गायत्रीराजोपचारमानसपूजा
गायत्रीराजोपचारमानसपूजा
१. ध्यानम् -
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणे -
र्युक्तामिन्दुकलानिद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाऽभयाङ्कुशकशां शुभ्रं कपालं गदा
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १॥
२. आवाहनम् -
उषसि मागधमङ्गलगायनैर्झटिति जागृहिं जागृहि जागृहि
अतिकृपार्द्रकटाक्षनिरीक्षणैर्जगदिदं सुखिनं कुरु हेऽम्बिके ॥
ॐ ऐं ही श्रीं भगवत्यै गायत्र्यै आवाहनं समर्पयामि नमः ।
ॐ कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।
मणिमयशुभमण्डपं त्वमेहि
मयि कृपयेति समर्चनं ग्रहीतुम् ॥ २॥
३. आसनम् -
कनकमयवितर्दिस्थापिते तूलिकाढ्ये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।
भगवति रमणीये रत्नसिंहासनेऽस्मिन्
उपविश पदयुग्मं हेमपीठे निधेहि ॥ ३॥
ॐ ऐं ह्रीं श्रीं भगवत्यै हेमपीठ आसनं समर्पयामि नमः ॥
४. पाद्यम् -
दूर्वया सरसिजान्वितमातः कान्तया च सहितं कुसुमाढ्यम् ।
पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै पाद्यपात्रात्पादयोः
पाद्यं समर्पयामि नमः ॥ ४॥
५. अर्घ्यम् -
गन्धपुष्पयवसर्षपदूर्वासंयुतं कुशतिलाक्षतमित्रम् ।
हेमपात्रनिहितं सहरत्नैरर्घ्यमेतदुररीकुरु मातः ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै अर्घ्यपात्रात्
हस्तयोरर्घ्यं समर्पयामि नमः ॥ ४॥
६. आचमनीयम् -
जलजदयुतिना करेण जातीफलकङ्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतैरिवाश्रितैतद्भगवत्याचमनं विधीयताम् ।
ॐ ऐ हीं श्रीं भगवत्यै गायत्र्यै आचमनीयपात्रादाचमनीयं
समर्पयामि नमः ॥ ६॥
७. मधुपर्कः-
मधुनिहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् ।
तदिदं भगवति करेऽर्पितं ते मधुपर्कं जननि प्रगृह्यताम् ।
ॐ ऐ ह्रीं श्रीं भगवत्यै गायत्र्यै मधुपर्कपात्रात्
मधुपर्कं समर्पयामि नमः ॥ ७॥
८. आचमनीयम् -
पाद्यान्ते परिकल्पितं च पदयोरर्घ्यं तथा हस्तयोः
सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादयः ।
तोयेनाचमनं विधेहि शुचिना गाङ्गेन यत्कल्पितं
साष्टाङ्गप्राणिपातयुक्तशिशुकं दृष्ट्या कृतार्थीकुरु ।
ॐ ऐ ह्रीं श्रीं भगवत्यै गायत्र्यै आचमनीयपात्रादिदमाचमनीयं
समर्पयामि नमः ॥ ८॥
९. स्नानम् -
गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलैः ।
स्नापिताऽसि मया देवि प्रसीद परमेश्वरि ।
ॐ ऐ हीं श्रीं भगवत्यै गायत्र्यै नानानदीनां
जलैः स्नानं समर्पयामि नमः ॥ ९॥
१०. पञ्चामृतस्नानम् -
पयो दधि घृतं चैव मधुशर्करया युतम् ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् ।
ॐ ऐ हीं श्रीं भगवत्यै गायत्र्यै पञ्चामृतस्नानं
समर्पयामि नमः ॥ १०॥
११. पयः स्नानम् -
स्वधेनुजातं बलवीर्यवर्द्धनं दिव्यामृतात्यन्तरसप्रदं शुभम् ।
श्री चण्डिके दुग्धसमुद्रसम्भवे गृहाण दुग्धं मनसा समर्पितम् ।
ॐ ऐ ह्रीं श्रीं भगवत्यै गायत्र्यै दुग्धस्नानं
समर्पयामि नमः ॥ ११॥
१२. दधिस्नानम् -
क्षीरोद्भवं स्वादु सुधामयं च
श्रीचन्द्रकान्तिसदृशं सुशोभनम् ।
श्री चण्डिके शुम्भनिशुम्भनाशिनि
स्नानार्थमङ्गीकुरु चार्पितं दधि ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै दधिस्नानं
समर्पयामि नमः ॥ १२॥
१३. घृतस्नानम् -
श्रीक्षीरजोद्भूतमिदं मनोज्ञं प्रदीप्तवह्निदयुतिपावितं च ।
श्रीचण्डिके दैत्यविनाशदक्षे हैयङ्गवीनं परिग्टह्यतां च ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै घृतस्नानं
समर्पयामि नमः ॥ १३॥
१४. मधुस्नानम् -
माधुर्यमिश्रं मधुमक्षिकागणैर्वृक्षालिरम्ये मधकानने चितम् ।
श्रीचण्डिके शङ्करप्राणवल्लभे
स्नानार्थमङ्गीकुरु तेऽर्पितं मधु ।
