श्रीगायत्र्यष्टकम्
श्रीगायत्र्यष्टकम्
उषःकालगम्यामुदात्त स्वरूपां
अकार प्रविष्टामुदाराङ्गभूषाम् ।
अजेशादिवन्द्यामजार्चाङ्गभाजा-
मनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १॥
सदाहंसयानां स्पुरद्रत्नवस्त्रां
वराभीतिहस्तां खगाम्नायरूपाम् ।
स्फुरत्साधिकामक्षमालां च कुम्भं
दधानामहं भावये पूर्वसन्ध्याम् ॥ २॥
स्फुरचचन्द्रकान्तां शरच्चन्द्रवक्त्रां
महाचन्द्रकान्ताद्रिपीनस्तनाढ्याम् ।
त्रिशूलाक्षहस्तां त्रिनेत्रस्यपत्नीं
वृषारूढपादां भजे मध्यसन्ध्याम् ॥ ३॥
सदासामगानप्रियां श्यामलाङ्गीं
अकारान्तरस्थां करोल्लासि चक्रां ।
गणापद्महस्तां स्वनत्पाञ्चजन्यां
खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ ४॥
प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां
सदालम्बमानस्तनप्रान्तहाराम् ।
महानीलरत्नप्रभाकुण्डलाढ्यां
स्फुरत्स्मेरवक्त्रां भजे तुर्यसन्ध्याम् ॥ ५॥
हृदम्भोजमध्ये पराम्नायनीडे
सुखासीनसद्राजहंसां मनोज्ञाम् ।
सदाहेमभासां त्रयीविद्यमध्यां
भजामस्तुवामो वदामः स्मरामः ॥ ६॥
सदातत्पदैः स्तूयमानां सवित्रीं
वरेण्यां महाभर्गरूपां त्रिनेत्राम् ।
सदा देवदेवादि देवस्यपत्नी-
महन्धीमहीत्यादि पादैकजुष्टाम् ॥ ७॥
अनाथं दरिद्रं दुराचारयुक्तं
शतं स्थूलबुद्धिं परं धर्महीनम् ।
त्रिसन्ध्यं जपध्यानहीनं महेशि
प्रपन्नं च मां पालय त्वं कृपालो ॥ ८॥
इतीदं भुजङ्गं पठेद्यस्तु भक्त्या
समादाय चित्ते सदा तां परां च ।
त्रिसन्ध्यास्वरूपां त्रिलोकैकवन्द्यां
स मुक्तो भवेत्सर्वपापैरजस्रम् ॥ ९॥
इति श्रीगायत्र्यष्टकं सम्पूर्णम् ।