श्रीगायत्री सुप्रभातम्
श्रीगायत्री सुप्रभातम्
श्री पातूरि सीतारामांजनेयुलु कृत
॥ श्रीरस्तु ॥
श्री जानिरद्रितनयापतिरब्जगर्भः
सर्वे च दैवतगणाः समहर्षयोऽमी ।
एते भूतनिचयाः समुदीरयन्ति
गायत्रि - लोकविनुते तव सुप्रभातम् ॥ १॥
पुष्पोच्चयप्रविलसत्करकंजयुग्माम्
गंगादिदिव्यतटिनीवरतीरदेशे- ।
ष्वर्घ्यम् समर्पयितुमत्रजनास्तवैते
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २॥
कर्णेऽमृतम् विकिरता स्वरसंचयेन
सर्वे द्विजाः श्रुतिगणम् समुदीरयन्ति ।
पश्याश्रमासथ वृक्षतलेषु देवि
गायति -लोकविनुते -तव सुप्रभातम् ॥ ४॥
गावो महर्षिनिचयाश्रम भूमिभागात्
गन्तुम् वनाय शनकैः शनकैः प्रयान्ति ।
वत्सान् पयोऽमृतरसम् ननु पाययित्या
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ४॥
शिष्य प्रबोधनपरा वर मौनि मुख्याः
व्याख्यान्ति वेदगदितम् स्फुट धर्म ततत्त्वम् ।
स्वीयाश्रमाङ्गणतलेषु मनोहरेषु
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ५॥
श्रोत्रामृतम् श्रुतिरवम् कलयन्त एते
विस्मृत्य गन्तुमटवीम् फललाभलोभात् ।
वृक्षाग्र भूमिषु वनेषु लसन्ति कीराः
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ६॥
मूर्तित्रयात्मकलिते निगम त्रयेण
वेद्ये स्वरत्रय परिस्फुट मन्तरूपे
तत्त्वप्रबोधनपरोपनिषत्प्रपञ्चे
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ७॥
विश्वात्मिके निगमशीर्षवतंसरूपे
सर्वागमान्तरुदिते वरतैजसात्मन् ।
प्राज्ञात्मिके सृजनपोषणसंहृतिस्थे
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ८॥
तुर्यात्मिके सकलतत्त्वगणानतीते
आनन्दभोगकलिते परमार्धदत्रि
ब्रह्मानुभूतिवरदे सततम् जनानाम् ।
गायत्रि - लोकविनुते -सुप्रभातम् ॥ ९॥
तारस्वरेण मधुरम् परिगीयमाने
मन्द्रस्वरेण मधुरेण च मध्यमेन ।
गानात्मिके निखिललोक मनोज्ञ भावे
गायत्रि - लोकविनुते - तव सुपभातम् ॥ १०॥
पापाटवी दहन जागृत मानसा त्वम्
भक्तौघ पालन निरंतर दीक्षिताऽसि ।
त्वय्येव विश्वमखिलम् स्थिरतामुपैति
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ११॥
या वैदिकी निखिल पावन पावनी वाक्
या लौकिकी व्यवहृति प्रवणा जनानाम् ।
या काव्यरूप कलिता तव रूप मेताः
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १२॥
दिव्यम् विमानमधिरुह्य नभोङ्गणेऽत्र
गायन्ति दिव्य महिमानमिमे भवत्याः ।
पश्य प्रसीद निचया दिविजाङ्गनानाम्
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १३॥
हैमीम् रुचम् सकल भूमिरुहाग्रदेशे-
ष्वाधाय तत्कृत परोपकृतौ प्रसन्नः ।
भानुः करोत्यवसरे कनकाभिषेकम्
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १४॥
दिव्यापगासु सरसीषु वनी निकुङ्जे-
षूच्चावचानि कुसुमानि मनोहराणि ।
पुल्लानि सन्ति परितस्तव पूजनाय
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १५॥
कुर्वन्ति पक्षिनिचयाः कलगानमेते
वृक्षाग्रमुन्नततरासनमाश्रयन्तः
देवि - त्वदीय महिमानमुदीरयन्तो
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १६॥
विश्वेशि - विष्णुभगिनि - श्रुतिवाक्स्वरूपे -
तन्मात्रिके - निखिलमन्तमयस्वरूपे -
गानात्मिके - निखिलतत्त्वनिजस्वरूपे -
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १७॥
तेजोमयि - त्रिभुवनावनसक्तचित्ते -
सन्धात्मिके - सकल काल कला स्वरूपे -
मृत्युंजये - जयिनि - नित्यनिरंतरात्मन् -
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १८॥
त्वामेव देवि - परितो निखिलानि तन्त्रा-
ण्याभाति तत्त्वमखिलम् भवतीम् विवृण्वत् ।
त्वम् सर्वदाऽसि तरुणारुणदिव्यदेहे -
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १९॥
नित्याऽसि देवि - भवती निखिले प्रपञ्चे
वन्द्याऽसि सर्व भुवनैः सततोद्यतासि ।
धी प्रेरिकाऽसि भुवनस्य चराचरस्य
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २०॥
वन्दामहे भगवतीम् भवतीम् भवाब्धि-
सन्तारिणीम् त्रिकरणैः करुणामृताब्दे-
सम्पश्य चिन्मयतनो - करुणार्द्रदृष्ट्या
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २१॥
त्वम् मातृकामयतनुः परम प्रभावा
त्वय्येव देवि - परमः पुरुषः पुराणः ।
त्वत्तः समस्त भुवनानि समुल्लसन्ति
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २२॥
त्वम् वै प्रसूर्निखिलदेवगणस्य देवि
त्वम् स्तूयसे त्रिषवणम् निखिलैश्च लोकैः ।
त्वम् देश काल परमार्थ परिस्फुटासि
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २३॥
त्वम् गाधिसूनु परमर्षि वरेण दृष्टा
तेजोमयी सवितुरात्ममयाखिलार्था ।
सर्वार्थदा प्रणत भक्त जनस्य शश्वत्
गायत्रि - लोकविनुतो - तव सुप्रभातम् ॥ २४॥
संकल्प्य लोकमखिलम् मनसैव सूषे
कारुण्यभाव कलिताऽवसि लोकमाता ।
कोपान्विता तमखिलम् कुरुषे प्रलीनम्
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २५॥
मुक्ताभ विद्रुम सुवर्ण महेन्द्र नील
श्वेतप्रभैर् भुवन रक्षण बुद्धि दीक्षैः ।
वक्त्रैर्युते - निगम मातरुदारसत्त्वे
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २६॥
कारुण्य वीचि निचयामल कान्ति कान्ताम्
ब्रह्मादि सर्व दिविजेड्य महाप्रभावाम् ।
प्रीत्या प्रसारय दृशम् मयि लोकमातः
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २७॥
श्री लक्ष्मणादि गुरु सत्करुणैकलब्ध-
विद्या विनीत मतियानय माङनेयः ।
संसेवतेऽत्रभवतीम् भुवतीम् वचोभिः
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २८॥
इति सीतारामाङ्जनेय कवि कृत गायत्री सुप्रभातम् ॥