ॐ ऐं हीं श्रीं भगवत्यै गायत्र्यै मधुस्नानं
समर्पयामि नमः ॥ १४॥
१५. शर्करास्नानम् -
पूर्णेक्षुकाम्भोधिसमुद्भवामिमां माणिक्यमुक्ताफलदानमञ्जुलाम् ।
श्रीचण्डिके चण्डविनाशकारिणि स्नानार्थमङ्गीकुरु शर्करां शुभाम् ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै शर्करास्नानं
समर्पयामि नमः ॥ १५॥
१६. जलस्नानम् -
ॐ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूंस्तांश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै जलस्नानं
समर्पयामि नमः ॥ १६॥
१७. इक्षुरसस्नानम् -
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै इक्षुरसस्नानं
समर्पयामि नमः ॥ १७॥
१८. सुगन्धितैलम् -
एतत्वम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्धमद्भिर्वृतम् ॥
सानन्दं शुभसुन्दरीभिरभितो हस्ते धृते चिन्मये
केशेषु भ्रमरप्रभेषु सकलस्वाङ्गेषु चालिप्यताम् ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सुगन्धिततैलं
समर्पयामि नमः ॥ १८॥
१९. उद्वर्त्तनस्नानम् -
मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्त्तनं
भक्त्याहं कलयामि हैमरजसा सम्मिश्रितं केसरैः ।
केशानानामलकैर्विशोध्य विशदं कस्तूरिकाद्यर्चितैः
स्नानं ते नवरत्नकुम्भविधिना संवासितोष्णोदकैः ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै उद्ववर्त्तनस्नानं
समर्पयामि नमः ॥ १९॥
२०. सुगन्धिजलम् -
एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकैः
माणिक्यादिकमौक्तिकामृतयुतैः स्वच्छैः सुवर्णोदकैः ।
मन्त्रान् वैदिकतान्त्रिकान् परिपठन् सानन्दमत्यादरं
स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सुगन्धिजलस्नानं
समर्पयामि नमः ॥ २०॥
२१. शुद्धोदकस्नानम् -
उद्गन्धैरगुरूद्भवैः सुरभिणा कस्तूरिकावारिणा
स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीलैरपि ॥
पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरवासोभरैः
स्नानं ते परिकल्पयामि कमले भक्त्या तदङ्गीकुरु ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै शुद्धोदकस्नानं
समर्पयामि नमः ॥ २१॥
२२. वस्त्रम् -
बालार्कद्युति दाडिमीयकुसुमप्रस्पर्द्धि सर्वोत्तम
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रन्थितं च कञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावारमङ्गीकुरु ।
ॐ ऐं हीं श्रीं भगवत्यै गायत्र्यै वस्त्रं समर्पयामि नमः ॥ २२॥
२३. उपवस्त्रम् -
कौशेयैर्ग्रथितं दिव्यं नानरत्नयुतं वरम् ।
उपवस्त्रं मया दत्तं गृहाण परमेश्वरि ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै उपवस्त्रं
समर्पयामि नमः ॥ २३॥
२४. आचमनम् -
भूपालदिक्पालकिरीटरत्नमरीचियोगार्चितपादपीठैः ।
देवैः समाराधितपादपद्यैः श्रीचण्डिके स्वाचमनं गृहाण ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै आचमनं
समर्पयामि नमः ॥ २४॥
२५. पादुके -
नवरत्नयुते मयार्पिते कमनीये तपनीयपादुके । -
सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै रत्नखचितस्वर्णनिर्मिते
पादुके समर्पयामि नमः ॥ २५॥
२६. मण्डपप्रवेशम् -
नानारत्नसमाकीर्णं मणिस्तम्भविराजितम् ।
मण्डपं प्रविश त्वं हे मातः शीघ्रं प्रसीद मे ।
ॐ ऐं ह्रीं श्रीं भगवति मातः मण्डपं प्रविश ते नमः ॥ २६॥
२७. सिंहासनारोहणम् -
मुक्ताविद्रुमनीलमरकततमणिप्रख्ये शुभेऽत्युज्ज्वले
तिग्मांशुप्रविकासिहेमरचिते सिंहैः सदालङ्कृते ।
कौशेयैः सुसमावृतेऽतिमृदुले नानोपधानावृते
मातस्त्वं पदवीं निधेहि कृपया दिव्येऽति सिंहासने ।
ऐं ह्रीं श्रीं भगवति गायत्रि सिंहासनमधिरुह्यतां नमः ॥ २७॥
२८. केशपाशसंस्कारः-
बहुभिरगुरुधूपैः सादरं धूपयित्वा
