गायत्री स्तोत्र

गायत्रीपञ्चाङ्गम्

गायत्रीपञ्चाङ्गम्

भैरव उवाच -
श्रृणु देवि प्रवक्ष्यामि गायत्रीतत्त्वमुत्तमम् ।
स्तोमं मन्त्रमयं नाम सर्वतन्त्रेषु गोपितम् ॥ १॥

अङ्गपञ्चाङ्गमीशानि महापातकनाशनम् ।
पुण्यप्रदं वेदसारं सर्वतत्त्वोत्तमोत्तमम् ॥ २॥

परमार्थाभिख्यातस्य स्तोत्रस्यास्ति ऋषिः शिवः ।
त्रिष्टुप् छन्दो महादेवि त्रिपदी देवता स्मृता ॥ ३॥

तारं बीजं शिरः शक्तिः स्वर्गं कीलकमीश्वरि ।
धर्मार्थकाममोक्षार्थे विनियोग इति स्मृतः ॥ ४॥

ध्यानम्-
चतुर्भुजामर्कसहस्रकोटिभां
त्रिलोचनां हारकिरीटशोभिताम् ।
कपालखट्वाङ्गधरां महोज्ज्वलां
(श्रुती) श्वरी पञ्चमुखीं भजाम्यहम् ॥ १॥

विविधमणिमयूरवैः स्फीतकेयूरहारां
प्रवरकनककाञ्चीकिङ्किणीकिङ्किणाढ्याम् ।
सकलभुवनरक्षासृष्टिसंहारकर्त्रीं
निगमपरमविद्यामाश्रये वेदधात्रीम् ॥ २॥

प्रणवं मनुराजमौलिरत्नोपरि
देवेश्वरि वेदसागरोत्थाम् ।
प्रजये हृदये दयः समुद्रः सततं
ब्रह्मविदीश्वरो भवेद्य एकः ॥ ३॥

शङ्का भवेच्चैव विहाय शङ्का
कङ्कालमालाभरणो निशीथे ।
कृशानुभानुप्रभया समानो
विमानचारी स भवेत समानः ॥ ४॥

नृबीजमन्तः शिवशक्तिरूपं
विभोर्जपेद्यः त्रिपदीरहस्यम् ।
स कामुकः कामकलाविदग्धो
भवेत्तु रम्भाङ्गविलासभागी ॥ ५॥

त्रिकूटबीजं तव मन्त्रमध्ये
जपेद्भवानि स्मरतप्तचेता ।
स मीनकामांश्च निदाघमेधो
भवेद्भुवो भूपबुधो जनेन्द्रः ॥ ६॥

स्मरजपेद्यः परमार्थपथ्यां
निर्वाणपथ्यां तव पञ्चवक्त्रे ।
समस्तलोकाधिपतिः पुरेऽसौ
भवेत्परानुग्रहभाजनं सः ॥ ७॥

परां जपेद्यः परमार्थतथ्यां
निर्वाणरथ्यां तव पञ्चवक्त्रे ।
सुलोचनांलोचनवीक्षणोरु
प्रभावपीयूषरसाकुलात्मा ॥ ८॥

लक्ष्मीं जपेद्यः परवर्गभीतः
श्मशानभूमौ शिववेषधारी ।
तस्यै (-व) वश्या कमलाकरस्था
या विष्णुपत्नी कमलाकरस्था ॥ ९॥

वाणी यदा कण्ठजले जपेद्यो
दशायुतं दुर्दशयाभिभूतः ।
स वैरिवर्ग समरे निहत्य
भवेद्भवानीतनयो दिवेन्द्रः ॥ १०॥

भीमां जपेद्यो वरतान्तकाले
नितान्तमम्भोजदलासनस्थः ।
स भीमरूपोऽरिकुलं विहन्या-
दन्ते लभेत्कामपदं त्रिपाद्याः ॥ ११॥

मन्त्र जपेद्यः शुचिरर्चनायां
चतुर्भुजे हव्यभुजः समक्षम् ।
स गाणपत्यं प्रतिपद्य देव्या
स्तथा भवेद्विश्वनृपाधिनाथः ॥ १२॥

गायत्रीत्यभिधाक्षरत्रयमिदं वेदार्थतत्त्वं परं
यो ध्यायेद्धृदयारविन्दकुहरे प्रातर्निशीथेऽथवा ।
चैनाचारविचारमार्गनिपुणो वेदान्तसारोद्धृतं
प्रोद्भूतागमतत्त्ववित्तु त्रिपदीधाम स्वयं यास्यति ॥ १३॥

