गायत्र्यष्टोत्तरशतनामावलिः
गायत्र्यष्टोत्तरशतनामावलिः
ॐ तरुणादित्यसङ्काशायै नमः । सहस्रनयनोज्ज्वलायै ।
विचित्रमालाभरणायै । तुहिनाचलवासिन्यै । वरदाभयहस्ताब्जायै ।
रेवातीरनिवासिन्यै । प्रणित्ययविशेषज्ञायै । यन्त्राकृतविराजितायै ।
भद्रपादप्रियायै । गोविन्दपथगामिन्यै । देवगणसन्तुष्टायै ।
वनमालाविभूषितायै । स्यन्नोत्तमसंस्थायै । धीरजीमूतनिस्वनायै ।
मत्तमातङ्गगमनायै । हिरण्यकमलासनायै । धियै ।
जनोद्धारनिरतायै । योगिन्यै । योगधारिण्यै नमः ॥ २०॥
ॐ नटनाट्यैकनिरतायै नमः । प्रणवाद्यक्षरात्मिकायै ।
घोराचारक्रियासक्तायै । दारिद्र्यच्छेदकारिण्यै । यादवेन्द्रकुलोद्भूत्यै ।
तुरीयपथगामिन्यै । गायत्र्यै । गोमत्यै । गङ्गायै । गौतम्यै ।
गरुडासनायै । गेयगानप्रियायै । गौर्यै । गोविन्दपूजितायै ।
गन्धर्वनागरागारायै । गौवर्णायै । गणेश्वर्यै । गुणाश्रयायै ।
गुणवत्यै । गह्वरायै नमः ॥ ४०॥
ॐ गणपूजितायै नमः । गुणत्रयसमायुक्तायै । गुणत्रयविवर्धितायै ।
गुणावासायै । गुणाधारायै । गुह्यगन्धस्वरूपिण्यै । गार्ग्यप्रियायै ।
गुरुपदायै । गुह्यलिङ्गाङ्गधारिण्यै । सावित्र्यै । सूर्यतनयायै ।
सुषुम्नानाडिभेदिन्यै । सुप्रकाशायै । सुखासीनायै । सुमत्यै ।
सुरपूजितायै । सुघप्तव्यवस्थायै । सुघटित सुदत्यसुन्दर्यै ।
सागराम्बरायै । सुधांशुबिम्बवदनायै नमः ॥ ६०॥
ॐ सुस्तन्यै नमः । सुविलोचनायै । सीतायै । सत्त्वाश्रयायै ।
सन्ध्यायै । सुफलायै । सुविधायिन्यै । सुभ्रुवे । सुवासायै ।
सुश्रोण्यै । संसारार्णवतारिण्यै । सामगानप्रियायै । साध्विवैष्णव्यै ।
सर्वाभरणभूषितायै । विमलाकारायै । माहेन्द्र्यै । मन्त्ररूपिण्यै ।
महालक्ष्म्यै । महासिद्ध्यै । महामायायै नमः ॥ ८०॥
ॐ महेश्वर्यै नमः । मोहिन्यै । मदनाकारायै । मधुसूदनचोदितायै ।
मीनायै । मधुरावासायै । नागेन्द्रतनयायै । उमायै ।
त्रिविक्रमपदाक्रान्तायै । त्रिस्वर्गायै । त्रिलोचनायै ।
संस्थितायै । सूर्यमण्डलमध्यस्थायै । वह्निमण्डलमध्यस्थायै ।
वायुमण्डलसंस्थितायै । व्योममण्डलमध्यस्थायै । चक्रिण्यै ।
चक्ररूपिण्यै । कालचक्रवितानस्थायै ।
चन्द्रमण्डलदर्पणायै नमः ॥ १००॥
ॐ ज्योत्स्नातपामलिप्ताङ्ग्यै नमः । महामारुतवीजितायै ।
सर्वमन्त्राश्रयायै । धेणवे । पापघ्न्यै । परमेश्वर्यै ।
शारदायै । महादेव्यै नमः ॥ १०८॥
इति गायत्र्यष्टोत्तरशतनामावलिः समाप्ता ।