२३॥
देवतायाः दर्शनस्य कारणं करुणानिधिम् ।
सर्वसिद्धिप्रदातारं श्रीगुरुं प्रणमाम्यहम् ॥ २-२४॥
वराभयकरं नित्यं श्वेतपद्मनिवासिनम् ।
महाभयनिहन्तारं गुरुदेवं नमाम्यहम् ॥ २-२५॥
महाज्ञानाच्छापिताङ्गं नराकारं वरप्रदम् ।
चतुर्वर्गप्रदातारं स्थूलसूक्ष्मद्वयान्वितम् ॥ २-२६॥
सदानन्दमयं देवं नित्यानन्दं निरञ्जनम् ।
शुद्धसत्त्वमयं सर्वं नित्यकालं कुलेश्वरम् ॥ २-२७॥
ब्रह्मरन्ध्रे महापद्मे तेजोबिम्बे निराकुले ।
योगिभिर्ध्यानगम्ये च चक्रे शुक्ले विराजिते ॥ २-२८॥
सहस्रदलसङ्काशे कर्णिकामध्यमध्यके ।
महाशुक्लभासुरार्ककोटिकोटिमहौजसम् ॥ २-२९॥
सर्वपीठस्थममलं परं हंसं परात्परम् ।
वेदोद्धारकरं नित्यं काम्यकर्मफलप्रदम् ॥ २-३०॥
सदा मनःशक्तिमायालयस्थानं पदद्वयम् ।
शरज्ज्योत्स्नाजालमालाभिरिन्दुकोटिवन्मुखम् ॥ २-३१॥
वाञ्छातिरिक्तदातारं सर्वसिद्धीश्वरं गुरुम् ।
भजामि तन्मयो भूत्त्वा तं हंसमण्डलोपरि ॥ २-३२॥
आत्मानं च निराकारं साकारं ब्रह्मरूपिणम् ।
महाविद्यामहामन्त्रदातारं परमेश्वरम् ॥ २-३३॥
सर्वसिद्धिप्रदातारं गुरुदेवं नमाम्यहम् ।
कायेन मनसा वाचा ये नमन्ति निरन्तरम् ॥ २-३४॥
अवश्यं श्रीगुरोः पादाम्भोरुहे ते वसन्ति हि ।
प्रभाते कोटिपुण्यञ्च प्राप्नोति साधकोत्तमः ॥ २-३५॥
मध्याह्ने दशलक्षञ्च सायाह्ने कोटिपुण्यदम् ।
प्रातःकाले पठेत् स्तोत्रं ध्यानं वा सुसमाहितः ॥ २-३६॥
तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ २-३७॥
गुरुस्तोत्रम् ।
शिरसि सितपङ्कजे तरुणकोटिचन्द्रप्रभं
वराभयकराम्बुजं सकलदेवतारूपिणम् ।
भजामि वरदं गुरुं किरणचारुशोभाकुलं
प्रकाशितपदद्वयाम्बुजमलत्ककोटिप्रभम् ॥ २-३८॥
जगद्भयनिवारणं भुवनभोगमोक्षप्रदं
गुरोः पादयुगाम्बुजं जयति यत्र योगे जयम् ।
भजामि परमं गुरुं नयनपद्ममध्यस्थितं
भवाब्धिभयनाशनं शमनरोगकायक्षयम् ॥ २-३९॥
प्रकाशितसुपङ्कजे मृदुलषोडशाख्ये प्रभुं
परापरगुरुं भजे सकलबाह्यभोगप्रदम् ।
विशालनयनाम्बुजद्वयतडित्प्रभामण्डलं
कडारमणिपाटलेन्दुबिन्दुबिन्दुकम् ॥ २-४०॥
चलाचलकलेवरं प्रचपलदले द्वादशे ।
महौजसमुमापतेर्विगतदक्षभागे हृदि ।
प्रभाकरशतोज्ज्वलं सुविमलेन्दुकोट्याननम् ।
भजामि परमेष्ठिनं गुरुमतीव वारोज्ज्वलम् ॥ २-४१॥
गुर्वाद्यञ्च शुभं मदननिदहनं हेममञ्जरीसारं
नानाशब्दाद्भुताह्लादितपरिजनाच्चारुचक्रत्रिभङ्गम् ।
नित्यं ध्यायेत् प्रभाते अरुणशतघटाशोभनं योगगम्यं
नाभौ पद्मेऽतिकान्ते दशदलमणिभे भाव्यते योगिभिर्यत् ॥ २-४२॥
या माता मयदानवादिस्वभुजा निर्वाणसीमापुरे
स्वाधिष्ठाननिकेतने रसदले वैकुण्ठमूले मया ।
जन्मोद्धारविकारसुप्रहरिणी वेदप्रभा भाव्यते
कन्दर्पार्पितशान्तियोनिजननी विष्णुप्रिया शाङ्करी ॥ २-४३॥
या भाषाननकुण्डली कुलपथाच्छामाभशोभाकरी ।
मूले पद्मचतुर्दले कुलवती निःश्वासदेशाश्रिता ।
साक्षात्काङ्क्षितकल्पवृक्षलतिका सूद्भाषयन्ती प्रिया ।
नित्या योगिभयापहा विषहरा गुर्वम्बिका भाव्यते ॥ २-४४॥
ऊर्द्ध्वाम्भोरुहनिःसृतामृतघटी मोदोद्वलाप्लाविता