रमा (सुयोगी) गिरिगह्वरान्ते
जपेद्गिरीशाङ्कपतेः समीपे ।
स योगिगम्यो गुरुगर्वहारी
गिरां भवेदिन्द्रसमुच्चिताघ्रिः ॥ १४॥

मायां जपेद्यः स्मरयुक्तचेता
जटाकिरीटेन्दुकले तवाग्रे ।
स वैष्णवेन्दौ सुरनाथमौलिः
स्फुरन्मणिज्योतिविराजिताङ्घ्रिः ॥ १५॥

मा बीजमिन्दुस्फुरतोर्ध्वबीजं
जपेन्निशीथे शीर्षासनस्थः ।
यो वीरमातैकपरः स सद्यो
भवेद्धरायां नृपसार्वभौमः ॥ १६॥

मायायुगं यः प्रजपेद्रतादौ
(नारी-) मुखासक्तमुखो निशीथे ।
स लोकपालार्चितपादपद्मो
भवेद्भवान्ते भुवनाधि नाथः ॥ १७॥

वाणी जपेद्यो जडभावयुक्तो
वेदान्ततत्त्वैकपरो भवेच्च ।
तस्यास्यपद्मे वसतिं विधाय
ननर्त्ति वाणी विदुषां सभायाम् ॥ १८॥

यो वायुपूज्यां सुरतावसाने
जपेन्निशीथे शशिखण्डचूडे ।
स वायुपूज्यो बलवान् प्रयाति
तद्धाम सत्यं त्रिदिवेन्द्रतुल्यः ॥ १९॥

कान्तार्णमन्तर्जपते स्मरान्ते
यो वेदमातर्दिवसावसाने ।
वश्यो वशी तस्य पदारविन्दे
सुश्रूषमाणो भवता भवन्ति ॥ २०॥

मन्त्रान्तरस्थं ठद्वयं जपेद्यस्
तेजोरूपं साधकसाधकेशि ।
तस्याप्यास्ये भारती तस्य हस्ते
लक्ष्मीः कुर्याद्वास आकल्पकालम् ॥ २१॥

भूगेहवृत्तस्रयषोडशार
नानास्त्रदिक्कोणयुगानि विन्दौ ।
निषेदुषीं शीधुरसाकुलाक्षी
ज्यक्षीं त्रिवर्णां त्रिपदां भजामि ॥ २२॥

देवि त्रैलोक्यमातर्लगुडवरकरे पुष्पमालावतंसे
नानारत्नप्रभाढ्ये त्रिनयनविलसत्सूर्यचन्द्राग्निनेत्रे ।
पीठे वै पञ्चवक्त्रे वलयमणिविभाभासुरे नूपुराढ्ये
श्रीमन्नीलोत्पलाभे त्रिभुवनहृदये वेदमातः प्रसीद ॥ २३॥

इति स्तोत्रं पुण्यं परममनुमयतत्त्वसहितं
पठेद्वा गायत्रीं निशि कुजदिने वापि सततम् ।
पठेद्वाऽसौ दान्तः (सकलमपि) शास्त्रं गमयति
लभेल्लक्ष्मीं प्रान्ते परमपदवीमातृकामपि ॥ २४॥

एतद्देवीपञ्चाङ्गं सर्व सारमनुत्तमम् ।
गायत्र्यास्तत्त्वमीशानि चतुर्वेदरहस्यकम् ॥ २६॥

सर्वसारमयं सिद्धिप्रदं भोगापवर्गदम् ।
सर्वतन्त्रेषु गुप्तं च महादिव्यं महापदम् ॥ २७॥

न दातव्यमभक्ताय कुचैलाय दुरात्मने ।
अन्यशिष्याय नो देयं दत्त्वा निरयमाप्नुयात् ॥ २८॥

शिष्याय शुद्धमनसे गुरुभक्ताय पार्वति ।
दीक्षिताय कुलीनाय देयं साधकसत्तमे ॥ २९॥

इतीदं देवि गायत्र्यास्तत्त्वसाररहस्यकम् ।
गुह्यं गोप्यं न दातव्यं गोपनीयं प्रयत्नतः ॥ ३०॥

इति श्री रूद्रयामलतन्त्रे गायत्रीरहस्ये
परमार्थदेवतात्रिपदीगायत्रीपञ्चाङ्गं सम्पूर्णम् ।

गायत्री रहस्य पंचांगं