भगवति तव केशान् कङ्कतैर्मार्जयित्वा ॥
सुरभि (कमलवृन्दैः) श्चम्पकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जुटयन् वेषयामि ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै केशपाशान्
वेष्टितुं प्रार्थयामि नमः ॥ २८॥
२९. सौवीराञ्जनम् -
सौवीराजनमिदमम्ब चक्षुषोस्ते
विन्यस्तं कनकंशलाकया मया यत् ।
तन्नूनं मलिनमपि त्वदक्षिसङ्गात्
ब्रह्मेन्द्रादयभिलषणीयतामियाय ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सौवीराञ्जनं
समर्पयामि नमः ॥ २९॥
३०. अलङ्काराणि -
मञ्जीरान् पदयोर्निधाय रुचिरान् विन्यस्य काञ्ची कटौ
मुक्ताहारसुरोजयोरनुपमं नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात्
ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥
धम्मिल्ले तव देवि हेमकुसमान्याधाय भालस्थले
मुक्ताराजिविराजि हेमतिलकं नासापुटे मौलिकाम् ।
मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः
कटयां काञ्चनकिङ्किणीं विनिदधे रत्नावतंसौ श्रुतौ ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नानालङ्कराणि
समर्पयामि नमः ॥ ३०॥
३१. गन्धम् -
प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोक्षितम् ।
कुर्वे केशकलापमायततरं घूपोत्तमैर्धूपितम् ।
काश्मीरैरगुरुद्रवैर्मलयजैः सङ्घर्ष्य सम्पादितं
भक्तत्राणपरे (विशुद्ध-) विमले श्रीचन्दनं गृह्यताम् ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै गन्धं समर्पयामि नमः ॥ ३१॥
३२. कुङ्कुमम् -
मातर्भालतले तवातिविमले काश्मीरकस्तूरिका-
ऽगुरुभिः संवलितं करोमि तिलकं देहेऽङ्गरागं हि तत् ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पावृतिं
पादौ कुङ्कुमलेपनादिभिरहं सम्पूजयामि क्रमात् ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै कुङ्कुमं
समर्पयामि नमः ॥ ३२॥
३३. कज्जलम् -
चाम्पेयकपूर्रकचन्दनादिभिर्नानाविधैर्गन्धचयैः सुवासितम् ।
नेत्राञ्जनार्थाय हरिन्मणिप्रभं श्रीचण्डिके स्वीकुरु कज्जलं शुभम् ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै कज्जलं
समर्पयामि नमः ॥ ३३॥
३४. अक्षतान् -
रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः ।
अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै अक्षतान् समर्पयामि नमः ॥ ३४॥
३५. अत्तरम् -
जननि चम्पतैलमिदं पुरो मृगमदः पटवासक ऐडकः ।
विपुलगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै परिमलं
समर्पयामि नमः ॥ ३५॥
३६. सिन्दूरम् -
सीमन्ते ते भगवति मया सादरं न्यस्तमेतत्
सिन्दूर ते हृदयकमले हर्षवर्षं तनोतु ।
बालादित्यदयुतिरिव सदा लोहितायस्यकान्ति-
श्चन्तर्ध्वान्तं हरतु सकलं चेतसा चिन्तयामि ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सिन्दूरं समर्पयामि नमः ॥ ३६॥
३७. मुकुटम् -
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नवरत्नजटितस्वर्णमुकुटं
समर्पयामि नमः ॥ ३७॥
३८. पुष्पाणि -
मन्दारकुन्दकरवीरलवङ्गपुष्पै-
स्त्वां देवि सन्ततमहं परिपूजयामि ।
जातीजपाबकुलचम्पककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नानाविधानि पुष्पाणि
समर्पयामि नमः ॥ ३८॥
३९. पुष्पमाला -
पुष्पौघैर्द्योतयद्भिः सततपरिचलत्कान्तिकल्लोलजालैः
कुर्वाणा मज्जदन्तःकरणविमलताशोभितेयं त्रिवेणी ।
मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निमिता दीप्यमानैः
नित्यं हारं त्वं भगवति कमले गृह्यतां कण्ठमध्ये ॥ ३९॥
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै पुष्पमालां
समर्पयामि नमः ॥ ३९॥
४०. श्वेतचूर्णम् -
मन्दारवल्लीकरवीरसम्भवं कर्परपाटीरसुवासितं सितम् ।