गुर्वास्या परिपातु सूक्ष्मपथगा तेजोमयी भास्वती ।
सूक्ष्मा साधनगोचरामृतमयी मूलादिशीर्षाम्बुजे
पूर्णा चेतसि भाव्यते भुवि कदा माता सदोर्द्ध्वामगा ॥ २-४५॥
गुरुस्तोत्रफलश्रुतिः ।
स्थितिपालनयोगेन ध्यानेन पूजनेन वा ।
यः पठेत् प्रत्यहं व्याप्य स देवो न तु मानुषः ॥ २-४६॥
कल्याणं धनधान्यं च कीर्तिमायुर्यशःश्रियम् ।
सायाह्ने च प्रभाते च पठेद्यदि सुबुद्धिमान् ॥ २-४७॥
स भवेत् साधकश्रेष्ठः कल्पद्रुमकलेवरः ।
स्तवस्यास्य प्रसादेन वागीशत्वमवाप्नुयात् ॥ २-४८॥
पशुभावस्थिता ये तु तेऽपि सिद्धाः न संशयः ।
गुरुलक्षणम् ।
आदौ साधकदेवश्च सदाचारमतिः सदा ॥ २-४९॥
पशुभावस्ततो वीरः सायाह्ने दिव्यभाववान् ।
एतेषां भाववर्गाणां गुरुर्वेदान्तपारगः ॥ २-५०॥
शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेषवान् ।
शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ॥ २-५१॥
आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः ।
निग्रहानुग्रहे शक्तो वशी मन्त्रार्थजापकः ॥ २-५२॥
निरोगी निरहङ्कारो विकाररहितो महान् ।
पण्डितो वाक्पतिः श्रीमान् सदा यज्ञविधानकृत् ॥ २-५३॥
पुरश्चरणकृत् सिद्धो हिताहितविवर्जितः ।
सर्वलक्षणसंयुक्तो महाजनगणादृतः ॥ २-५४॥
प्राणायामादिसिद्धान्तो ज्ञानी मौनी विरागवान् ।
तपस्वी सत्यवादी च सदा ध्यानपरायणः ॥ २-५५॥
आगमार्थविशिष्टज्ञो निजधर्मपरायणः ।
अव्यक्तलिङ्गचिह्नस्थो भावको भद्रदानवान् ॥ २-५६॥
लक्ष्मीवान् धृतिमान्नाथो गुरुरित्यभिधीयते ।
शिष्यलक्षणम् ।
शिष्यस्तु तादृशो भूत्त्वा सद्गुरुं पर्युपाश्रयेत् ॥ २-५७॥
वर्जयेच्च परानन्दरहितं रूपवर्जितम् ।
कुष्ठिनं क्रूरकर्माणं निन्दितं रोगिणं गुरुम् ॥ २-५८॥
अष्टप्रकारकुष्ठेन गलत्कुष्ठिनमेव च ।
श्वित्रिणं जनहिंसार्थं सदार्थग्राहिणं तथा ॥ २-५९॥
स्वर्णविक्रयिणं चौरं बुद्धिहीनं सुखर्वकम् ।
श्यावदन्तं कुलाचाररहितं शान्तिवर्जितम् ॥ २-६०॥
सकलङ्कं नेत्ररोगैः पीडितं परदारगम् ।
असंस्कारं प्रवक्तारं स्त्रीजितं चाधिकाङ्गकम् ॥ २-६१॥
कपटात्मानकं हिंसाविशिष्टं बहुजल्पकम् ।
बह्वाशिनं हि कृपणं मिथ्यावादिनमेव च ॥ २-६२॥
अशान्तं भावहीनं च पञ्चाचारविवर्जितम् ।
दोषजालैः पूरिताङ्गं पूजयेन्न गुरुं बिना ॥ २-६३॥
गुरौ मानुषबुद्धिं तु मन्त्रेषु लिपिभावनम् ।
प्रतिमासु शिलारूपं विभाव्य नरकं व्रजेत् ॥ २-६४॥
जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः ।
गुरुर्विशेषतः पूज्यो धर्माधर्मप्रदर्शकः ॥ २-६५॥
गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ २-६६॥
गुरोर्हितं प्रकर्तव्यं वाङ्मनःकायकर्मभिः ।
अहिताचरणाद् देव विष्ठायां जायते कृमिः ॥ २-६७॥
मन्त्रत्यागाद् भवेन्मृत्युर्गुरुत्यागाद् दरिद्रता ।
गुरुमन्त्रपरित्यागाद् रौरवं नरकं व्रजेत् ॥ २-६८॥
गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम् ।
प्रयाति नरकं घोरं सा पूजा विफला भवेत् ॥ २-६९॥
गुरुवद् गुरुपुत्रेषु गुरुवत् तत्सुतादिषु ।
