गायत्री स्तोत्र

गायत्रीनामाष्टाविंशतिस्तोत्रम्

गायत्रीनामाष्टाविंशतिस्तोत्रम्


श्रीगणेशाय नमः ॥

ब्रह्मोवाच ।
शताक्षरात्मकं देव्या नामाष्टाविंशतिः शतम् ।
श‍ृणु वक्ष्याभि तत्सर्वमतिगुह्यं सनातनम् ॥ १॥

भूतिदा भुवना वाणी वसुधा सुमना मही ।
हरिणी जननी नन्दा सविसर्गा तपस्विनी ॥ २॥

पयस्विनी सती त्यागा चैन्दवी सत्यवीरसा ।
विश्वा तुर्या परा रेच्या निर्घृणी यमिनी भवा ॥ ३॥

गोवेद्या च जरिष्ठा च स्कन्दिनी धीर्मतिर्हिमा ।
भीषणा योगिनी पक्षी नदी प्रज्ञा च चोदिनी ॥ ४॥

धनिनी यामिनी पद्मा रोहिणी रमणी ऋषिः ।
सेनामुखी सामयी च बकुला दोषवर्जिता ॥ ५॥

सर्वकामदुघा सोमोद्भवाऽहङ्कारवर्जिता ।
द्विपदा च चतुष्पादा त्रिपदा चैव षट्पदा ॥ ६॥

अष्टापदी नवपदी सा सहस्राक्षरात्मिका ।
इदं यः परमं गुह्यं सावित्रीमन्त्रगर्भितम् ॥ ७॥

नामाष्टविंशतिशतं श‍ृणुयाच्छ्रावयेत्पठेत् ।
मर्त्यानाममृतत्वाय भीतानामभयाय च ॥ ८॥

मोक्षाय च मुमुक्षूणां श्रीकामान् प्राप्तये श्रियः ।
विजयाय युयुत्सूनां व्याधितानामरोगकृत् ॥ ९॥

वश्याय वश्यकामानां विद्यायै वेदकामिनाम् ।
द्रविणाय दरिद्राणां पापिनां पापशान्तये ॥ १०॥

वादिनां वादविजये कवीनां कविताप्रदम् । वादविषये
अन्नाय क्षुधितानां च स्वर्गाय नाकमिच्छताम् ॥ ११॥ स्वर्गार्थं

पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकाङ्क्षिणाम् ।
क्लेशिनां शोकशान्त्यर्थं नृणां शत्रुभयाय च ॥ १२॥

राजवश्याय द्रष्टव्यं परमं नृपसेविनाम् ।
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥ १३॥

नायकं विधिसृष्टानां शान्तये भवति ध्रुवम् ।
निःस्पृहाणां नृणां मुक्तिः शाश्वती भवति ध्रुवम् ॥ १४॥

जप्यं त्रिवर्गसंयुक्तं गृहस्थेन विशेषतः ।
मुनीनां ज्ञानसिद्ध्यर्थं यतीनां मोक्षसिद्धये ॥ १५॥

उद्यतं चन्द्रकिरणमुपस्थाय कृताञ्जलिः ।
कानने वा स्वभवने तिष्ठन् शुद्धो जपेदिदम् ॥ १६॥

सर्वान् कामानवाप्नोति तथैव शिवसन्निधौ ।
मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्धनम् ॥ १७॥

ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ।
अङ्गमङ्गं यथालिङ्गं कवचेन तु साधकः ॥ १८॥

मण्डलेन विशुध्येत सर्वरोगैर्न संशयः ।
मृतप्रजा च या नारी जन्मवन्ध्या तथैव च ॥ १९॥

कन्यादिवन्ध्या या नारी तासामङ्गं प्रमार्जयेत् ।
पुत्रा नरोगिणस्तास्तु लभन्ते दीर्घजीविनः ॥ २०॥

तास्ताः संवत्सरादर्वाक् गर्भं तु दधिरे पुनः ।
पतिविद्वेषिणी या स्त्री अङ्गं तस्याः प्रमार्जयेत् ॥ २१॥

तमेव भजते सा स्त्री पतिं कामवशं नयेत् ।
अश्वत्थे राजवश्यार्थं बिल्वमूले स्वरूपभाक् ॥ २२॥

पालाशमूले विद्यार्थी तेजसोऽभिमुखो रवौ ।
कन्यार्थी चण्डिकागेहे जपेच्छत्रुभयाय च ॥ २३॥

श्रीकामो विष्णुगेहे च उद्याने श्रीर्वशीभवेत् ।
आरोग्यार्थे स्वगेहे च मोक्षार्थी शैलमस्तके ॥ २४॥

सर्वकामो विष्णुगेहे मोक्षार्थी यत्र कुत्रचित् ।
जपारम्भे तु हृदयं जपान्ते कवचं पठेत् ॥ २५॥

किमत्र बहुनोक्तेन श‍ृणु नारद तत्त्वतः ।
यं यं चिन्तयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ २६॥

इति श्रीमद्वसिष्ठसंहितायां ब्रह्मनारदसंवादे
गायत्रीनामाष्टाविंशतिस्तोत्रं समाप्तम् ॥