श्रीश्वेतचूर्णं विधिना समर्पितं प्रीत्या त्वमङ्गीकुरु मातरद्य ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै स्वेतचूर्ण
समर्पयामि नमः ॥ ४०॥
४१. रक्तचूर्णम् -
प्रत्यूषबालार्कमयूखसन्निभं जातीफलैलागुरुणा सुवासितम् ।
श्रीरक्तचूर्णं मनसा मयार्पितं प्रीत्यां त्वमङ्गीकुरु मातरद्य ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै रक्तचूर्ण
समर्पयामि नमः ॥ ४१॥
४२. हरिद्रा -
हरिद्रमोत्थामतिपीतवर्णा सुवासितां चन्दनपारिजातैः ।
अनन्यभावेन समर्पितं ते मातर्हरिद्रामुररीकुरुस्व ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै हरिद्रां
समर्पयामि नमः ॥ ४२॥
४३. कुङ्कुमम् -
कुङ्कुमं कामनादिव्यं कामनाकामसम्भवम् ।
कुङ्कुमेनार्चिता देवि प्रसीद परमेश्वरि ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै कुङ्कुमं
समर्पयामि नमः ॥ ४३॥
४४. अबीरगुललाम् -
अबीरं च गुलालं च चोवाचन्दनमेव च ।
अबीरेणार्चिता देवि ऋतं शान्तिं प्रयच्छ मे ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै अबीरं समर्पयामि नमः ॥ ४४॥
४५. धूपम् -
लाक्षारसमिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः
कर्पूराकलितैः सितामधुयुतैर्गोसर्पिषाऽऽलोडितैः ।
श्रीखण्डागुरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
र्धूपं ते परिकल्पयामि जननि तद्भूपमङ्गीकुरु ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै धूपमाघ्रापयामि नमः ॥ ४५॥
४६. दीपम् -
रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा दीपितै-
र्दीपैर्दीर्घतरान्धकारभिदुरैर्वालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलद्गगनवद्रत्नप्रदीपैः सदा
मातस्त्वामहमादरादनुदिनं नीराञ्जयाम्युज्ज्वलैः ।
ॐ ह्रीं श्रीं भगवत्यै गायत्र्यै दीपं दर्शयामि नमः ॥ ४६॥
४७. नैवेद्यम् -
मातस्त्वां दघिदुग्धपायसमहाशाल्यन्नसन्तालिका
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।
एलाजीरकहिङ्गुनागरनिशाकौस्तुम्बरैः संस्कृतैः
शाकैः शाकयुतैः सुधादिसरसैः सन्तर्पयाम्यर्पितैः ॥
सासूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्ष्यपरमान्नपुरःसराणि ॥
शाकील्लसनमरिचजीरकत्वल्लिकानि
भक्ष्याणि भक्ष जगदम्ब मयार्पितानि ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यैनानाविधपरिपक्व-
सुमधुरपक्वफलयुक्त नैवेद्यं निवेदयामि नमः ॥ ४७॥
४८. आचमनीयम् -
गङ्गोत्तरीवेगसमुद्भवेन सुशीतलेनापि मनोहरेण ।
तत्पद्मपत्राक्षि मयाऽर्पितेन शाङ्खोदकेनाचमनं कुरुस्व ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नैवेद्यान्ताचमनीयं जलं
समर्पयामि नमः ॥ ४८॥
४९. पूर्वामधुरपानम् -
क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
पानमेतदमृतोपमं त्वया सम्भ्रमेण परिणीयतां मुहुः ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नैवेद्यान्ताचमनीयं जलं
समर्पयामि नमः ॥ ४९॥
५०. जलम् -
अतिशीतमुशीरवासितं तपनीयोपवने निवेदितम् ।
पटपूतमिदं जितामृतं शुचि गङ्गामृतमेव पीयताम् ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै जलं समर्पयामि नमः ॥ ५०॥
५१. उत्तराचमनीयम् -
नीहारहारं वनसारसारं प्रकल्पितानेकसुगन्धिभारम् ।
शीताम्बु जाम्बुनदपात्रवर्त्ति पीत्वा हि विश्वेश्वरि पीयतां पुनः ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै उत्तराचमनीयं
समर्पयामि नमः ॥ ५१॥
५२. करोद्वर्तनम् -
उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्त्तय चन्दनेन ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै करोद्वर्त्तनं गन्धं
समर्पयामि नमः ॥ ५२॥
५३. ताम्बूलम् -