अविद्यो वा सविद्यो वा गुरुरेव तु दैवतम् ॥ २-७०॥
अमार्गस्थोऽपि मार्गस्थो गुरुरेव तु दैवतम् ।
उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदो गुरुः ॥ २-७१॥
तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् ।
गुरुदेवाधीनश्चास्मि शास्त्रे मन्त्रे कुलाकुले ॥ २-७२॥
नाधिकारी भवेन्नाथ श्रीगुरोः पदभावकः ।
गुरुर्माता पिता स्वामी बान्धवः सुहृत् शिवः ॥ २-७३॥
इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम् ।
एकमेव परं ब्रह्म स्थूलशुक्लमणिप्रभम् ॥ २-७४॥
सर्वकर्मनियन्तारं गुरुमात्मानमाश्रयेत् ।
गुरुश्च सर्वभावानां भावमेकं न संशयः ॥ २-७५॥
निःसन्दिग्धं गुरोर्वाक्यं संशयात्मा विनश्यति
निःसंशयी गुरुपदे सर्वत्यागी पदं व्रजेत् ॥ २-७६॥
खेचरत्वमवाप्नोति मासादेव न संशयः ।
सद्गुरुमाश्रितं शिष्यं वर्षमेकं प्रतीक्षयेत् ॥ २-७७॥
सगुणं निर्गुणं वापि ज्ञात्वा मन्त्रं प्रदापयेत् ।
शिष्यस्य लक्षणं सर्वं शुभाशुभविवेचनम् ॥ २-७८॥
अन्यथा विप्रदोषेण सिद्धिपूजाफलं दहेत् ।
कामुकं कुटिलं लोकनिन्दितं सत्यवर्जितम् ॥ २-७९॥
अविनीतमसमर्थं प्रज्ञाहीनं रिपुप्रियम् ।
सदापापक्रियायुक्तं विद्याशून्यं जडात्मकम् ॥ २-८०॥
कलिदोषसमूहाङ्गं वेदक्रियाविवर्जितम् ।
आश्रमाचारहीनं चाशुद्धान्तःकरणोद्यतम् ॥ २-८१॥
सदा श्रद्धाविरहितमधैर्यं क्रोधिनं भ्रमम् ।
असच्चरित्रं विगुणं परदारातुरं सदा ॥ २-८२॥
असद्बुद्धिसमूहोत्थमभक्तं द्वैतचेतसम् ।
नानानिन्दावृताङ्गं च तं शिष्यं वर्जयेद् गुरुः ॥ २-८३॥
यदि न त्यज्यते वीर धनादिदानहेतुना ।
नारकी शिष्यवत् पापी तद्विशिष्टमवाप्नुयात् ॥ २-८४॥
क्षणादसिद्धः स भवेत् शिष्यासादितपातकैः ।
अकस्मान्नरकं प्राप्य कार्यनाशाय केवलम् ॥ २-८५॥
विचार्य यत्नात् विधिवत् शिष्यसङ्ग्रहमाचरेत् ।
अन्यथा शिष्यदोषेण नरकस्थो भवेद् गुरुः ॥ २-८६॥
न पत्नीं दीक्षयेद् भर्ता न पिता दीक्षयेत् सुताम् ।
न पुत्रं च तथा भ्राता भ्रातरं नैव दीक्षयेत् ॥ २-८७॥
सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् ।
शक्तित्त्वेन भैरवस्तु न च सा पुत्रिका भवेत् ।
मन्त्राणां देवता ज्ञेया देवता गुरुरूपिणी ॥ २-८८॥
तेषां भेदो न कर्तव्यो यदीच्छेच्छुभमात्मनः ।
एकग्रामे स्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् ॥ २-८९॥
क्रोशमात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् ।
अर्धयोजनतः शिष्यः प्रणमेत् पञ्चपर्वसु ॥ २-९०॥
एकयोजनमारभ्य योजनद्वादशावधिः ।
दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः ॥ २-९१॥
तन्त्रयोजनसङ्ख्योक्तमासेन प्रणमेद् गुरुम् ।
वर्षैकेण भवेद् योग्यो विप्रो हि गुरुभावतः ॥ २-९२॥
वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः ।
चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता ॥ २-९३॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वविद्यानुष्ठाने
सिद्धिमन्त्रप्रकरणे भैरवीभैरवसंवादे गुरुमहिमागुरुकृत्यः
द्वितीयः पटलः ॥ १॥