गायत्रीहृदयम्
गायत्रीहृदयम्
॥ अथ श्रीमद्देवीभागवते महापुराणे गायत्रीहृदयम् ॥
नारद उवाच ।
भगवन्देवदेवेश भूतभव्य जगत्प्रभो ।
कवचं च शृतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १॥
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।
यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम् ॥ २॥
श्रीनारायण उवाच ।
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३॥
विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।
ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४॥
पिण्डब्रह्मण्दयोरैक्याद्भावयेत्स्वतनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५॥
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६॥
अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमयो भवेत् ।
गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७॥
गायत्रीछन्द उद्दिष्टं देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट् क्रमात् ।
आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८॥
अथार्थन्यासः ॥ द्यौमूर्ध्नि दैवतम् ॥
दन्तपङ्क्तावश्विनौ ॥ उभे सन्ध्ये चौष्ठौ ॥
मुखमग्निः ॥ जिह्वा सरस्वती ॥ ग्रीवायां तु बृहस्पतिः ॥
स्तनयोर्वसवोऽष्टौ ॥ बाह्वोर्मरुतः ॥ हृदये पर्जन्यः ॥
आकाशमुदरम् ॥ नाभावन्तरिक्षम् ॥ कट्योरिन्द्राग्नी ॥
जघने विज्ञानघनः प्रजापतिः ॥ कैलासमलये ऊरू ॥
विश्वेदेवा जान्वोः ॥ जङ्घायां कौशिकः ॥ गुह्यमयने ॥
ऊरू पितरः ॥ पादौ पृथिवी ॥ वनस्पतयोङ्गुलीषु ॥
ऋषयो रोमाणि ॥ नखानि मुहूर्तानि ॥ अस्थिषु ग्रहाः ॥
असृङ्मांसमृतवः ॥ संवत्सरा वै निमिषम् ॥
अहोरात्रावादित्यश्चन्द्रमाः ॥
प्रवरं दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ॥
ॐ तत्सवितुर्वरेण्याय नमः ॥ ॐ तत्पूर्वाजयाय नमः ॥
तत्प्रातरादित्याय नमः ॥ तत्प्रातरादित्यप्रतिष्ठायै नमः ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥
सायमधीयानो दिवसकृतं पापं नाशयति ॥
सायंप्रातरधीयानः अपापो भवति ॥
सर्वतीर्थेषु स्नातो भवति ॥ सर्वैर्देवैर्ज्ञातो भवति ॥
अवाच्यवचनात्पूतो भवति ॥ अभक्ष्यभक्षणात्पूतो भवति ॥
अभोज्यभोजनात्पूतो भवति ॥ अचोष्यचोषणात्पूतो भवति ॥
असाध्यसाधनात्पूतो भवति ॥ दुष्प्रतिग्रहशतसहस्रात्पूतो भवति ॥
पङ्क्तिदूषणात्पूतो भवति ॥ अमृतवचनात्पूतो भवति ॥
अथाब्रह्मचारी ब्रह्मचारी भवती ॥
अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति ॥
षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवन्ति ॥
अष्टौ ब्राह्मणान्सम्यग्ग्राहयेत् ॥ तस्य सिद्धिर्भवति ॥
य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापः
प्रमुच्यत इति ॥ ब्रह्मलोके महीयते ॥
इत्याह भगवान् श्रीनारायणः ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे
गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