कर्पूरेण युतैः लवङ्गसहितैः कङ्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।
मातः केतकपत्रकेन्दुरुचिभिस्ताम्बूलवल्लीदलैः
सानन्दं मुखमण्डनीयमतुलं ताम्बूलमङ्गीकुरु ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै ताम्बूलं
समर्पयामि नमः ॥ ५३॥
५४. दक्षिणा -
अथ वहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीये पूजयित्वा च वस्त्रैः ।
मिलितविविधयुक्तैदिव्यलावण्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै दक्षिणां
समर्पयामि नमः ॥ ५४॥
५५. आरार्त्तिक्यम् -
ॐ कर्पूरगौरं करुणावतारं संसारसार भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥
ॐ इदं हविः प्रजननं मेऽस्तु दशवीरं सर्वगणं स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्नि प्रजां बहुलां मेऽकरोतु अन्नं पयो रेतोऽस्मासु धत्त ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै आरार्तिक्यं
समर्पयामि नमः ॥ ५५॥
५६. प्रदक्षिणा -
पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तां सर्वपापक्षयहेतुभूतां प्रदाक्षिणां ते परितः करोमि ।
ॐ ऐं हीं श्रीं भगवत्या गायत्र्याः प्रदाक्षिणां करोमि नमः ॥ ५६॥
५७. मन्त्रपुष्पाञ्जलिः -
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै मन्त्रपुष्पाञ्जलिं
समर्पयामि नमः ॥ ५७॥
५८. प्रार्थना -
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे
नक्षत्राणि रूपमश्विनौ व्यात्तम् ।
इष्णन्निषाणामुम्म इषाण सर्वलोकम्म इषाण ॥
ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् ।
सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एकः ।
ॐ ऐं ह्रीं श्रीं भगवती गायत्र्यीं प्रार्थयामि नमः ॥ ५८॥
५९. विशेषार्घ्यम् -
कलिङ्गकोशातकसंयुतानि जम्बीरनारङ्गसमन्वितानि ।
सुनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै विशेषार्घ्यं
समर्पयामि नमः ॥ ५९॥
६०. छत्रम् -
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुविम्बप्रभं
नानारत्नविशोधि हेमतिलकं लोकत्रयाह्लादकम् ।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि जननि त्वष्ट्रा स्वयं निर्मितम् ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै छत्रं समर्पयामि नमः ॥ ६०॥
६१. चामरम् -
शरदिन्दुमरीचिगौरवर्णैः माणिक्यमुक्ताविलसत्सुदण्डैः ।
जगदम्ब विचित्र चामरैस्त्वामहमानन्दभरेण वीजयामि ।
ऐं ह्रीं श्रीं भगवतीं गायत्रीं चामरेण वीजयामि नमः ॥ ६१॥
६२. आदर्शः-
मार्तण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन् विलोकय विलोलविलोचनेन ।
ॐ ऐं ह्रीं श्रीं भगवतीं गायत्रीं दर्पणं दर्शयामि नमः ॥ ६२॥
६३. अस्त्रम् -
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सुदर्शनाद्यस्त्रं
समर्पयामि नमः ॥ ६३॥
६४. शस्त्रम् -
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै गदाशखम्पाशादि शस्त्रं
समर्पयामि नमः ॥ ६४॥
६५. वाहनम् -
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै हंससिंहगरुडादि वाहनं
समर्पयामि नमः ॥ ६५॥
६६. सैन्यम् -
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सैन्यं समर्पयामि नमः ॥
६७. नृत्यम् -
भ्रमविलोलितकुन्तलवृन्दका गलितमाल्यविकीर्णसुभूमयः ।
झटिति झङ्कृतिभिर्जगदम्बिके मृदुरवा हृदयं सुखयन्तु ते ।
ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नृत्यं
समर्पयामि नमः ॥ ६७॥
६८. प्रणामः -
ॐ ऐं ह्रीं श्रीं भगवती गायत्री साष्टाङ्ग प्रणमामि ।
इति राजोपचारमानसपूजा समाप्ता ।
समाप्ति चागादियं गायत्रीउपासनापद्धतिः ।
ॐ शान्तिः ! शान्तिः !! शान्तिः !!!
गायत्री राज उपचार मानस पूजा उपासना पद्धति